"मत्स्यपुराणम्/अध्यायः २४८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
वराहावतारचरित्रवर्णनम्।
शौनक उवाच।
जगदण्डमिदं पूर्वमासीद्दिव्यं हिरण्मयम्।
प्रजापतेरियं मूर्तिरितीयं वैदिकी श्रुतिः ।। २४८.१ ।।
 
तत्तु वर्षसहस्रान्ते बिभेदोर्घ्वमुखं विभुः।
लोकसर्जनहेतोस्तु बिभेदाधोमुखं नृप!।। २४८.२ ।।
 
भूयोऽष्टदा बिभेदाण्डं विष्णुर्वै लोकजन्मकृत्।
चकार जगतश्चात्र विभागं सविभागकृत् ।। २४८.३ ।।
 
यच्छिद्रमूर्ध्वमाकाशं विवराकृतितां गतम्।
विहितं विश्वयोगेन यदधस्तद्रसातलम् ।। २४८.४ ।।
 
यदण्डमकरोत्पूर्वं देवो लोकचिकीर्षया।
तत्र यत्सलिलं स्कन्नं सोऽभवत्काञ्चनो गिरिः ।। २४८.५ ।।
 
शैलैः सहस्रैर्महती मेदिनी विषमाभवत्।
तैश्च पर्वतजालौघैर्बहुयोजनविस्तृतैः ।। २४८.६ ।।
 
पीडिता गुरुभिर्देवी व्यथिता मेदिनी तदा।
महामते भूरि बलं दिव्यं नारायणात्मकम् ।। २४८.७ ।।
 
हिरण्मयं समुत्सृज्य तेजो वै जातरूपिणम्।
अशक्ता वै धारयितुमधस्तात् प्राविशत्तदा ।। २४८.८ ।।
 
पीड्यमाना भगवतस्तेजसा तस्य सा क्षितिः।
पृथ्वीं विशन्तीं दृष्ट्वा तु तामधोमधुसूदनः ।। २४८.९ ।।
 
उद्धारार्थं मनश्चक्रे तस्या वै हितकाम्यया ।। २४८.१० ।।
 
 
भगवानुवाच।
मत्तेज एषा वसुधा समासाद्य तपस्विनी।
रसातलं प्रविशति पङ्के गौरिव दुर्बला ।। २४८.११ ।।
 
पृथिव्युवाच।
त्रिविक्रमायामितविक्रमाय महावराहाय सुरोत्तमाय।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु ते देववर! प्रसीद ।। २४८.१२ ।।
तव देहाज्जगज्जातं पुष्करद्वीपमुत्थितम्।
ब्रह्माणमिह लोकानां भूतानां शाश्वतं विदुः ।। २२४८.१३ ।।
 
तव प्रसादाद्देवोऽयं दिवं भुङ्क्ते पुरन्दरः।
तव क्रोधाद्धि बलवान् जनार्दन जितो बलिः।। २४८.१४ ।।
 
धाता विधाता संहर्ता त्वयि सर्वं प्रतिष्ठितम्।
मनुः कृतान्तोऽधिपतिर्ज्वलनः पवनो घनः ।। २४८.१५ ।।
 
वर्णाश्चाश्रमधर्माश्च सागरास्तरवो जलम्।
नद्यो धर्मश्च कामश्च यज्ञा यज्ञस्य च क्रियाः ।। २४८.१६ ।।
 
विद्यावेद्यञ्च सत्वञ्च ह्रीः श्रीः कीर्तिर्धृतिः क्षमा।
पुराणं वेदवेदाङ्गं सांख्ययोगौ भवाभवौ ।। २४८.१७ ।।
 
जङ्गमं स्थावरञ्चैव भविष्यञ्च भवच्च यत्।
सर्वन्तच्च त्रिलोकेषु प्रभावोपहितन्तव ।। २४८.१८ ।।
 
त्रिदशोदारफलदः स्वर्गस्त्री चारुपल्लवः।
सर्वलोकमनः कान्तः सर्वसत्वमनोहरः ।। २४८.१९ ।।
 
