"ब्रह्मपुराणम्/अध्यायः ५६" इत्यस्य संस्करणे भेदः
Content deleted Content added
ब्रह्मपुराणम् using AWB |
No edit summary |
||
पङ्क्तिः ९:
}}
{{ब्रह्मपुराणम्}}
'''विस्तेरेण विष्णुमार्कण्डेयसंवादकथनम्
<poem><span style="font-size: 14pt; line-height: 200%">'''ब्रह्मोवाच
इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः।
प्रीतः प्रोवाच भगवान्मेघगम्भीरया गिरा॥ ५६.१ ॥
'''श्रीभगवानुवाच
ब्रृहि कामं मुनिश्रेष्ठ यत्ते मनसि वर्तते।
ददामि सर्वं विप्रर्षे मत्तो यदभिवाञ्छसि॥ ५६.२ ॥
श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः।
उवाच परमप्रोतो मुनिस्तद्गतमानसः॥ ५६.३ ॥
'''मार्कण्डेय उवाच
ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम्।
त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते॥ ५६.४ ॥
द्रुतमन्तः शरीरेण सततं पर्य (रि) वर्तितम्।
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम्॥ ५६.५ ॥
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि॥ ५६.६ ॥
किमर्थं च जगत्सर्वं शरीरस्थं तवाऽनघ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम॥ ५६.७ ॥
ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः।
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम्॥
महदेतदचिन्त्यं च यदहं दृष्टवान्प्रभो॥ ५६.८ ॥
'''ब्रह्मोवाच
इत्युक्तः स तदा तेन देवदेवो महाद्युतिः।
सान्त्वयन्स तदा वाक्यमुवाच वदतां वरः॥ ५६.९ ॥
'''श्रीभगवानुवाच
कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः।
तव प्रीत्य प्रवक्ष्यामि यथेदं विसृजाम्यहम्॥ ५६.१० ॥
पितृभक्तोऽसि र्विप्रर्षे मामेव शरणं गतः।
ततोदृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं चते महत्॥ ५६.११ ॥
आपो नारा इति पुरा संज्ञाकर्म कृतं मया।
तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा॥ ५६.१२ ॥
अहं नारायणे नाम प्रभवः शाश्वतोऽव्ययः।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम॥ ५६.१३ ॥
अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा॥ ५६.१४ ॥
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम॥ ५६.१५ ॥
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ मे स्थितः।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः॥ ५६.१६ ॥
सदिशं च नभः कायो वायुर्मनसि मे स्थितः।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः॥ ५६.१७ ॥
यजन्ते वेदविदुषो मां देवयजने स्थितम्।
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाड्क्षिणः॥ ५६.१८ ॥
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः।
चुतःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्॥ ५६.१९ ॥
शेषो भूत्वाऽहमेको हि धारयामि वसुंधराम्।
वाराहं रूपमास्थाय ममेयं जगती पुरा॥ ५६.२० ॥
मज्जमाना जले विप्रवीर्येणास्मि समुद्धृता।
अग्निश्च वाडवो विप्र भूत्वाऽहं द्विजसत्तम॥ ५६.२१ ॥
विबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम्।
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः॥ ५६.२२ ॥
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च।
ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः॥ ५६.२३ ॥
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः॥ ५६.२४ ॥
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः।
सत्त्वस्था निरहंकारा नित्यमध्यात्कोविदाः॥ ५६.२५ ॥
मामेव सततं विप्राश्चिन्तयन्त उपासते।
अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः॥ ५६.२६ ॥
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः।
तारारूपाणि दृस्यन्ते यान्येतानि नभस्तले॥ ५६.२७ ॥
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम।
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः॥ ५६.२८ ॥
वसनं शयनं चैव निलयं चैव विद्धि मे।
कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च॥ ५६.२९ ॥
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम।
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम्॥ ५६.३० ॥
सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु।
मद्विधानेन विहिता मम देहविचारिणः॥ ५६.३१ ॥
मयाऽभिभूतविज्ञानाश्चेष्टयनति न कामतः।
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः॥ ५६.३२ ॥
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः।
प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः॥ ५६.३३ ॥
लोभाभिभूतैः कृपणैरनार्यरकृतात्मभिः।
तन्मां महाफलं विद्धि नराणां भावितात्मनाम्॥ ५६.३४ ॥
सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम्।
यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम॥ ५६.३५ ॥
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः॥ ५६.३६ ॥
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः।
तदाऽहं संप्रासूयामि गृहेषु पुण्यकर्मणाम्॥ ५६.३७ ॥
