"फेब्रुवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४:
कः अहम् इति जानीमः चेत् कः परमात्मा इत्यपि सहजं ज्ञायते। द्वयोः अपि स्वरूपम् एकमेव। इत्युक्ते द्वौ अपि समानमेव। परमात्मा निर्गुणः। तं ज्ञातुम् अस्माभिः अपि निर्गुणैः भवितव्यं ननु। अतः देहबुद्धिः त्यक्तव्या। किमपि वस्तु वयं जानीमः इत्युक्ते अस्माभिः तेनैव वस्तुरूपेण भवितव्यम्। तद् विना ज्ञानमेव न भवेत्। अतः परमात्मानं ज्ञातुम् अस्माभिः परमात्मरूपैः न भवितव्यं वा? इदम् एव ‘सत्पुरुषः भूत्वा सत्पुरुषः ज्ञातव्यः’ ‘शिवः भूत्वा शिवं यजेत्’ इति वदन्ति।
==== *** यावत् नामस्मरणे सम्यक् तल्लीनः न भवति, तावदहंकारः न नश्यति।*** ====
== '''फेब्रुवरि 2 ''' ==
=== '''नामजपेन सद्बुद्धिः जायते।''' ===
युद्धप्रसङ्गं परिहर्तुं कौरवाः पाण्डवेभ्यः न्यूनातिन्यूनं पञ्चग्रामान् दद्युः इति मत्वा स्वयं भगवान् श्रीकृष्णः दुर्योधनं प्रति मध्यस्थवार्तां कर्तुं गतवान्। तदा दुर्योधनः अभणत्, “देव, यत् भवान् वदति तत् सर्वं सम्यग् वर्तते। न्यायदृष्ट्या भवतः वचनानुसारं किमपि करणीयम्। परं मम तथा बुद्धिः न भवति। तदर्थम् अहं किं करवाणि? भवान् सर्वप्रभुः। मम बुद्धिं परिवर्तयतु, येन सर्वे प्रश्नाः समाप्स्यन्ते।” परं तथा किमपि न जातं, युद्धम् एव अभवत् इति विख्यातम्। तथा एव रावणस्य अपि। अतः सगुणावतारेण वासनायाः बुद्धेः वा परिवर्तनकार्यं न भवति इति दृश्यते। सद्बुद्धेः उत्पादनस्य सामर्थ्यं भगवन्नाम्नि एव वर्तते। अतः त्रिकालेन अबाधितस्य नामावतारस्य अधुना आवश्यकता वर्तते। नाम इत्युक्ते भगवानेव। तन्नाम अनन्याः भूत्वा वयं जपामः।
कस्यचन जनस्य स्वास्थ्यं सम्यगासीत्। परं तस्य पादे दोषः जातः। वैद्येन उक्तं यत् जीवरक्षणार्थं शरीररक्षणार्थं च पादकर्तनम् अपेक्ष्यते। प्राणमात्रं वर्तते परं हस्तौ न चेष्टेते, पादौ न चलत:, नेत्रे न पश्यतः, कर्णौ न श्रुणुतः, तर्हि कः लाभः? प्रत्युत अन्यत् सर्वं वर्तते, परं प्राणो नास्ति, तर्हि न लाभः। प्राणः वर्तते, परम् अवशिष्टेषु कश्चन अवयवः न विद्यते तर्हि जीवनं प्रवर्तते। चिन्तयन्तु, कर्णेन श्रवणम् अशक्यम्। भवतु नाम। बहु हानिः न। उपासना अनुसन्धानं च प्राणसदृशं मन्यन्ताम्। अन्यकार्याणि शरीरेन्द्रियसमानानि। अतः भगवदनुसन्धानं न जातं चेत् प्राणः गतः इव। तत् कृत्वा अन्ये सर्वे विषयाः यावत् शक्यं करणीयाः। तद्विना अन्ये विषयाः कृताः चेत् अतिनिराशा वर्तते।
