"मत्स्यपुराणम्/अध्यायः २४९" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem>
क्षीरोदमथनप्रकरणवर्णनम्।
ऋषय ऊचुः।
नारायणस्य माहात्म्यं श्रुत्वा सूत! यथाक्रमम्।
न तृप्तिर्जायतेऽस्माकमतः पुनरिहोच्यताम् ।। २४९.१ ।।
 
कथं देवा गताः पूर्वममरत्वं विचक्षणाः।
तपसा कर्मणा वापि प्रसादात्कस्य तेजसा ।। २४९.२ ।।
 
सूत उवाच।
यत्र नारायणो देवो महादेवश्च शूलधृक्।
तत्रामरत्वे सर्वेषां सहायौ तत्र तौ स्मृतौ ।। २४९.३ ।।
 
पुरा देवासुरे युद्धे हताश्च शतशः सुरैः।
पुनः सञ्जीविनीं विद्यां प्रयोज्य भृगुनन्दनः ।। २४९.४ ।।
 
जीवापयति दैत्येन्द्रान् यथा सुप्तोत्थितानिव।
तस्य तुष्टेन देवेन शङ्करेण महात्मना ।। २४९.५ ।।
 
मृतसञ्जीविनी नाम विद्या दत्ता महाप्रभा।
तां तु माहेश्वरीं विद्यां महेश्वर मुखोद्गताम् ।। २४९.६ ।।
 
भार्गवे संस्थितां दृष्ट्वा मुमुहुः सर्वदानवाः।
ततोऽमरत्वं दैत्यानां कृतं शुक्रेण धीमता ।। २४९.७ ।।
 
या नास्ति सर्वलोकानां देवानां सर्वरक्षसाम्।
न नागानामृषीणाञ्च न च ब्रह्मेन्द्र विष्णुषु ।। २४९.८ ।।
 
तां लब्ध्वा शङ्कराच्छुक्रः परां निर्गतिमागतः।
ततो दैवासुरो घोरः समरः सुमहानभूत् ।। २४९.९ ।।
 
तत्र देवैर्हतान् दैत्यान् शुक्रो विद्याबलेन च।
उत्थापयति दैत्येन्द्रान् लीलयैव विचक्षणः ।। २४९.१० ।।
 
एवम्विधेन शक्रस्तु बृहस्पतिरुदारधीः।
हन्यमानास्ततो देवाः शतशोऽथ सहस्रशः ।। २४९.११ ।।
 
विषण्णवदनाः सर्वे बभूवुर्विकलेन्द्रियाः।
ततस्तेषु विषण्णेषु भगवान् कमलोद्भवः ।
मेरुपृष्ठे सुरेन्द्राणामिदमाह जगत्पतिः ।। २४९.१२ ।।
 
 
ब्रह्मोवाच।
देवाः! श्रुणुत मद्वाक्यं तत्तथैव निरूप्यताम्।
क्षिपतां दानवै- सार्द्धं सख्यमत्र प्रवर्तताम् ।। २४९.१३ ।।
 
क्रियताममृतोद्योगो मथ्यतां क्षीरवारिधिः।
सहायं वरुणं कृत्वा चक्रपाणिर्विबोध्यताम् ।। २४९.१४ ।।
 
मन्थानं मन्दरं कृत्वा शेषनेत्रेण वेष्टितम्।
दानवेन्द्रो बलि स्वामी स्तोककालं निवेश्यताम् ।। २४९.१५ ।।
 
प्रार्थ्यतां कूर्मरूपश्च पाताले विष्णुरव्ययः।
प्रार्थ्यतां मन्दरः शैलः मन्थकार्यं प्रवर्त्यताम् ।। २४९.१६ ।।
 
तच्छ्रुत्वा वचनं देवा जग्मुर्दानवमन्दिरम्।
अलं विरोधेन वयं भृत्यास्तव बले!ऽधुना ।। २४९.१७ ।।
 
क्रियताममृतोद्योगो व्रियतां शेषनेत्रकम्।
त्वया चोत्पादिते दैत्य! अमृतेऽमृतमन्थने ।। २४९.१८ ।।
 
भविष्यामोऽमराः सर्वे त्वत्प्रसादान्न संशयः।
एवमुक्तस्तदा देवैः परितुष्टः स दानवः ।। २४९.१९ ।।
 
