"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/त्र्यन्तं त्वाष्ट्रीसाम" इत्यस्य संस्करणे भेदः

File:त्र्यन्तं त्वाष्ट्रीसाम Tryantam-Twashtrisama.ogg|thumb|त्र्यन... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

११:२०, ३१ मार्च् २०२० इत्यस्य संस्करणं

त्र्यन्तं त्वाष्ट्रीसाम
त्र्यन्तं त्वाष्ट्रीसाम

१५
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः |
पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः || ८७२ ||
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् |
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः || ८७३ ||
सहस्रधारः पवते समुद्रो वाचमीङ्खयः |
सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे || ८७४ ||


४. त्र्यन्तं त्वाष्ट्रीसाम । त्वाष्ट्र्यः। अनुष्टुप्। पवमानः सोमः।
सुतासोमा ।। धुमाऽ३त्तमाः । सोमाइन्द्राऽ३यमाऽ३ । एऽ३ । दिनआ ।। पवाइत्रवाऽ३”न्तोऽ३ । एऽ३ । क्षरन्ना ।। दाइवान्गच्छाऽ३”न्तुवाऽ३ः ।। एऽ३। मदाआ ।।श्रीः ।। इन्दुरिन्द्रा ।। यपाऽ३वताइ । इताइदेवाऽ३सोऽ३ । एऽ३ । ब्रुवन्ना ।। वाचस्पताऽ३इ”र्मखाऽ३ । एऽ३ । स्यतआ ।। विश्वास्येशाऽ३”नओऽ३ ।। एऽ३ । जसआ ।।श्रीः।। सहस्रधा ।। रᳲपाऽ३वताइ । समूद्रोवाऽ३चमाऽ३इ । एऽ३ । खयआ ।। सोमास्पताऽ३इ”रयाऽ३इ । एऽ३ । णाऽ३मा ।। सखेन्द्रस्याऽ३”दिवाऽ३इ ।। एऽ३। दिवआ ।।

दी.९.उत्. न. मा२०. लौ.।।६४।।