"जानेवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ५:
यथा अस्माकम् अस्मिता स्वनाम्नि वर्तते तथा देवस्य देवत्वं तस्य नाम्नि वर्तते। अद्य यद् नाम वयं जपामः तदेव अन्तपर्यन्तं विद्यते, परं यथा देहबुद्धिः क्षीणा भवति तथा नाम अधिकाधिकम् अर्थपूर्णं भवति, अन्ते नाम परमात्मस्वरूपमेव इति अनुभवः लभ्यते। यथा जलं शरीरस्य जीवनं वर्तते तथा नाम मनसः जीवनं भवेत्। नाम एतादृशम् अन्तः गच्छेत् यत् प्राणैः सहैव तद् बहिरागच्छेत्। अन्तसमये अन्तिमक्षणे निर्गच्छत् वस्तु भगवन्नाम भवेत्। नामजपः एव अन्तिमः उच्छ्वासः भवेत्।
==== *** '''नामजपे आनन्दं विना नान्यत् किमपि वर्तते।'''*** ====
== '''जानेवारी 2'''==
=== '''नाम सद्गुरुतः स्वीकरणीयम्।''' ===
नाम सद्गुरुतः स्वीकरणीयं, स्वरुच्या स्वयमेव स्वीकरणीयं वा? वस्तुतः भगवन्नाम स्वतः सिद्धं परिपूर्णं च वर्तते। तद् अन्येभ्यः पूर्णतां नापेक्षते। अतः सद्गुरुतः स्वीकृतं नाम स्वरुच्या स्वीकृतं नाम च इति एतयोः मध्ये भेदं कर्तुं न शक्यते। तथापि सद्गुरुतः स्वीकृते नाम्नि वैशिष्ट्यं वर्तते। सद्गुरुः स्वेन दत्तस्य नाम्नः पृष्ठतः सत्तारूपेण वर्तते। नामस्मरणसमये सः अस्माकं साहाय्यं करोति। तेन अस्माभिः क्रियमाणं नामस्मरणं तस्य सत्तया एव विद्यते। तेन ‘अहं नामस्मरणं करोमि’ इति एतस्य अहंकारस्य उत्पादनस्य अवसरः एव न विद्यते। सद्गुरोः आज्ञां पालयते साधकाय नाम रोचते। आकण्ठं नामजपेन तस्य आत्मा तृप्यति। अतः सद्गुरुतः नामस्वीकरणम् आवश्यकम्। सद्गुरोः मेलनपर्यन्तं स्वयमेव नामस्मरणं करणीयम्। यतो हि तन्नामस्मरणं अस्माकं सद्गुरुणा मेलनं कारयेत्। आदौ सत्पुरुषमेलनं बहुदुष्करम्। मिलति चेदपि तस्मिन् विश्वासः अतिदुर्लभः। अतः नामसाधनं निरन्तरं प्रवर्तनीयम्। शर्कराखण्डान् स्थापयामः चेत् पिपीलकाः न आह्वातव्याः। ताः सहजम् अन्विष्य आगच्छन्ति। तद्वद् भवन्तः शर्कराखण्डाः भवन्तु, सत्पुरुषाः भवन्तं प्रति धाविष्यन्ति। शर्कराखण्डाः भवन्तु इत्युक्ते सत्पुरुषेभ्यः यथा रोचेत तथा वर्तन्ताम्। सत्पुरुषेभ्यः किं रोचते? भगवन्नामस्मरणम् अखण्डानुसन्धानं च। एते विहाय तेभ्यः किमपि न रोचते। अतः स्वहृदये नामज्योतिः सदैव प्रज्वालितं भवेत्। सद्गुरुः भवन्तम् अन्विष्यन् आगच्छति, भवति कृपां वर्षति च।
अधुना अनया पद्धत्या सद्गुरुणा नाम दत्तं चेत् कश्चन चिन्तयेद् यत् ‘अहं राम रामेति जपन् अस्मि एव। सद्गुरुणा तदेव उपदिष्टम्। अथ अत्र कः विशेषः?’ परन्तु अत्रैव विशेषः वर्तते। यतो हि अत्र ‘अहं कर्ता’ इति अभिमानः त्यक्तव्यः भवति। सद्गुरुतः नाम स्वीकृतं चेत् कर्तृत्वाभिमानस्य अवसरः न विद्यते। एकः लवणकणः पायसनाशार्थं पर्याप्तः। तथैव अभिमानः सर्वसाधननाशार्थं पर्याप्तः। अतः अभिमानत्यागः महत्त्वपूर्णः विषय़ः। भगवन्नाम औषधम् इति मन्तव्यम्। भगवत्प्राप्तिः फलम्। अपेक्षितं तावत् करणीयं, यथोक्तं तथा करणीयम्, अधिकं न करणीयम्, इति अनुपानम्। औषधं तावत् बिन्दुशः सततं स्वीकर्तव्यम्।
==== ***'''सामान्यशब्दानाम् अपि महान् आधारः भवति। अथातः भगवन्नाम्नः आधारः कियान् महान् भवेत्।'''*** ====
== '''जानेवारी 3'''==
=== '''नामजपः कदापर्यन्तं करणीयः?''' ===
नाम कदापर्यन्तं जपनीयम्? यावत् श्वासोच्छ्वासः प्रवर्तते स्वस्मृतिः वर्तते वा तावद् नामजपः करणीयः। यथा श्वासोच्छ्वासः मृत्युपर्यन्तं प्रवर्तते तथा नामजपः अपि। सुष्ठु वक्तव्यं चेद् यथा श्वासोच्छ्वासस्थगनम् इत्युक्ते मृत्युः, तथैव नामोच्चारणत्यागः मृत्युसमः एवेति मन्तव्यम्। अक्षरशः जीवोत्क्रमणपर्यन्तम् इत्युक्ते ‘अहंभाव’मरणपर्यन्तं नामजपः करणीयः। अन्ते ‘अहंता’ विलीयते, नाम अवशिष्यते च। नामजपः कदापि पूर्णः न भवति। मुक्त्यनन्तरं सर्वं पूर्णं भवति इति वदन्ति, परं मुक्त्याः अनन्तरं यत् कर्तव्यम् अवशिष्यते तन्नामस्मरणम् एव।
पङ्क्तिः १७:
==== ***'''सामान्यजनेन बहु विचिकित्साम् अकृत्वा यथोक्तं नामजपः करणीयः। तेन तस्य कल्याणं निश्चयेन भविष्यति।''' *** ====
 
== '''जानेवारी 4'''==
===''' नाम कथं जपनीयम्? '''===
‘नाम कथं स्मरणीयम्’ इति पृच्छा इत्युक्ते ‘लड्डुकं कथं खादामि’ इति पृच्छासमं वर्तते। लड्डुकं कथमपि खादामः चेद् मधुरमेव वर्तते। तथैव नाम कथमपि जपामः चेत् कार्यं करोत्येव। येन लड्डुकः खादितः सः तं कथं खादामि इति न पृच्छेत्। तथैव नामजप्ता कथं जपामि इति न पृच्छेत्। क्षेत्रे यदा बीजं वपन्ति तदा तद् उर्ध्वमुखम् वर्तते वा इति न पश्यन्ति। तत् कथमपि भवेत् अङुरः बीजात् क्वापि बहिः आगच्छेत् सः भूमितः एव बहिः आगच्छति। तद्वद् नाम कथमपि स्मरामः चेत् तत् स्मरणं स्मर्तुः सम्यक् विकासं कारयिष्यति, तं सुयोग्यमार्गम् आनेष्यति च।
"https://sa.wikisource.org/wiki/जानेवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्