वमानानेकविटपस्तोयदाम्बुमधुस्रवः।
दिव्यलोकमहास्कन्धसत्यलोकप्रशाखवान् ।। २४८.२० ।।
 
सागराकारनिर्यासो रसातलजलाश्रयः।
नागेन्द्रपादपोपेतो जन्तुपक्षिनिषेवितः ।। २४८.२१ ।।
 
शीलाचारार्यगन्धस्त्वं सर्वलोकमयोद्रुमः।
द्वादशार्कमयद्वीपो रुद्रैकादशपत्तनः ।। २४८.२२ ।।
 
वस्वष्टाचलसंयुक्त स्त्रैलोक्याम्भो महोदधिः।
सिद्धसाध्योर्मिसलिल सुपर्णानिलसेवित ।। २४८.२३ ।।
 
दैत्यलोकमहाग्राहो रक्षोरगरुषाकुलः।
पितामहमहाधैर्यः स्वर्गस्त्रीरत्नभूषितः ।। २४८.२४ ।।
 
धीश्रीह्रीकान्तिभिः नित्यं नदीभिरुपशोभितः।
कालयोग महापर्व प्रयागगति वेगवान् ।। २४८.२५ ।।
 
त्वं स्वयोगमहावीर्यो नारायणमहार्णवः।
कालो भूत्वा प्रसन्नाभिरद्भिर्ह्रादयसे पुनः ।। २४८.२६ ।।
 
त्वया सृष्टास्त्रयो लोकास्त्वयैव प्रतिसंहृताः।
विशन्ति योगिनः सर्वे त्वामेव प्रतियोजिताः ।। २४८.२७ ।।
 
युगे युगे युगान्ताग्निः कालमेघो युगे युगे।
महाभारावताराय देव! त्वं हि युगे युगे ।। २४८.२८ ।।
त्वं हि शुक्लः कृतयुगे त्रेतायां चम्पकप्रभः।
द्वापरे रक्तसङ्काशः कृष्णः कलियुगे भवान् ।। २४८.२९ ।।
 
वैवर्ण्यमभिधत्सेत्वं प्राप्तेषु युगसन्धिषु।
वैवर्ण्यं सर्वधर्माणामुत्पादयसि वेदवित् ।। २४८.३० ।।
 
भासि वासिप्रतपसि त्वञ्च पासि विचेष्टसे।
क्रुध्यसि क्षान्तिमायासि त्वं दीपयसि वर्षसि ।। २४८.३१ ।।
 
त्वं हास्यसि न निर्यासि निर्वापयसि जाग्रसि।
निःशेषयसि भूतानि कालो भूत्वा युगक्षये ।। २४८.३२ ।।
 
शेषमात्मानमालोक्य विशेषयसि त्वं पुनः।
युगान्ताग्नावलीढेषु सर्वभूतेषु किञ्चन ।। २४८.३३ ।।
 
यातेषु शेषो भवसि तस्माच्छेषोऽसि कीर्तितः।
च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्र वरुणादिषु ।। २४८.३४ ।।
 
यस्मान्न च्यवसे स्थानात्तस्मात्सङ्कीर्त्यसेऽच्युतः।
ब्रह्माणमिन्द्रञ्च यमं रुद्रं वरुणमेव च ।। २४८.३५ ।।
 
निगृह्य हरसे यस्मात् तस्माद्धरिरिहोच्यसे।
सम्मानयसि भूतानि वपुषा यशसा श्रिया ।। २४८.३६ ।।
 
परेण वपुषा देव! तस्माच्चासि सनातनः।
यस्माद् ब्रह्मादयो देवा मुनयश्चोग्रतेजसः ।। २४८.३७ ।।
 
न तेऽन्तं त्वधिगच्छन्ति तेनानन्तस्त्वमुच्यसे।
न क्षीयसे न क्षरसे कल्पकोटिशतैरपि ।। २४८.३८ ।।
 
