"जानेवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
== '''जानेवारी 1''' ==
=== '''नाम परमात्मस्वरूपमेव वर्तते।''' ===
नाम इत्युक्ते भगवन्नाम। साधनदृष्ट्या देवस्य भिन्नभिन्ननामसु न भेदः। जीवशिवयोः मध्ये नामरूपा शृङ्खला वर्तते। नाम साधनं, साध्यमपि। नाम सगुणं, निर्गुणं च। नाम्नः आरम्भः सगुणे, अन्तः निर्गुणे च। आरम्भः सगुणे वर्तते, यतो हि मूलतः निर्गुणः निराकारः च भगवान् यदा सगुणम् आगतः, तदा सः नाम रूपं च अलभत। सगुणत्वविलयानन्तरम् अपि नाम अवशिष्यते। अतः सः निर्गुणः। अतः सगुणनिर्गुणभक्त्योः नाम एवाधारः। नामैव सत्सङ्गस्य अधिष्ठानं शिखरं च। नाम इत्युक्ते अस्माकं वृत्तिं भगवता सह योजयित्री शृङ्खला। विवाहानन्तरं पत्नी यथा पत्या सह एकरूपा भवति तथा वृत्त्या नाम्ना सह विवाहं कृत्वा नामरूपया भवितव्यम्। नाम अतीव सूक्ष्मम्। वृत्तिः अपि सूक्ष्मा। अतः नामजपेन वृत्तिपरिष्करणं भवेत्। विशुद्धया वृत्त्या चित्तं शान्तं भवेत्। चित्तं शान्तं भवति चेद् निष्ठा उत्पद्यते। सर्वेषां भावार्थः एकः एव।
"https://sa.wikisource.org/wiki/जानेवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्