"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/तैरश्च्यम्" इत्यस्य संस्करणे भेदः

thumb|तैरश्च्यम् File:तैरश्च्य... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१३:०५, ३१ मार्च् २०२० इत्यस्य संस्करणं

तैरश्च्यम्
तैरश्च्यम्

श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति |
सुवीर्यस्य गोमतो रायस्पूर्धि महां असि || ८८३ ||
यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् |
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीं || ८८४ ||
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः |
पुरूण्यस्य न्ॐस्या सिषासन्तो वनामहे || ८८५ ||


७. तैरश्च्यम् ।। तिरश्चि । अनुष्टुप् । इन्द्रः ।
 श्रुधीहाऽ३वन्तिरश्चियाः । इन्द्रायस्त्वा । सपर्यताऽ२३४इ । सुवी । रिया । स्याऽ२३४गो । माता ऽ२ ।। रायास्पूर्धीऽ३ । हाऽ३हाइ ।। महꣳऽ५असी ।। श्रीः ।। यस्तआऽ३इन्द्रनवीयसाइम् ।। गिरामन्द्राम् ।अजी जनाऽ२३४त् । चिकि ।त्विन्मा । नाऽ२३४साम् । धायाऽ२म् ।। प्रत्नामार्त्ताऽ३ । हाऽ३हा ।। स्यपाऽ५इप्युषीम् ।। श्रीः ।। तमुष्टाऽ३वामयंगिराः ।। इन्द्रामुक्था । निवावृधूऽ२३४ः । पुरू । णिया। । स्याऽ२३४पौ । सायाऽ२ ।। सिषासान्ताऽ३ः । हाऽ३हाइ ।। वनाऽ५महाइ । होऽ५इ ।।डा।।
दी. ७. उत्. ३ मा. २१. ज. ।।६७।।