यथा वदत हे देवाः! तथा कार्यं मयाऽधुना।
शक्तोऽहमेक एवात्र मथितुं क्षीरवारिधिम् ।। २४९.२० ।।
 
आहरिष्येऽमृतं दिव्यममृतत्वाय वोऽधुना।
सुदूरादाश्रयं प्राप्तान् प्रणतानपि वैरिणः ।। २४९.२१ ।।
 
यो न पूजयते भक्त्या प्रेत्य चेह विनश्यति।
पालयिष्यामि वः सर्वानधुना स्नेहमास्तितः ।। २४९.२२ ।।
 
एवमुक्त्वा स दैत्येन्द्रो देवैः सह ययौ तदा।
मन्दरं प्रार्थयामास सहायत्वे धराधरम् ।। २४९.२३ ।।
 
सखा भवत्वमस्माकमधुनाऽमृतमन्थने।
सुरासुराणां सर्वेषां महत्कार्यमिदं जगत् ।। २४९.२४ ।।
 
तथेति मन्दरः प्राह यद्याधारो भवेन् मम।
यत्र स्थित्वा भ्रमिष्यामि मथिष्ये वरुणालयम् ।। २४९.२५ ।।
 
कल्प्यतां नेत्रकार्ये यः शक्तः स्याद्वेष्टने मम।
ततस्तु निर्गतौ देवौ कूर्मशेषौ महाबलौ ।। २४९.२६ ।।
 
विष्णोर्भागौ चतुर्थांशाद्धरण्या धारणे स्थितौ।
ऊचतुर्गर्वसंयुक्तं वचनं शेषकच्छपौ।। २४९.२७ ।।
 
त्रैलोक्यधारणेनापि न ग्लानिर्मम जायते।
किमु मन्दरकात्क्षुद्रात् घुटिकासन्निभादिह ।। २४९.२८ ।।
 
 
शेष उवाच।
ब्रह्माण्डवेष्टनेनापि ब्रह्माण्डमथनेन वा।
न मे ग्लानिर्भवेद्देहे किमु मन्दरवर्तने ।। २४९.२९ ।।
 
तत उत्पाट्य तं शैलं तत्क्षणात् क्षीरसागरे।
चिक्षेप लीलया नागः कूर्मश्चाधः स्थितस्तदा ।। २४९.३० ।।
 
निराधारं यदा शैलं नशेकुर्देवदानवाः।
मन्दरभ्रमणं कर्तुं क्षीरोदमथने तथा ।। २४९.३१ ।।
 
नारायणनिवासन्ते जग्मुर्बलि समन्विताः।
यत्रास्ते देवदेवेशः स्वयमेव जनार्दनः ।। २४९.३२ ।।
 
तत्रापश्यन्त तन्देवं सितपद्मप्रभं शुभम् ।
योगनिद्रासु निरतं पीतवाससमच्युतम् ।। २४९.३३ ।।
 
हारकेयूरनद्धाङ्गमहिपर्यङ्क संस्थितम्।
पादपद्मेन पद्मायाः स्पृशन्तं नाभिमण्डलम् ।। २४९.३४ ।।
 
स्वपक्षव्यजनेनाथ वीज्यमानङ्गरुत्मता।
स्तूयमानं समन्ताच्च सिद्धचारणकिन्नरैः ।। २४९.३५ ।।
 
आम्नायैर्मूर्त्तिमद्भिश्च स्तूयमानं समन्ततः।
सव्यबाहूपधानं तन्तुष्टुवुर्देवदानवाः ।। २४९.३६ ।।
 
कृताञ्जलिपुटाः सर्वे प्रणताः सर्वतो दिशम्।
 
देवदानवा ऊचुः।
नमो लोकत्रयाध्यक्ष! तेजसामितभास्कर! ।। २४९.३७ ।।
 
नमो विष्णो! नमो जिष्णो! नमस्ते कैटभार्दन!।
नमः सर्गक्रियाकर्त्रे जगत्पालयते नमः ।। २४९.३८ ।।
 