तस्मात्त्वमक्षरत्वाच्च विष्णुरित्येव कीर्त्यसे।
विष्टब्धं यत्त्वया सर्वं जगत् स्थावरजङ्गमम् ।। २४८.३९ ।।
 
जगद्विष्टम्भनाच्चैव विष्णुरेवेति कीर्त्यसे।
विष्टभ्य तिष्ठसे नित्यं त्रैलोक्यं सचराचरम् ।। २४८.४० ।।
 
यक्षगन्धर्वनगरं सुमहद्भूतपन्नगम्।
व्याप्तं त्वयैव विशता त्रैलोक्यं सचराचरम् ।। २४८.४१ ।।
 
तस्माद्विष्णुरिति प्रोक्तः स्वयमेव स्वयम्भुवा।
नारा इत्युच्यते ह्यापो ऋषिभिस्तत्वदर्शिभिः ।। २४८.४२ ।।
अयनन्तस्यताः पूर्वन्तेन नारायणः स्मृतः।
युगे युगे प्रनष्टाङ्गां विष्णो! विन्दसि तत्वतः ।। २४८.४३ ।।
 
गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा।
हृषीकाणीन्द्रियाण्याहुस्तत्वज्ञान विशारदाः ।। २४८.४४ ।।
 
ईशिता च त्वमेतेषां हृषीकेशस्तथोच्यते।
वसन्ति त्वयि भूतानि ब्रह्मादीनि युगक्षये ।। २४८.४५ ।।
 
त्वं वा वससि भूतेषु वासुदेवस्तथोच्यसे।
सङ्कर्षयसि भूतानि कल्पे कल्पे पुनः पुनः ।। २४८.४६ ।।
ततः सङ्कर्षणः प्रोक्तस्तत्वज्ञान विशारदैः।
प्रतिव्यूहेन तिष्ठन्ति सदेवासुरराक्षसाः ।। २४८.४७ ।।
 
प्रविद्युः सर्वधर्माणां प्रद्युम्नस्तेन चोच्यसे।
निरोद्धा विद्यते यस्मान्न ते भूतेषु कश्चन ।। २४८.४८ ।।
 
अनिरुद्धस्ततः प्रोक्तः पूर्वमेव महर्षिभिः।
यत्त्वया धार्यते विश्वं त्वया संह्रियते जगत् ।। २४८.४९ ।।
 
त्वं धारयसि भूतानि भवनं त्वं बिभर्षि च।
यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च ।। २४८.५० ।।
 
मया हि धार्यते पश्चान्नाधृतं धारये त्वया।
न हि तद्विद्यते भूतं त्वया यन्नात्र धार्यते ।। २४८.५१ ।।
 
त्वमेव कुरुषे! देव! नारायण युगे युगे।
महाभारावतरणं जगतो हितकाम्यया ।। २४८.५२ ।।
 
तवैव तेजसाक्रान्तां रसातलतलङ्गतम्।
त्रायस्व मां सुरश्रेष्ठ! त्वामेव शरणंगताम् ।। २४८.५३ ।।
 
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः।
त्वामेव शरणं नित्यमुपयामि सनातनम् ।। २४८.५४ ।।
 
तावन्मेऽस्ति भयं देव! यावन्न त्वां ककुद्मिनम्।
शरणं यामि मनसा शतशोऽप्युपलक्षये ।। २४८.५५ ।।
 
उपमानं न ते शक्ताः कर्तु सेन्द्रा दिवौकसः।
तत्त्वं त्वमेव तद्वेत्सि निरुत्तरमतः परम् ।। २४८.५६ ।।
 
शौनक उवाच।
ततः प्रीतः स भगवान् पृथिव्यै शार्ङ्ग चक्रधृक्।
काममस्या यथाकाममभिपूरितवान् हरिः ।। २४८.५७ ।।
 
