"जानेवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ३८:
नामप्रेम किमर्थं न उत्पद्यते इति बहवः पृच्छन्ति। परम् अल्पेन चिन्तनेन वयम् अवगन्तुं शक्नुमः यत् एषः प्रश्नः एव न योग्यः। वन्ध्यया महिलया कृतेन ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नेन समः एषः प्रश्नः। पुत्रेण सहैव प्रेमोत्पद्यते। ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘पुत्रः कथम् उत्पद्येत’ इति अस्य चिन्तनं योग्यम्। अस्माभिः अपि प्रश्नः करणीयः चेत् ‘नामप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘मुखे नाम कथं भवेत्’ इति पृच्छा करणीया। मुखे नामागमनार्थं कस्य अवरोधः वर्तते? न कस्यापि अन्यस्य, परं स्वस्यैव। वस्तुतः ‘एकवारं नामजपारम्भः निश्चितः चेत् पर्याप्तम्। परं तथा न भवति चेत् दोषः न अन्यस्य, परं स्वस्य एव। अतः नामजपकरणम् अस्माकं कार्यं तस्य अनुगमनं प्रेम्णः धर्मः। पुत्रः प्रेमपानं च मातृदृष्ट्या यथा अभिन्नं वर्तते तथा नाम नामप्रेम च अभिन्ने एव भवतः। एतेन एतत् तु निश्चितं यत् ‘प्रेम किमर्थं नायाति’ इति एतस्य उत्तरम् आत्मनः समीपे एव वर्तते। तत् ‘नाम न जपामः अतः’ इति। अत्र कश्चन पृच्छेत् यत् वयं नामजपं कुर्मः, परं प्रेम कथं न उत्पद्यते? एषः प्रश्नः योग्यः। अधुना यत् नामस्मरणं कुर्मः तद्विषये चिन्तयामः चेत् किं दृश्येत? औरसपुत्रं प्रति या आर्तता मातुः वर्तते, सा नामविषये अस्माकं न वर्तते। सर्वसत्पुरुषैः गुरुणा वा कथितम् अतः वयं नाम जपामः। कदाचित् अन्यत् किमपि कर्तुं न विद्यते अतः नाम जपामः। एतावत् एव। अर्थात् तथा जपामः चेत् अपि अद्य श्वः वा अस्माकं कार्यं भवेत् एव। परं प्रेम किमर्थं न उत्पद्यते इति प्रश्नात् प्राग् वयं नामस्मरणं कियत्या आस्थया कुर्मः इति प्रश्नः आत्मानं प्रति करणीयः। चिरेण प्रसूतायाः सुतविषये यादृशी स्थितिः वर्तते, तादृशी नामस्मरणविषये अस्माकं भवेत्।
अस्माकं देहवृद्धिः यथा अज्ञाततया भवति तथा पारमार्थिकी उन्नतिः अपि अज्ञाततया भवतु। सा ज्ञायते चेत् सर्वं व्यर्थं भवितुमर्हति। परमार्थस्य प्राप्तेः अपेक्षया प्राप्तस्य तस्य रक्षणम् इतोऽपि कठिनतरम्। यः ‘अहं किञ्चन विशिष्टं जन्म प्राप्तवान्’ इति मन्यते, तस्य अपि जन्मनि न तथा किमपि वैशिष्ट्यम्। एतेन जनेन आत्मा बहु एव रक्षणीयः।
==== '''***'''पत्ये न रोचते तथापि पत्न्या नामस्मरणं न त्यक्तव्यम्। सा नामस्मरणं करोति चेत् तया धर्मः त्यक्तः इति न भवति अपि तु कौटुम्बिकजीवनं सुखकरं भवति।'''***''' ====
 
== जानेवारी 8==
"https://sa.wikisource.org/wiki/जानेवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्