रुद्ररूपाय शर्व्वाय नमः संहारकारिणे।
नमः शूलाबुधाधृष्य नमो दानवघातिने ।। २४९.३९ ।।
नमः क्रमत्रयाक्रान्त त्रैलोक्यायाभवाय च।
नमः प्रचण्डदैत्येन्द्र कुलकाल महानल! ।। २४९.४० ।।
नमो नाभहृदोद्भूत पद्मगर्भ महाचल!।
पद्मभूत! महाभूत! कर्त्रे हर्त्रे जगत्प्रिय! ।। २४९.४१ ।।
 
जनिता सर्वलोकेश! क्रिया कारणकारिणे।
अमरारि विनाशाय महासमरशालिने ।। २४९.४२ ।।
 
लक्ष्मीमुखाब्ज मधुप! नमः कीर्तिनिवासिने।
अस्माकममरत्वाय ध्रियतां ध्रियतामयम् ।। २४९.४३ ।।
 
मन्दरः सर्वशैलानामयुतायुत विस्तृतः।
अनन्तबलबाहुभ्यामवष्टभ्यैकपाणिना ।। २४९.४४ ।।
मथ्यताममृतं देव! स्वधा स्वाहार्थकामिनाम्।
ततः श्रुत्वा स भगवान् स्तोत्रपूर्व्वं वचस्तदा।
विहाय योगनिद्रान्तामुवाच मधुसूदनः ।। २४९.४५ ।।
 
श्रीभगवानुवाच।
स्वागतं विबुधाः! सर्वे किमागमनकारणम्।
यस्मात्कार्य्यादिह प्राप्तस्तद् ब्रूत विगतज्वराः ।। २४९.४६ ।।
 
नारायणेनैव मुक्ताः प्रोचुस्तत्र दिवौकसः।
अमरत्वाय देवेश! मथ्यमाने महोदधौ ।। २४९.४७ ।।
 
यथाऽमृतत्वं देवेश! तथा नः कुरु माधव!।
त्वया विना न तच्छक्यमस्माभिः कैटभार्दन! ।। २४९.४८ ।।
 
प्राप्तुं तदमृतं नाथ! ततोऽग्रे भव नो विभो!।
इत्युक्तश्च ततो विष्णुरप्रधृष्योऽरिमर्दनः ।। २४९.४९ ।।
 
जगाम देवैः सहितो यत्रासौ मन्दराचलः।
वेष्टितो भोगिभोगेन धृतश्चामरदानवैः ।। २४९.५० ।।
 
विषभीतास्ततो देवा यतः पुच्छं ततः स्थिताः।
मुखतो दैत्यसङ्घास्तु सैंहिकेयपुरः सराः ।। २४९.५१ ।।
 
सहस्रवदनं चास्य शिरः सव्येन पाणिना।
दक्षिणेन बलिर्देहं नागस्याकृष्टवांस्तथा ।। २४९.५२ ।।
 
दधारामृतमन्थानं मन्दरं चारुकन्दरम्।
नारायणः स भगवान् भुजयुग्मद्वयेन तु ।। २४९.५३ ।।
 
ततो देवासुरैः सर्वैर्जयशब्दपुरः सरम्।
दिव्यं वर्षशतं साग्रं मथितः क्षीरसागरः ।। २४९.५४ ।।
 
ततः श्रान्तास्तु ते सर्वे देवाः दैत्यपुरः सरः।
श्रान्तेषु तेषु देवेन्द्रो मेघो भूत्वाम्बुशीकरान् ।। २४९.५५ ।।
 
ववर्षामृतकल्पांस्तान् ववौ वायुश्च शीतलः।
भग्नप्रायेषु देवेषु शान्तेषु कमलासनः ।। २४९.५६ ।।
 
मथ्यतां मथ्यतां सिन्धुरित्युवाच पुनः पुनः।
अवश्यमुद्योगवतां श्रीरपारा भवेत्सदा ।। २४९.५७ ।।
 
ब्रह्मप्रोत्साहिताः देवा ममन्थुः पुनरम्बुधिम्।
भ्राम्यमाणे ततः शैले योजनायुतशेखरे ।। २४९.५८ ।।
 
निपेतुर्हस्तियूथानि वराहशरभादयः।
श्वापदायुतलक्षाणि तथा पुष्पफलाद्रुमाः ।। २४९.५९ ।।
 
