"फेब्रुवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
अस्माकं मनोनुकूलं न भवति अतः वयं दुःखिनः इति वचनापेक्षया इदं चिन्तनम् अस्माकं मनसि वर्तते इत्येव दुःखमूलम् इति वक्तव्यम्। विशिष्ट: विषयः सुखदायकः इति कल्पना एव दुःखमूलम्। इदं ज्ञात्वा अस्माभिः वर्तनीयम्। बिडालः मूषकेन सह क्रीडति। तं धरति, मुञ्चति, परम् अन्ते प्राणान् एव हरति। तथैव कालः अस्माभिः सह करोति। आशायाम् आसज्जयति। पुनः त्यजति। आरम्भतः अस्माभिः अवगन्तव्यं यदिदं बन्धनं न लाभकरम्। अनुसन्धानेन एव मनुष्यकल्याणम्। अन्यथा बहु कठिनम्। अहमहम् इति वक्तारः ज्ञानोपदेशकाः विद्वांसः, शास्त्रिणः, पण्डिताः, च सर्वे भ्रमे सन्ति। अतः वदामि, यदेकं कुर्वन्तु, अनुसन्धानं सन्धार्य यावत् कर्तुं शक्यते तावत् कुर्वन्तु।
==== '''*** अस्माकम् इच्छानुसारं न भवति इति भगवत्कृपा एव।***''' ====
== '''फेब्रुवरि 3 ''' ==
=== '''नामजपेन अस्माकम् अवगुणाः ज्ञायन्ते।''' ===
जगति विद्यमानानि विविधानि साधनानि पश्यामः चेत् तेषु सर्वेषु प्रथमः सोपानः वर्तते यत् मनुष्यः स्वावगुणान् पश्येत्। यथा यथा साधनं वर्धते तथा तथा स्वावगुणाः प्रकर्षेण दृश्यन्ते, न न, पर्वतप्रायाः भासन्ते। “हे परमेश्वर, एतावद्भिः अवगुणैः पूरितः अहं भवतः दर्शनं कथम् अपेक्षे? एतावति पर्वतप्राये अवगुणसञ्चये सति भवतः दर्शनं कालत्रये वा कर्तुं शक्नोमि” इति मनः चिन्तयति। साधनात् प्राक् क्रोधी जनः क्रोधविषये खिन्नतां न अनुभवति। किं बहुना सः दोषः इति न अङ्गीकरोति। सः वदति “ व्यवहारे एतादृशः उग्रभावः आवश्यकः एव। तं विना कार्यं कथं भवेत्?” कश्चन साधको माम् उक्तवान् ‘साम्प्रतम् अहं बहु क्रोधाविष्टः जायमानः अस्मि।’ वस्तुतः तस्य अधुना एव क्रोधः न, सः तु पूर्वस्माद् आरभ्य वर्तते, परं साधनानन्तरं तेन भानं प्राप्तम्। क्रोधः असमीचीनः इति तस्य ज्ञानं जायमानं वर्तते।
कश्चन विवाहोत्सुक: युवकः आसीत्। बह्व्यः युवत्यः तेन दृष्टाः। परम् एकापि तस्मै न अरोचत। जामितौ तस्य पितरौ उक्तवन्तौ ‘ आदौ कन्यां चिनोतु। अनन्तरम् आवां पश्यावः।’ तौ कन्यां द्रष्टुमपि न गच्छतः स्म। तस्य अग्रजा तेन सह गच्छति स्म। कदाचिद् एकां कन्यां दृष्ट्वा सा अपृच्छत्, ‘कथं मन्यते भवान्?’ सः अवदत्, ‘न। न अनुमन्ये किल।’ सा बहु चतुरा आसीत्। सा केवलं दर्पणं तस्य मुखस्य पुरतः धृतवती उक्तवती च, ‘अस्य मुखस्य पुरतः कथं भासते सा?’ स्वस्य मुखं दृष्ट्वा सः अभणत्, ‘ओह, बहु सम्यक् भासते।’ सारांशेन यावत् स्वदर्शनं न भवति तावत् अन्येषाम् अवगुणाः एव दृश्यन्ते। अन्येषाम् अवगुणान् वयं पश्यामः परं तेषां बीजम् अस्मासु एव वर्तते इति अस्माभिः सम्यग् ज्ञातव्यम्। अतः अन्येषाम् अवगुणदर्शनस्वभावः अस्माभिः परिहर्तव्यः। अन्येषाम् अवगुणदर्शनं सामान्यः व्यवहारः। न तु परमार्थः। वास्तवः परमार्थी सततम् आत्मानं परीक्षते। अन्येषाम् अवगुणान् सः न पश्यति। स्वावगुणान् एव सः एतावत् पश्यति यत् तुलनया अन्ये सर्वे तेन परमेश्वरस्वरूपमेव दृश्यन्ते। एषः एव परमार्थः।