अस्माकं मनोनुकूलं न भवति अतः वयं दुःखिनः इति वचनापेक्षया इदं चिन्तनम् अस्माकं मनसि वर्तते इत्येव दुःखमूलम् इति वक्तव्यम्। विशिष्ट: विषयः सुखदायकः इति कल्पना एव दुःखमूलम्। इदं ज्ञात्वा अस्माभिः वर्तनीयम्। बिडालः मूषकेन सह क्रीडति। तं धरति, मुञ्चति, परम् अन्ते प्राणान् एव हरति। तथैव कालः अस्माभिः सह करोति। आशायाम् आसज्जयति। पुनः त्यजति। आरम्भतः अस्माभिः अवगन्तव्यं यदिदं बन्धनं न लाभकरम्। अनुसन्धानेन एव मनुष्यकल्याणम्। अन्यथा बहु कठिनम्। अहमहम् इति वक्तारः ज्ञानोपदेशकाः विद्वांसः, शास्त्रिणः, पण्डिताः, च सर्वे भ्रमे सन्ति। अतः वदामि, यदेकं कुर्वन्तु, अनुसन्धानं सन्धार्य यावत् कर्तुं शक्यते तावत् कुर्वन्तु।
==== '''*** अस्माकम् इच्छानुसारं न भवति इति भगवत्कृपा एव।***''' ====
फेब्रुवरि 3
नामजपेन अस्माकम् अवगुणाः ज्ञायन्ते।
जगति विद्यमानानि विविधानि साधनानि पश्यामः चेत् तेषु सर्वेषु प्रथमः सोपानः वर्तते यत् मनुष्यः स्वावगुणान् पश्येत्। यथा यथा साधनं वर्धते तथा तथा स्वावगुणाः प्रकर्षेण दृश्यन्ते, न न, पर्वतप्रायाः भासन्ते। “हे परमेश्वर, एतावद्भिः अवगुणैः पूरितः अहं भवतः दर्शनं कथम् अपेक्षे? एतावति पर्वतप्राये अवगुणसञ्चये सति भवतः दर्शनं कालत्रये वा कर्तुं शक्नोमि” इति मनः चिन्तयति। साधनात् प्राक् क्रोधी जनः क्रोधविषये खिन्नतां न अनुभवति। किं बहुना सः दोषः इति न अङ्गीकरोति। सः वदति “ व्यवहारे एतादृशः उग्रभावः आवश्यकः एव। तं विना कार्यं कथं भवेत्?” कश्चन साधको माम् उक्तवान् ‘साम्प्रतम् अहं बहु क्रोधाविष्टः जायमानः अस्मि।’ वस्तुतः तस्य अधुना एव क्रोधः न, सः तु पूर्वस्माद् आरभ्य वर्तते, परं साधनानन्तरं तेन भानं प्राप्तम्। क्रोधः असमीचीनः इति तस्य ज्ञानं जायमानं वर्तते।
कश्चन विवाहोत्सुक: युवकः आसीत्। बह्व्यः युवत्यः तेन दृष्टाः। परम् एकापि तस्मै न अरोचत। जामितौ तस्य पितरौ उक्तवन्तौ ‘ आदौ कन्यां चिनोतु। अनन्तरम् आवां पश्यावः।’ तौ कन्यां द्रष्टुमपि न गच्छतः स्म। तस्य अग्रजा तेन सह गच्छति स्म। कदाचिद् एकां कन्यां दृष्ट्वा सा अपृच्छत्, ‘कथं मन्यते भवान्?’ सः अवदत्, ‘न। न अनुमन्ये किल।’ सा बहु चतुरा आसीत्। सा केवलं दर्पणं तस्य मुखस्य पुरतः धृतवती उक्तवती च, ‘अस्य मुखस्य पुरतः कथं भासते सा?’ स्वस्य मुखं दृष्ट्वा सः अभणत्, ‘ओह, बहु सम्यक् भासते।’ सारांशेन यावत् स्वदर्शनं न भवति तावत् अन्येषाम् अवगुणाः एव दृश्यन्ते। अन्येषाम् अवगुणान् वयं पश्यामः परं तेषां बीजम् अस्मासु एव वर्तते इति अस्माभिः सम्यग् ज्ञातव्यम्। अतः अन्येषाम् अवगुणदर्शनस्वभावः अस्माभिः परिहर्तव्यः। अन्येषाम् अवगुणदर्शनं सामान्यः व्यवहारः। न तु परमार्थः। वास्तवः परमार्थी सततम् आत्मानं परीक्षते। अन्येषाम् अवगुणान् सः न पश्यति। स्वावगुणान् एव सः एतावत् पश्यति यत् तुलनया अन्ये सर्वे तेन परमेश्वरस्वरूपमेव दृश्यन्ते। एषः एव परमार्थः।
"https://sa.wikisource.org/wiki/फेब्रुवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्