"नारदपुराणम्- पूर्वार्धः/अध्यायः १२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%"> सनातन उवाच ॥
अथ नारद वक्ष्यामि श्रृणु पूर्णाव्रतानि ते ॥
यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम् ॥ १२४-१ ॥
चैत्रपूर्णा तु विप्रेंद्र मन्वादिः समुदाहृता ॥
अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये ॥ १२४-२ ॥
वैशाख्यामपि पूर्णायां दानं सर्वस्य सर्वदम् ॥
यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम् ॥ १२४-३ ॥
धर्मराजव्रतं चात्र कथितं तन्निशामय ॥
श्रृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे ॥ १२४-४ ॥
दद्याद्गोदानफलदं धर्मराजस्य तुष्टये ॥
अत्र कृष्णाजिनं दद्यात्सखुरं च सश्रृङ्गकम् ॥ १२४-५ ॥
तिलैः सहसमाच्छाद्य वस्त्रैर्हेम्ना द्विजातये ॥
यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम् ॥ १२४-६ ॥
सर्वशास्त्रविदे सप्तद्वीपभूमिप्रदः स वै ॥
मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम् ॥ १२४-७ ॥
कुंभान्स्वच्छजलैः पूर्णान्हिरण्येन समन्वितान् ॥
यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित् ॥ १२४-८ ॥
अथ ज्येष्टस्य पूर्णायां वटसावित्रिकं व्रतम् ॥
सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः ॥ १२४-९ ॥
सृत्रेण वेष्टयेच्चैव सशताष्टप्रदक्षिणम् ॥
ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम् ॥ १२४-१० ॥
जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते ॥
पत्या सहावियोगं मे वटस्थे कुरु ते नमः ॥ १२४-११ ॥
इति सप्रार्थ्य या नारी भोजयित्वा परेऽहनि ॥
सुवासिनीः स्वयं भुंज्यात्सा स्यात्सौभाग्यभागिनी ॥ १२४-१२ ॥
आषाढस्य तु पूर्णायां गोपद्मव्रतमुच्यते ॥
चतुर्भुजं महाकायं जांबूनदसमप्रभम् ॥ १२४-१३ ॥
शंखचक्रगदापद्मरमागरुडशोभितम् ॥
सेवितं मुनिभिर्देवैर्यक्षगंधर्वकिन्नरैः ॥ १२४-१४ ॥
एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेत् ॥
पौरुषेणैव सूक्तेन गंधाद्यैरुपचारकैः ॥ १२४-१५ ॥
आचार्यं वस्त्रभूषाद्यैस्तोषयेत्स्निग्धमानसः ॥
भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः ॥ १२४-१६ ॥
एवं कृत्वा व्रतं विप्र प्रसादात्कमलापतेः ॥
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः ॥ १२४-१७ ॥
कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ॥
पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले ॥ १२४-१८ ॥
पूर्णांतं श्रावणे मासि गौरीरूपां च कोकिलाम् ॥
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपंकजाम् ॥ १२४-१९ ॥
कस्तूरीवर्णसंयुक्तामुत्पन्नां नंदने वने ॥
चूतचंपकवृक्षस्थां कलगीतनिनादिनीम् ॥ १२४-२० ॥
चिंतयेत्पार्वतीं देवीं कोकिलारूपधारिणीम् ॥
गंधाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे ॥ १२४-२१ ॥
ततो व्रतांते हैमीं वा तिलपिष्टमयीं द्विज ॥
दद्याद्विप्राय मंत्रेण भक्त्या सस्वर्णदक्षिणाम् ॥ १२४-२२ ॥
देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे ॥
संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव ॥ १२४-२३ ॥
द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः ॥
वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ॥ १२४-२४ ॥
एवं या कुरुते नारी कोकिलाव्रतमुत्तम् ॥
सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद ॥ १२४-२५ ॥
अथ श्रावणपूर्णायां वेदोपाकरणं स्मृतम् ॥
यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम् ॥ १२४-२६ ॥
ऋषीणां पूजनं चापि स्वशाखोक्तविधानतः ॥
बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे ॥ १२४-२७ ॥
रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम् ॥ १२४-२८ ॥
सिद्धार्थाक्षतराजिकाश्च विधृता रक्तांशुकांशे सिताः कौसुंभेन च तंतुनाथ सलिलैः प्रक्षाल्य कांस्ये धृताः ॥
गंधाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके ॥ १२४-२९ ॥
ततस्तु दक्षिणां दत्वा द्विजेभ्योऽध्यायमाचरेत् ॥
विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम् ॥ १२४-३० ॥
रंजितं कुंकुमाद्यैश्च नवीनं निर्मितं स्वयम् ॥
शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत् ॥ १२४-३१ ॥
कृते ह्यस्मिन्व्रते विप्र वार्षिकं कर्मं वैदिकम् ॥
विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत् ॥ १२४-३२ ॥
प्रौष्ठपद्यां पौर्णमास्यामुमामाहेश्वरव्रतम् ॥
एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः ॥ १२४-३३ ॥
कृतांजलिः प्रार्थयेच्छ्वः करिष्ये च व्रतं प्रभो ॥
एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम् ॥ १२४-३४ ॥
रात्रौ देवांतिके सुप्त्वा उत्थायापरयामके ॥
कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक् ततः ॥ १२४-३५ ॥
पूजयेच्छंकरं सम्यगुपचारैः पृथग्विधैः ॥
बिल्वपत्रैः सुगंधाढ्येंर्नैवेद्यैर्धूपदीपकैः ॥ १२४-३६ ॥
ततश्चोपवसेद्विद्वानाप्रदोषं विंधूदये ॥
पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत् ॥ १२४-३७ ॥
एवं पंचदशाब्दांतं कृत्वा व्रतमतंद्रितः ॥
वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम् ॥ १२४-३८ ॥
उमायाश्च महेशस्य सौवर्णी प्रतिमाद्वयम् ॥
हैमा रौप्या मृन्मयाश्च घटाः पंचदशोत्तमाः ॥ १२४-३९ ॥
तत्रैकस्मिन्घटे स्थाप्यं सवस्त्रं प्रतिमाद्वयम् ॥
पंचामृतेन संस्राप्य जलैः शुद्धैस्ततोऽर्चयेत् ॥ १२४-४० ॥
उपचारैः षोडशभिस्ततः पंचदश द्विजान् ॥
भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम् ॥ १२४-४१ ॥
कुंभमेकैकमीशस्य मूर्त्याढ्यं गुरवेऽर्पयेत् ॥
एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम् ॥ १२४-४२ ॥
जायते भुवि विख्यातो निधानं सर्वसंपदाम् ॥
अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम् ॥ १२४-४३ ॥
प्रातः स्नात्वा विधानेन संपूज्य सुरनायकम् ॥
गंधाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः ॥ १२४-४४ ॥
ततो निमंत्रितान्विप्रान्संभोज्य विधिवद्द्विज ॥
समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत् ॥ १२४-४५ ॥
एतच्छक्रव्रतं विप्र कर्तव्यं प्रतिवार्षिकम् ॥
राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता ॥ १२४-४६ ॥
आश्विने मासि पूर्णायां व्रतं कोजागराभिधम् ॥
तेन स्नात्वा विधानेन सोपवासो जितेंद्रियः ॥ १२४-४७ ॥