ततः फलानां वीर्य्येण पुष्पौषधिरसेन च।
क्षीरसङ्घर्षणाच्चापि दधिरूपमजायत ।। २४९.६० ।।
 
ततस्तु सर्वजीवेषु चूर्णितेषु सहस्रशः।
तदम्बुमेदसोत्सर्गाद् वारुणी समपद्यत ।। २४९.६१ ।।
 
वारुणीगन्धमाघ्राय मुमुदुर्देवदानवाः।
तदा स्वादेन बलिनो देवदैत्यादयोऽभवन् ।। २४९.६२ ।।
 
ततोऽतिवेगाज्जगृहुर्नागेन्द्रं सर्वतोऽसुराः।
मन्थानं मन्थयष्टिस्तु मेरुस्तत्राचलोऽभवत् ।। २४९.६३ ।।
 
अभवच्चाग्रतो विष्णुर्भुजमन्दरबन्धनः।
स वासुकिफणालग्न पाणिः कृष्णो व्यराजत ।। २४९.६४ ।।
 
यथा नीलोत्पलैर्युक्तो ब्रह्मदण्डोऽतिविस्तरः।
ध्वनिर्मेघसहस्रस्य जलधेरुत्थितस्तदा ।। २४९.६५ ।।
 
भागे द्वितीये मघवानादित्यस्तु ततःपरम्।
ततो रुद्रा महोत्साहा वसवो गुह्यकादयः ।। २४९.६६ ।।
 
पुरतो विप्रचित्तिश्च नमुचिर्वृत्रशम्बरौ।
द्विमूर्द्धा वज्रदंष्ट्रश्च सौंहिकेयो बलिस्तथा ।। २४९.६७ ।।
 
एते चान्ये च बहवो मुखभागमुपस्थिताः।
ममन्थुरम्बुधिं दृप्ता बलतेजो विभूषिताः ।। २४९.६८ ।।
 
बभूवात्र महाघोषो महामेघरवोपमः।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ।। २४९.६९ ।।
 
तत्र नानाजलचरा वनिर्धूता महाद्रिणा।
विलयं समुपाजग्मुः शतशोऽथ सहस्रशः ।। २४९.७० ।।
 
वारुणानि च भूतानि विविधानि महेश्वरः।
पातालतलवासीनि विलयं समुपानयत् ।। २४९.७१ ।।
 
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्टाश्च परस्परम्।
न्यपतन् पतगोपेताः पर्वताग्रान्महाद्रुमाः ।। २४९.७२ ।।
 
तेषां सङ्घर्षणाच्चाग्निरर्चिभिः प्रज्वलन् मुहुः।
विद्युद्भिरिव नीलाभ्रमावृणोत् मन्दरं गिरिम् ।। २४९.७३ ।।
 
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्।
विगतासूनि सर्वाणि सत्वानि विविधानि च ।। २४९.७४ ।।
 
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ।। २४९.७५ ।।
 
ततो नाना रसास्तत्र सुस्रुवुः सागराम्भसि।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ।। २४९.७६ ।।
 
तेषाममृतवीर्य्याणां रसानां पयसैव च।
अमरत्वं सुरा जग्मुः काञ्चनच्छविसन्निभाः ।। २४९.७७ ।।
 
अथ तस्य समुद्रस्य तज्जातमुदकं पयः।
रसान्तरैर्विमिश्रञ्च ततः क्षीरादभूद् घृतम् ।। २४९.७८ ।।
 
तता ब्रह्माणमासीनं देवा वचनमब्रुवन्।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतञ्च यत् ।। २४९.७९ ।।
 
ऋते नारायणात् सर्वे दैत्या देवोत्तमास्तथा।
चिरायितमिदञ्चापि सागरस्य तु मन्थनम् ।। २४९.८० ।।
 
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्।
विधत्स्वैषां बलं विष्णो! भवानेव परायणम् ।। २४९.८१ ।।
 
विष्णुरुवाच।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।
क्षुभ्यतां क्रमशः सर्वैर्मन्दरः परिवर्त्यताम् ।। २४९.८२ ।।
 
 
</poem>
बेनामी उपयोगकर्ता
"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/22870" इत्यस्माद् प्रतिप्राप्तम्