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्।
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्॥ ५६.३८ ॥
स्थावरामि च भूतानि संहराम्यात्ममायया।
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्॥ ५६.३९ ॥
आविश्य मानुषं देहं मर्यादाबन्धकारणात्।
श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम॥ ५६.४० ॥
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा।
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्ति च॥ ५६.४१ ॥
अन्तकाले च संप्राप्ते काले भूत्वाऽतिदारुणः।
त्रैलोक्यं नाशयाम्येकः सर्वं स्थापरजङ्गमम्॥ ५६.४२ ॥
अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः।
अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः॥ ५६.४३ ॥
कालचक्रं नयान्येको ब्रह्मरूपं ममैव तत्।
शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्॥ ५६.४४ ॥
एवं प्रणिहितः सम्यङ्ममाऽऽत्मा मुनिसत्तम।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन॥ ५६.४५ ॥
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः।
यच्च किंचित्त्वया प्राप्तं मयि स्थावरजङ्गमम्॥ ५६.४६ ॥
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ।
यच्च किंवित्त्वया लोके दृष्टं स्थावरजङ्गमम्॥ ५६.४७ ॥
विहितः सर्व एवासौ मयाऽऽत्मा भूतभावनः।
अहं नाराणो नाम शङ्खचक्रगदाधरः॥ ५६.४८ ॥
यावद्युगानां विप्रर्षे सहस्रं परिवर्तते।
तावत्स्वपिति विश्वात्मा सर्वविश्वानि मोहयन्॥ ५६.४९ ॥
एवं सर्वमहं कालमिहाऽऽसे मुनिसत्तम।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते॥ ५६.५० ॥
मया च दत्कत्तो विप्रन्द्र वरस्ते ब्रह्मरूपिणा।
असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ ५६.५१ ॥
सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे।
निर्गतोऽसि मायऽऽज्ञातस्ततस्ते दर्शितं जगत्॥ ५६.५२ ॥
अभ्यनतरं शरीरस्य प्रविष्टोऽसि यदा मम।
दृष्ट्वा लोकं समस्तं हि विस्मिनो नावबुध्यसे॥ ५६.५३ ॥
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया।
आख्यातस्ते मयाचाऽऽत्मा दुर्ज्ञेयो हि सुरासुरैः॥ ५६.५४ ॥
यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः।
तावत्त्वमिह स्रक्षयामि शरीराणि द्विजोत्तम॥ ५६.५५ ॥
ततो विबुद्धे तस्मिस्तु सर्वलोकपितामहे।
एको भूतानि स्रक्षयामि शरीराणि द्विजोत्तम॥ ५६.५६ ॥
आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च।
लोके यच्च भवेत्किंचिदिह स्थावरजङ्गमम्॥ ५६.५७ ॥
'''ब्रह्मोवाच
एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः।
पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः॥ ५६.५८ ॥
'''श्रीभगवानुवाच
मुने ब्रूहि यदर्थं मां स्तुतवान्परमार्थतः।
वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम्॥ ५६.५९ ॥
आयुष्मानसि देवानां मद्भक्तोऽसि दृढव्रतः।
तेन त्वमसि विप्रेन्द्र पुनर्दोर्घायुराप्नुहि॥ ५६.६० ॥
'''ब्रह्मोवाच
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः।
मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत्॥ ५६.६१ ॥
'''मार्कण्डेय उवाच
दृष्टं परं हि देवश तव रूपं द्विजोत्तम।
मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे॥ ५६.६२ ॥
एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः।
लोकानां च हितार्थाय नानाभावप्रशान्तये॥ ५६.६३ ॥
शैवभागवतानां च वादार्थप्रतिषेधकम्।
अस्मिन्क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे॥ ५६.६४ ॥
शिवस्याऽऽयतनं देव करोमि परमं महत्।
प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम्॥ ५६.६५ ॥
ततो ज्ञास्यन्ति लोकेऽस्मिन्नेकमूर्तो हरीश्वरौ।
प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम्॥ ५६.६६ ॥
'''श्रीभगवानुवाच
यदेतत्परमं देवं कारणं भुवनेश्वरम्।
लिङ्गमाराधनार्थाय नानाभावप्रशान्तये॥ ५६.६७ ॥
ममाऽऽदिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम्।
तत्प्रभावाच्छिवलोके तिष्ठ च तथाऽक्षयम्॥ ५६.६८ ॥
शिवे संस्थापिते विप्र मम संस्थापनं भवेत्।
नाऽऽवयोरन्तरं किंचिदेकभावौ द्विधा कृतौ॥ ५६.६९ ॥
यो रुद्रः स्वयं विष्णुर्यो विष्णुः स सहेश्वरः।
उभयोरन्तरं नास्ति पवनाकासयोरिव॥ ५६.७० ॥
मोहितो नाभिजानाति य एव गरुडध्वजः।
वृषध्वजः स एवेति त्रिपुरध्नं त्रिलोचनम्॥ ५६.७१ ॥
तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम्।
उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्॥ ५६.७२ ॥
मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः।
भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः॥ ५६.७३ ॥
'''ब्रह्मोवाच
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत।
मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः॥ ५६.७४ ॥
इति श्रीमहापुराणे आदिब्रामह्मे स्वयंभ्वृषिसंवादे मार्कण्डेयस्य श्रीभगवद्दर्शनं नाम षट्पञ्चाशत्तमोऽध्यायः॥ ५६ ॥
</span></poem>
[[वर्गः:ब्रह्मपुराणम्]]
|