==== '''***आत्मपरीक्षां कृत्वा स्वावगुणानाम् उन्मूलनं करणीयम् इति एकम् उत्तमं साधनम्। इदं प्राप्तुं नामस्मरणसदृशम् अन्यत् साधनं न वर्तते।*** ''' ====
== '''फेब्रुवरि 4 ''' ==
=== '''भगवन्नामजपेन एव वासनाक्षयः।''' ===
वयं सर्वे जीवाः वासनायां बद्धाः। यतो हि अस्माकं जीवनमेव वासनायां वर्तते। वासना इत्युक्ते ‘यद् वर्तते तद् भवेदेव परम् अधिकमपि लभ्येत’ इति मननम्। वयं साम्प्रतम् अस्यां स्थित्यां स्मः। अथ आरम्भे वयं वदामः यद् यद् वर्तते तद् भवेत् यत् अधिकं याचनीयं तद् भगवन्तं याचामहे। तेन यदि लभ्यते तर्हि भगवता दत्तम्। यदि न लभ्यते तर्हि सः न इच्छति इति विज्ञाय दाता परमात्मा इति भावना वर्धेत। विद्यमानं सर्वं तस्य इच्छायाः एव फलम् इति मत्वा अस्वस्थता आसक्तिः च क्षयेताम्। क्षीयमाणायाम् आसक्त्याम् इच्छा अनिच्छा अपि क्षयेतां, वासनापि क्षीणा भवेत् च। स्वकर्तृत्वमात्रेण वासनातीतत्वं न शक्यते, शरणागतिं विना न पर्यायः। एतदर्थं योग्यसङ्गत्या अपि लाभः वर्तते। कस्यचित् मुनेः सङ्गत्या वस्त्रासक्तिः न्यूना भवेत् परं धनिकस्य सङ्गत्या विलासिभावः वर्धेत। अतः सङ्गतिः एतादृशी भवेत् येन शरणागतभावः लभ्येत।
शरणागतिः इत्युक्ते सर्वं परमेश्वराय समर्प्य अवस्थातव्यम्। एतस्य अर्थः वर्तते यत् अस्माभिः उपाधिविरहितत्वेन भवितव्यम्। अतः वयं तादृशं साधनं चिनुमः, यत् अत्यन्तम् उपाधिरहितं वर्तते। इदं साधनं वर्तते भगवन्नाम। कालः, समयः, परिस्थितिः, उच्चनीचभावः, स्त्रीपुरुषत्वं, सुज्ञाज्ञता, श्रीमत्त्व-दारिद्र्यं, स्वास्थ्यास्वास्थ्यम् इत्यादयः के अपि विषयाः नामजपं परिहर्तुं न शक्नुवन्ति। तथैव तदर्थं न कानि अपि साधनानि अपेक्षितानि। नामस्मरणं हृदये सततम् अस्माभिः सह भवितुमर्हति। नामजपे वैराग्यकष्टानि न सन्ति, क्वापि कदापि च अस्माभिः सह नेतुं शक्नुमः। तदर्थं विषयाणां तदाकारवृत्तिः त्यक्तव्या। हनुमता दत्तां मुद्रिकां दृष्ट्वा सीता रामस्वरूपं स्मृतवती। तद्वन्नामजपे रामस्मरणम् अधिकारं स्थापयति। एते मरणात् न बिभ्यति। भगवते सर्वं दानेन वासना न शिष्यते। वासना नश्यति चेत् कालः न प्रविशति। वासनानाशः इत्युक्ते देहबुद्धिनाशः। वासनाक्षये ममत्वमरणम्। इदं मरणं नेत्राभ्यां द्रष्टुं भगवन्नामस्मरणे अवस्थातव्यम्।
*==== '''***वासनाक्षयः भगवन्नामजपे वर्तते इति अक्षरशः सत्यम्।***''' ====
== '''फेब्रुवरि 5''' ==
=== '''सिषाधयिषया नामस्मरणम्।''' ===