लक्ष्मीमभ्यर्च्य सौवर्णीं घटे संस्थाप्य ताम्रजे ॥
मृन्मये वा सवस्त्रांतामुपचारैः पृथग्विधम् ॥ १२४-४८ ॥
ततः सायंतने कालेऽभ्युदिते तारकाधिपे ॥
हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत् ॥ १२४-४९ ॥
लक्षं तदर्धमयुतं सहस्रं शतमेव वा ॥
घृतशर्करसंमिश्रं विपाच्य बहु पायसम् ॥ १२४-५० ॥
बहुपात्रेषु संस्थाप्य कौमुद्यां शीतदीधितेः ॥
याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत् ॥ १२४-५१ ॥
ततः संभोजयेत्तेन विप्रान्भक्त्या ततश्च तैः ॥
सहैव जागरं कुर्य्यान्नृत्यगीतसुमंगलैः ॥ १२४-५२ ॥
ततोऽरुणोदये स्नात्वा तां मूर्तिं गुरवेऽर्पयेत् ॥
अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा ॥ १२४-५३ ॥
निशीथे चरते लोके को जागर्तिं धरातले ॥
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ॥ १२४-५४ ॥
वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रतोषणम् ॥
समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम् ॥ १२४-५५ ॥
कार्तिक्यां पूर्णिमायां तु कुर्यात्कार्तिकदर्शनम् ॥
विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च ॥ १२४-५६ ॥
अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः ॥
निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः ॥ १२४-५७ ॥
कीटाः पतंगा मशकाश्च वृक्षा जले स्थले ये विचरंति जीवाः ॥
दृष्ट्वा प्रदीपान्नहि तेऽपि जन्मिनः पुनश्च मुक्तिं हि लभंत एव च ॥ १२४-५८ ॥
अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च षट् ॥ १२४-५९ ॥
कार्तिकेयस्तथा खङ्गी वरुणश्च हुताशनः ॥
गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः ॥ १२४-६० ॥
परमान्नैः फलैः शाकैर्वह्निब्राह्मणतर्पणैः ॥
एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः ॥ १२४-६१ ॥
दीपोपांते तथा गर्तश्चतुरस्रो मनोहरः ॥
चतुर्द्दंशांगुलः कार्यः सेच्यश्चदनवारिणा ॥ १२४-६२ ॥
गवां क्षीरेण संपूर्य हैमं तत्र विनिक्षिपेत् ॥
मुक्तानेत्रसमायुक्तं मत्स्यं सर्वांगशोभनम् ॥ १२४-६३ ॥
महामत्स्याय च नम इति मंत्रं समुच्चरन् ॥
गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत् ॥ १२४-६४ ॥
क्षीरसागरदानं ते मयोक्तं द्विजसत्तम ॥
दानस्यास्य प्रभावेण मोदते हरिसन्निधौ ॥ १२४-६५ ॥
अत्र कृत्त्वा वृषोत्सर्गं व्रतं नक्तं च नारद ॥
रुद्रलोकमवाप्नोति नात्र कार्या विचारणा ॥ १२४-६६ ॥
मार्गशीर्ष्या पूर्णिमायां स्वर्णाढ्यं लवणाढकम् ॥
देवं विप्राय शांताय सर्वकामसमृद्धये ॥ १२४-६७ ॥
इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्ततो हरिः ॥
पुरंदरश्च सोमश्च तथा तिष्यो बृहस्पतिः ॥ १२४-६८ ॥
पंचैते पुष्ययुक्तायां पौर्णमास्यां जगद्बलात् ॥
अलंकृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः ॥ १२४-६९ ॥
तस्मान्नरः पुष्ययोगे सर्वसौभाग्यवृद्धये ॥
गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥ १२४-७० ॥
स्नायात्सर्वौषधिजलैर्धारयेच्च नवांशुके ॥
दृष्ट्वा च मंगलं द्रव्यं स्पृष्ट्वा नत्वा ततोऽर्चयेत् ॥ १२४-७१ ॥
हरिशक्रेंदुपुष्येज्यान्गंधाद्यरुपचारकैः ॥
विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः ॥ १२४-७२ ॥
एतत्कृत्वा व्रतं विप्र रमाप्रीतिविवर्द्धनम् ॥
अलक्ष्मीनाशनं चैव मोदतेह परत्र च ॥ १२४-७३ ॥
पौर्णमास्यां ततो माध्यां तिलकार्पासकंबलम् ॥
रत्नानि कंचुकोष्णीषपादत्राणानि वा धनम् ॥ १२४-७४ ॥
दत्वा प्रमोदते स्वर्गे दानं वित्तानुसारतः ॥
यस्त्वत्र शंकरं देवं पूजयेद्विधिपूर्वकम् ॥ १२४-७५ ॥
सोऽश्वमेधफलं प्राप्यविष्णुलोके महीयते ॥
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ॥ १२४-७६ ॥
संचयं सर्वकाष्ठानामुपलानां च कारयेत् ॥
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मंत्रविस्तरैः ॥ १२४-७७ ॥
"असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः ॥
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव"॥ १२४-७८ ॥
इति मंत्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः ॥
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः ॥ १२४-७९ ॥
होलिका राक्षसी चेयं प्रह्लादभयदायिनी ॥
ततस्तां प्रदहंत्येवं काष्ठाद्यैर्गीतमंगलैः ॥ १२४-८० ॥
संवत्सरस्य दाहोऽयं कामदाहो मतांतरे ॥
इति जानीहि विप्रेंद्र लोके स्थितिरनेकधा ॥ १२४-८१ ॥
पक्षांते द्वे पृथग्दैवे ततोऽमाव्रतमुच्यते ॥
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ॥ १२४-८२ ॥
चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम् ॥
पार्वणेन विधानेन श्राद्धं वित्तानुसारतः ॥ १२४-८३ ॥
द्विजानां भोजनं दानं गवादीनां विशेषतः ॥
सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः ॥ १२४-८४ ॥
ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद ॥
विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम् ॥ १२४-८५ ॥
शुचौ नभसि भाद्रे च मासे पूर्णांतिके द्विज ॥
पितृश्राद्धं दानहोमसुरार्चानंत्यमश्नुते ॥ १२४-८६ ॥
भाद्रदर्शेऽपराह्णे तु तिलक्षेत्रसमुद्भवान् ॥
विरिंचिमनुनामंत्र्य हुंफट् छिन्नान्कुशान् द्विज ॥ १२४-८७ ॥
सर्वदा सर्वकार्येषु योजयेदेकदाऽपरान् ॥
इषामायां विशेषण पितॄणां श्राद्धतर्पणम् ॥ १२४-८८ ॥
विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले ॥
ऊर्ज्जामायां दीपदानं देवागारगृहेषु च ॥ १२४-८९ ॥
नद्यारामतडागेषु चैत्यगोष्ठापणेषु च ॥
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ॥ १२४-९० ॥
द्यूतं च वर्षफलदं जये चापि पराजये ॥
गवां पूजात्र विहिता शृंगाद्यंगानुरंजनैः ॥ १२४-९१ ॥
यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः ॥
मार्गेऽपि पितृपूजा स्याच्छ्राद्धैर्ब्राह्मणभोजनैः ॥ १२४-९२ ॥
ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः ॥
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम् ॥ १२४-९३ ॥
अमायां कर्णपातार्कयुक्तायां तु गयाधिकम् ॥
फाल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा ॥ १२४-९४ ॥
दानादि सर्वफलदं दर्शे सोमेऽधिकं फलम् ॥
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव ॥ १२४-९५ ॥
सर्वत्रापि विशेषोऽस्ति स पुराणांतरे स्थितः ॥ १२४-९६ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमोऽध्यायः ॥ १२४ ॥
 
