"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/अङ्गिरसां संक्रोशः" इत्यस्य संस्करणे भेदः

File:अङ्गिरसांसंक्रोशः Angirasaam-Samkroshah.ogg|thumb|अङ्गिरसांसं... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:०१, ३१ मार्च् २०२० इत्यस्य संस्करणं

अङ्गिरसांसंक्रोशः
अंगिरसां संक्रोशः.

१०
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां |
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः || ८५९ ||
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः |
सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते || ८६० ||
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति |
इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिं || ८६१ ||


१७ अङ्गिरसां संक्रोशः ।। अङ्गिरसः । त्रिष्टुप् । पवमानः सोमः ।
होइ । हो । हाऽ३होइ । तिस्रोवाचाः । ईऽ३रय । तिप्रवह्नीः ।। ऋतस्यधाइ । तीऽ३म्ब्रह्म । णोमनीषाम् ।। गावोयन्ताइ । गोऽ३पतिम् । पृच्छमानाः ।। सोमंयन्ताइ । मतयः । वाऽ३४३ । वाऽ३शाऽ५”ना६५६ः ।। श्रीः ।। सोमङ्गावो । धेऽ३नवः । वावशानाः ।। सोमंविप्राः । मतिभिः । पृच्छमानाः ।। सोमस्सुताः । ऋच्यते । पूयमानाः ।। सोमो अर्काः । त्रिष्टुभः । साऽ३४३म् । नाऽ३वाऽ५”न्ताऽ६५६इ ।। श्रीः ।। एवानस्सो । माऽ३परि । षिच्यमानाः ।। आपवस्वा । पूऽ३यमा । नस्सुवस्ती ।। इन्द्रमावाइ । शाऽ३बृह । तामदेना ।। होइ । हो । हाऽ३होई। । वर्धयावा । चाऽ३ञ्जन । याऽ३४३ । पूऽ३राऽ५”न्धाऽ६५६इम् ।। दी. १८ उत् १६ मा. ३०. टौम ।।५७।।