यदा वयं सुस्थित्यां भवामः तदास्माकं नामस्मरणं सम्यग् भवति। तस्यां कमपि दोषम् उद्भवति चेद् अस्माकं सर्वम् अवधानं तत्रैव भवति। यतो हि अस्माकं नामस्मरणम् उत्तानं वर्तते। श्रद्धया नामस्मरणं दुष्करम्। परमात्मानं विना न कोऽपि आत्मीयः इति दृढः निश्चयः श्रद्धा वा अपेक्ष्यते। तेन अस्वास्थ्ये सति अपि नामस्मरणं सम्यग् भवेत्। द्रौपदी ‘अधुना न कोऽपि त्राता’ इति मत्वा श्रीकृष्णम् आर्ततया आहूतवती तदा भगवान् सत्वरं धावितवान्। एतादृशं सत्यया सिषाधयिषया स्मरणम् अपेक्ष्यते। यथा शिशुः किमपि भवेत् चेद् मातरम् एव आह्वयति, अन्यं कमपि न जानाति, तद्वत् परमेश्वरविषये अस्माकं भावः भवेत्। अस्माकं वास्तवः आधारः कः इति व्यसने एव सम्यकग् ज्ञायते।
नामस्मरणसोपानानि एतादृशानि। प्रथमं सुस्थित्याम् उत्तानं स्मरणम्। द्वितीयं व्यसनसमये परमात्मानं विना न कोऽपि त्राता इति मत्वा कृतं स्मरणम्। अस्मिन् भाने दृढे सति यद् भवति तद् अखण्डं नामस्मरणम्। एतेषु उपरितनस्तरे यो वर्तते सः सङ्कटानि ‘मा सन्तु’, इति वदति। सत्पुरुषाः सङ्कटानि आगच्छेयुः इति प्रार्थयन्ते यतो हि तदा एव भगवत्स्मरणं सम्यग् भवति। वयं स्वयं स्मः इति यथा विश्वासः वर्तते तथा भगवतः अस्तित्वस्य विश्वासः भवेत्। परमात्मा सर्वत्र वर्तते इति कल्पना कदाचिद् मनसि उद्भवति, परं सा सततं न विद्यते, तेन आचरणे न दृश्यते। यदा तादृशी भावना सततं वर्तते तदा आचरणमपि तथा भवेत्। भगवान् एव कर्ता इति भावः यदि दृढः भवेत् तर्हि प्रत्येकं विषयं तस्मै न कथयामः। ‘भगवान् मम सर्वं जानाति’ इति यदि सत्यम् मन्यामहे तर्हि यथा तस्मै रोचते तथैव व्यवहरामः। प्रभाते शीघ्रम् उत्थाय भगवन्मूर्तिं ध्याने आनीय प्रार्थना करणीया। ‘ भवतः विस्मरणे मां जागरयतु। भवन्तं विना न मम आधारः।’ इति उक्त्वा तं मनःपूर्वकं नमस्कारः अर्पणीयः। मनुष्यः कथमपि भवेत् भगवत्स्मरणे सः समाधानं निश्चयेन लभेत। भगवतः जनः जीवने जामितः न भवति। विषयानन्दः मद्यसदृशः वर्तते। मदे समाप्ते सति मनुष्यः अधिकः दुःखी भवति। ‘अहं भगवतः’ इति भावनया यः अवतिष्ठति सः वास्तवम् आनन्दम् अनुभवति।
==== '''***भोगे दुःखे वा समयं न यापयित्वा भगवान् अवधातव्यः।**** ''' ====
फेब्रुवरि ६– नामस्मरणं शरणागतिः भगवत्प्राप्तिः च।
भगवत्प्राप्तर्थ्यं शरणागतिं विना न मार्गः। शरणागत्यर्थं नामस्मरणसमः न उत्तमोपायः। शरणागतिः इत्युक्ते ‘अहं कर्ता’ इति अभिमानं विनाश्य सर्वकर्तृत्वं परमेश्वरस्य एव इति दृढः भावः धरणीयः। नाम विना इतरेषु साधनेषु कृतिः विद्यते। इत्युक्ते ‘अहं कर्ता’ इति भावस्य कृते अवकाशः विद्यते। स्मरणं मनसः धर्मः। तस्मिन् कृतिः नास्ति। तेन तस्मिन् अहङ्कारस्य कृते अवसरः न वर्तते। तथैव स्मरणं विस्मरणं च अस्माकं हस्ते न विद्यते। अतः नामस्मरणं भवति चेदपि तत्र स्वकर्तृत्वं न। तेन ‘अहं कर्ता’ इति भावः भवितुम् न अर्हति। ‘अहं नामस्मरणं करोमि’ एषः शब्दप्रयोगः अपि न योग्यः। यतो हि नाम्नः स्मरणं भवति। तत् ‘करोमि’ इति मत्वा न शक्यते। अतः शरणागत्यर्थं नामस्मरणसमं नान्यत् साधनम्।
"https://sa.wikisource.org/wiki/फेब्रुवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्