"मत्स्यपुराणम्/अध्यायः २४७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
वराहावतारविषयेऽर्जुनप्रश्नः।
अर्जुन उवाच।
प्रादुर्भावान् पुराणेषु विष्णोरमिततेजसः।
सतां कथयतां विप्र वाराह इति नः श्रुतम् ।। २४७.१ ।।
 
न जाने तस्य चरितं न विधिं न च विस्तरम्।
न कर्मगुणसंस्थानं न चाप्यन्तं मनीषिणः ।। २४७.२ ।।
 
किमात्मको वराहोऽसौ किं मूर्त्तिः कस्य देवता।
किं प्रमाणः किं प्रभावः किं वा तेन पुरा कृतम् ।। २४७.३ ।।
 
एतन्मे शंस तत्वेन वाराहं श्रुतिविस्तरम्।
यथार्हञ्च समेतानां द्विजातीनां विशेषतः ।। २४७.४ ।।
 
शैनक उवाच।
एतत्ते कथयिष्यामि पुराणं ब्रह्मसम्मितम्।
महावराहचरितं कृष्णस्याद्भुतकर्मणः ।। २४७.५ ।।
 
यथा नारायणो राजन्! वाराहं वपुरास्थितः।
दंष्ट्रया गां समुद्रस्थामुज्जहारारिमर्दनः ।। २४७.६ ।।
 
छन्दोगीर्भिरुदाराभिः श्रुतिभिः समलङ्कृतः।
मनः प्रसन्नतां कृत्वा निबोध विजयाधुना ।। २४७.७ ।।
 
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम्।
नाना श्रुतिसमायुक्तं नास्तिकाय न कीर्त्तयेत् ।। २४७.८ ।।
 
पुराणं वेदमखिलं साङ्ख्यं योगञ्च वेद यः।
कार्त्स्न्येन विधिना प्रोक्तं सौख्यार्थं वै वदिष्यति ।। २४७.९ ।।
 
विश्वेदेवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ।
प्रजानां पतयश्चैव सप्त चैव महर्षयः।। २४७.१० ।।
 
मनः सङ्कल्पजाश्चैव पूर्वजा ऋषयस्तथा।
वसवो मरुतश्चैव गन्धर्व्वा यक्षराक्षसाः ।। २४७.११ ।।
 
दैत्याः पिशाचाः नागाश्च भूतानि विविधानि च।
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः म्लेच्छाश्च ये भुवि ।। २४७.१२ ।।
 
चतुष्पादानि सर्व्वाणि तिर्य्यग्योनिशतानि च।
जङ्गमानि च सत्वानि यच्चान्यज्जीवसंज्ञितम् ।। २४७.१३ ।।
 
पूर्णे युगसहस्रे तु ब्राह्मोऽहनि तथागते।
निर्व्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे ।। २४७.१४ ।।
 
हिरण्यरेतास्त्रिशिखस्ततो भूत्वा वृषाकपिः।
शिखाभिर्विधमंल्लोकानशोषयत वह्निना ।। २४७.१५ ।।
 
दह्यमानास्ततस्तस्य तेजोराशिभिरुद्गतैः।
विवर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिराननैः ।। २४७.१६ ।।
 
साङ्गोपनिषदो वेदा इतिहासपुरोगमाः।
सर्वविद्याः क्रियाश्चैव सर्वधर्मपरायणाः ।। २४७.१७ ।।
 
ब्रह्माणमग्रतः कृत्वा प्रभवं विश्वतोमुखम्।
सर्वदेवगणाश्चैव त्रयस्त्रिंशत्तु कोटयः ।। २४७.१८ ।।
 
तस्मिन्नहनि संप्राप्ते तं हंसं महदक्षरम्।
प्रविशन्ति महात्मानं हरिं नारायणं प्रभुम् ।। २४७.१९ ।।
 
तेषां भूयः प्रवृत्तानां निधनोत्पत्तिरुच्यते।
यथा सूर्यस्य सततमुदयास्तमने इह ।। २४७.२० ।।
 
पूर्णे युगसहस्रान्ते सर्वे निःशेष उच्यते।
यस्मिन् जीवकृतं सर्वे निःशेषं समतिष्ठत ।। २४७.२१ ।।
 
संहृत्य लोकानखिलान् सदेवासुरमानुषान्।
कृत्वा सुसंस्थां भगवानास्त एक जगद्गुरुः ।। २४७.२२ ।।
 
स स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः।
अव्ययः शाश्वतो देवो यस्य सर्वमिदं जगत् ।। २४७.२३ ।।
 
