"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (१७ अवतरण: rigveda and other pages)
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
 
<poem>
<div class="verse">
<pre>
वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥
 
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥
 
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥
 
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥४॥
 
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥५॥
 
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वित्था धिया नरा ॥६॥
 
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥७॥
 
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८॥
 
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥९॥
 
</prepoem>
</div>
४९

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/23082" इत्यस्माद् पुनः प्राप्तिः