 
</span></poem>
सनातन उवाच ।।
अथ नारद वक्ष्यामि श्रृणु पूर्णाव्रतानि ते ।।
यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम् ।। १२४-१ ।।
 
चैत्रपूर्णा तु विप्रेंद्र मन्वादिः समुदाहृता ।।
अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये ।। १२४-२ ।।
 
वैशाख्यामपि पूर्णायां दानं सर्वस्य सर्वदम् ।।
यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम् ।। १२४-३ ।।
 
धर्मराजव्रतं चात्र कथितं तन्निशामय ।।
श्रृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे ।। १२४-४ ।।
 
दद्याद्गोदानफलदं धर्मराजस्य तुष्टये ।।
अत्र कृष्णाजिनं दद्यात्सखुरं च सश्रृङ्गकम् ।। १२४-५ ।।
 
तिलैः सहसमाच्छाद्य वस्त्रैर्हेम्ना द्विजातये ।।
यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम् ।। १२४-६ ।।
 
सर्वशास्त्रविदे सप्तद्वीपभूमिप्रदः स वै ।।
मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम् ।। १२४-७ ।।
 
कुंभान्स्वच्छजलैः पूर्णान्हिरण्येन समन्वितान् ।।
यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित् ।। १२४-८ ।।
 
अथ ज्येष्टस्य पूर्णायां वटसावित्रिकं व्रतम् ।।
सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः ।। १२४-९ ।।
 
सृत्रेण वेष्टयेच्चैव सशताष्टप्रदक्षिणम् ।।
ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम् ।। १२४-१० ।।
 
जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते ।।
पत्या सहावियोगं मे वटस्थे कुरु ते नमः ।। १२४-११ ।।
 
इति सप्रार्थ्य या नारी भोजयित्वा परेऽहनि ।।
सुवासिनीः स्वयं भुंज्यात्सा स्यात्सौभाग्यभागिनी ।। १२४-१२ ।।
 
आषाढस्य तु पूर्णायां गोपद्मव्रतमुच्यते ।।
चतुर्भुजं महाकायं जांबूनदसमप्रभम् ।। १२४-१३ ।।
 
शंखचक्रगदापद्मरमागरुडशोभितम् ।।
सेवितं मुनिभिर्देवैर्यक्षगंधर्वकिन्नरैः ।। १२४-१४ ।।
 
एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेत् ।।
पौरुषेणैव सूक्तेन गंधाद्यैरुपचारकैः ।। १२४-१५ ।।
 
आचार्यं वस्त्रभूषाद्यैस्तोषयेत्स्निग्धमानसः ।।
भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः ।। १२४-१६ ।।
 
एवं कृत्वा व्रतं विप्र प्रसादात्कमलापतेः ।।
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः ।। १२४-१७ ।।
 
कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ।।
पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले ।। १२४-१८ ।।
 
पूर्णांतं श्रावणे मासि गौरीरूपां च कोकिलाम् ।।
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपंकजाम् ।। १२४-१९ ।।
 
कस्तूरीवर्णसंयुक्तामुत्पन्नां नंदने वने ।।
चूतचंपकवृक्षस्थां कलगीतनिनादिनीम् ।। १२४-२० ।।
 
चिंतयेत्पार्वतीं देवीं कोकिलारूपधारिणीम् ।।
गंधाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे ।। १२४-२१ ।।
 
ततो व्रतांते हैमीं वा तिलपिष्टमयीं द्विज ।।
दद्याद्विप्राय मंत्रेण भक्त्या सस्वर्णदक्षिणाम् ।। १२४-२२ ।।
 
देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे ।।
संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव ।। १२४-२३ ।।
 
द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः ।।
वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ।। १२४-२४ ।।
 
एवं या कुरुते नारी कोकिलाव्रतमुत्तम् ।।
सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद ।। १२४-२५ ।।
 
अथ श्रावणपूर्णायां वेदोपाकरणं स्मृतम् ।।
यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम् ।। १२४-२६ ।।
 
ऋषीणां पूजनं चापि स्वशाखोक्तविधानतः ।।
बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे ।। १२४-२७ ।।
 
रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम् ।। १२४-२८ ।।
 
सिद्धार्थाक्षतराजिकाश्च विधृता रक्तांशुकांशे सिताः कौसुंभेन च तंतुनाथ सलिलैः प्रक्षाल्य कांस्ये धृताः ।।
गंधाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके ।। १२४-२९ ।।
 
ततस्तु दक्षिणां दत्वा द्विजेभ्योऽध्यायमाचरेत् ।।
विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम् ।। १२४-३० ।।
 
रंजितं कुंकुमाद्यैश्च नवीनं निर्मितं स्वयम् ।।
शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत् ।। १२४-३१ ।।
 
कृते ह्यस्मिन्व्रते विप्र वार्षिकं कर्मं वैदिकम् ।।
विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत् ।। १२४-३२ ।।
 