अब्रवीच्च महादेवि! माधवीयं स्तवोत्तमम्।
धारयिष्यति यो मर्त्यो नास्ति तस्य पराभवः।। २४८.५८ ।।
लोकान्निष्कल्मषां श्चैव वैष्णवान् प्रतिपत्स्यते।
एतदाश्चर्य सर्वस्वं माधवीयं स्तवोत्तमम् ।। २४८.५९ ।।
 
अधीतवेदः पुरुषो मुनिः प्रीतमना भवेत् ।। २४८.६० ।।
 
मा भैर्धरणि! कल्याणि! शान्तिं व्रज ममाग्रतः।
एष त्वामुचितं स्थानं प्रापयामि मनीषितम् ।। २४८.६१ ।।
 
ततो महात्मा मनसा दिव्यं रूपमचिन्तयत्।
किन्नु रूपमहं कृत्वा उद्धरेयं धरामिमाम् ।। २४८.६२ ।।
 
जलक्रीड़ारुचिस्तस्माद्वाराहं वपुरास्थितः।
अदृश्यं सर्वभूतानां वाङ्मयं ब्रह्म संस्थितम् ।। २४८.६३ ।।
 
शतयोजनविस्तीर्णमुच्छ्रितं द्विगुणं ततः।
नीलजीमूतसङ्काशं मेघस्तनितनिस्वनम् ।। २४८.६४ ।।
 
गिरिसंहननं भीमं श्वेततीक्ष्णाग्रदंष्ट्रिणम्।
विद्युदग्निप्रतीकाशमादित्य समतेजसम् ।। २४८.६५ ।।
 
पीनोन्नतकटीदेशे वृषलक्षणपूजितम्।
रूपमास्थाय विपुलं वाराहमजितो हरिः ।। २४८.६६ ।।
 
पृथिव्युद्धरणायैव प्रविवेश रसातलम्।
वेदपादो यूपदंष्ट्र क्रतुदन्तश्चितीमुखः ।। २४८.६७ ।।
 
अग्निजिह्वो दर्भलोमा ब्रह्मशीर्षो महातपाः।
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ।। २४८.६८ ।।
 
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्।
सत्यधर्ममयः श्रीमान् कर्मविक्रम सत्क्रमः ।। २४८.६९ ।।
 
प्रायश्चित्त नखो घोरः पशुजानुर्मखाकृतिः।
उद्गाथा होमलिङ्गोऽथ बीजौषधि महाफलः ।। २४८.७० ।।
वाय्वन्तरात्मा यज्ञास्थि विकृतिः सोमशोणितः।
वेदस्कन्धो हविर्गन्धो हव्यकव्यविभागवान् ।। २४८.७१ ।।
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः।
दक्षिणा हृदयो योगी महासत्रमयो महान् ।। २४८.७२ ।।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः।
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ।। २४८.७३ ।।
 
छाया पत्नी सहायो वै मणिश्रृङ्ग इवोच्छ्रितः।
रसातलतले मग्नां रसातलतलङ्गताम् ।। २४८.७४ ।।
 
प्रभुर्लोकहितार्थाय दष्ट्रांग्रेणोज्जहार ताम्।
ततः स्वस्थानमानीय वराहः पृथिवीधरः ।। २४८.७५ ।।
 
मुमोच पूर्वं मनसा धारिताञ्च वसुन्धराम्।
ततो जगाम निर्वाणं मेदिनी तस्य धारणात् ।। २४८.७६ ।।
 
चकार च नमस्कारं तस्मै देवाय शम्भवे।
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।। २४८.७७ ।।
 
उद्धृता पृथिवी देवी सागराम्बुगता पुरा।
अथोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया
पृथिवी प्रविभागाय मनश्चक्रेऽम्बुजेक्षणः ।। २४८.७८ ।।
 
रसाङ्गतामवनिमचिन्तविक्रमः सुरोत्तमः प्रवरवराहरूपधृक्।
वृषाकपिः प्रसभमथैकदंष्ट्रया समुद्धरद्धरणिमतुल्यपौरुषः ।। २४८.७९ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२४८" इत्यस्माद् प्रतिप्राप्तम्