नष्टार्ककिरणो लोके चन्द्रग्रहविवर्जिते।
त्यक्तधूमाग्निपवने क्षीणयज्ञवषट्क्रिये ।। २४७.२४ ।।
 
अपक्षिगणसम्पाते सर्वप्राणिहरे पथि।
अमर्यादाकुले रौद्रे सर्वतस्तमसावृते ।। २४७.२५ ।।
 
अदृश्ये सर्वलोकेऽस्मिन्नभावे सर्वकर्मणाम्।
प्रशान्ते सर्वसम्पाते नष्टे वैरपरिग्रहे ।। २४७.२६ ।।
 
गते स्वभावसंस्थाने लोके नारायणात्मके।
परमेष्ठी हृषीकेशः शयनायोपचक्रमे ।। २४७.२७ ।।
 
पीतवासा लोहिताक्षः कृष्णो जीमूतन्निभः।
शिखा-सहस्र-विकच जटाभारं समुद्वहन् ।। २४७.२८ ।।
 
श्रीवत्सलक्षणधरं रक्तचन्दनभूषितम्।
वक्षो बिभ्रन्महाबाहुः स विष्णुरिव तोयदः ।। २४७.२९ ।।
 
पुण्डरीकसहस्रेण स्रगस्य शुशुभे शुभा।
पत्नी चास्य स्वयं लक्ष्मीर्देहमावृत्य तिष्ठति ।। २४७.३० ।।
 
ततः स्वपिति शान्तात्मा सर्वलोके शुभावहः।
किमप्यमितयोगात्मा निद्रा योगमुपागतः ।। २४७.३१ ।।
 
ततो युगसहस्रे तु पूर्णे स पुरुषोत्तमः।
स्वयमेव विभुर्भूत्वा बुध्यते विबुधाधिपः ।। २४७.३२ ।।
 
ततश्चिन्तयते भूयः सृष्टिं लोकस्य लोककृत्।
नरान् देवगणांश्चैव पारमेष्ठ्येन कर्मणा ।। २४७.३३ ।।
 
ततः सञ्चिन्तयन् कार्यं देवेषु समितिञ्जयः।
सम्भवं सर्वलोकस्य विदधाति सतां गतिः ।। २४७.३४ ।।
 
कर्ता चैव विकर्ता च संहर्ता वै प्रजापतिः।
नारायणं परं सत्यं नारायणः परं पदम् ।। २४७.३५ ।।
 
नारायणः परो यज्ञो नारायणः परा गतिः।
स स्वयम्भूरिति ज्ञेयः स स्रष्टा भुवनाधिपः ।। २४७.३६ ।।
 
स सर्वमिति विज्ञेयो ह्येष यज्ञः प्रजापतिः।
यद्वेदितव्यस्त्रिदशैस्तदेष परिकीर्त्यते ।। २४७.३७ ।।
 
यत्तु वेद्यं भगवतो देवा अपि न तद्विदुः।
प्रजानां पतयः सर्वे ऋषयश्च सहामरैः ।। २४७.३८ ।।
 
नास्यान्तमधिगच्छन्ति विचिन्वन्त इति श्रुतिः।
यदस्य परमं रूपं न तत्पश्यन्ति देवताः ।। २४७.३९ ।।
 
प्रादुर्भावे तु यद्रूपन्तदर्चन्ति दिवौकसः।
दर्शितं यदि तेनैव तदवेक्ष्यन्ति देवताः ।। २४७.४० ।।
 
यन्न दर्शितवानेष कस्तदन्वेष्टुमीहते।
ग्राम्याणां सर्वभूतानामग्निमारुतयोर्गतिः ।। २४७.४१ ।।
 
तेजसस्तपसश्चैव निधानममृतस्य च।
चतुराश्रमधर्मेशः चातुर्होत्र फलाशनः ।। २४७.४२ ।।
 
चतुःसागरपर्यन्तः चतुर्युग निवर्तकः।
तदेष संहृत्य जगत्कृत्वा गर्भस्थमात्मनः ।।
मुमोचाण्डं महायोगी धृतं वर्षसहस्रकम् ।। २४७.४३ ।।
 
सुरासुरद्विजभुजगाप्सरोगणैः द्रुमौषधिक्षितिधरयक्षगुह्यकैः ।
प्रजापतिः श्रुतिभिरसङ्कुलं तदा स वै सृजज्जगदिदमात्मना प्रभुः ।। २४७.४४ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२४७" इत्यस्माद् प्रतिप्राप्तम्