प्रौष्ठपद्यां पौर्णमास्यामुमामाहेश्वरव्रतम् ।।
एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः ।। १२४-३३ ।।
 
कृतांजलिः प्रार्थयेच्छ्वः करिष्ये च व्रतं प्रभो ।।
एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम् ।। १२४-३४ ।।
 
रात्रौ देवांतिके सुप्त्वा उत्थायापरयामके ।।
कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक् ततः ।। १२४-३५ ।।
 
पूजयेच्छंकरं सम्यगुपचारैः पृथग्विधैः ।।
बिल्वपत्रैः सुगंधाढ्येंर्नैवेद्यैर्धूपदीपकैः ।। १२४-३६ ।।
 
ततश्चोपवसेद्विद्वानाप्रदोषं विंधूदये ।।
पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत् ।। १२४-३७ ।।
 
एवं पंचदशाब्दांतं कृत्वा व्रतमतंद्रितः ।।
वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम् ।। १२४-३८ ।।
 
उमायाश्च महेशस्य सौवर्णी प्रतिमाद्वयम् ।।
हैमा रौप्या मृन्मयाश्च घटाः पंचदशोत्तमाः ।। १२४-३९ ।।
 
तत्रैकस्मिन्घटे स्थाप्यं सवस्त्रं प्रतिमाद्वयम् ।।
पंचामृतेन संस्राप्य जलैः शुद्धैस्ततोऽर्चयेत् ।। १२४-४० ।।
 
उपचारैः षोडशभिस्ततः पंचदश द्विजान् ।।
भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम् ।। १२४-४१ ।।
 
कुंभमेकैकमीशस्य मूर्त्याढ्यं गुरवेऽर्पयेत् ।।
एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम् ।। १२४-४२ ।।
 
जायते भुवि विख्यातो निधानं सर्वसंपदाम् ।।
अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम् ।। १२४-४३ ।।
 
प्रातः स्नात्वा विधानेन संपूज्य सुरनायकम् ।।
गंधाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः ।। १२४-४४ ।।
 
ततो निमंत्रितान्विप्रान्संभोज्य विधिवद्द्विज ।।
समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत् ।। १२४-४५ ।।
 
एतच्छक्रव्रतं विप्र कर्तव्यं प्रतिवार्षिकम् ।।
राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता ।। १२४-४६ ।।
 
आश्विने मासि पूर्णायां व्रतं कोजागराभिधम् ।।
तेन स्नात्वा विधानेन सोपवासो जितेंद्रियः ।। १२४-४७ ।।
 
लक्ष्मीमभ्यर्च्य सौवर्णीं घटे संस्थाप्य ताम्रजे ।।
मृन्मये वा सवस्त्रांतामुपचारैः पृथग्विधम् ।। १२४-४८ ।।
 
ततः सायंतने कालेऽभ्युदिते तारकाधिपे ।।
हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत् ।। १२४-४९ ।।
 
लक्षं तदर्धमयुतं सहस्रं शतमेव वा ।।
घृतशर्करसंमिश्रं विपाच्य बहु पायसम् ।। १२४-५० ।।
 
बहुपात्रेषु संस्थाप्य कौमुद्यां शीतदीधितेः ।।
याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत् ।। १२४-५१ ।।
 
ततः संभोजयेत्तेन विप्रान्भक्त्या ततश्च तैः ।।
सहैव जागरं कुर्य्यान्नृत्यगीतसुमंगलैः ।। १२४-५२ ।।
 
ततोऽरुणोदये स्नात्वा तां मूर्तिं गुरवेऽर्पयेत् ।।
अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा ।। १२४-५३ ।।
 
निशीथे चरते लोके को जागर्तिं धरातले ।।
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ।। १२४-५४ ।।
 
वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रतोषणम् ।।
समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम् ।। १२४-५५ ।।
 
कार्तिक्यां पूर्णिमायां तु कुर्यात्कार्तिकदर्शनम् ।।
विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च ।। १२४-५६ ।।
 
अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः ।।
निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः ।। १२४-५७ ।।
 
कीटाः पतंगा मशकाश्च वृक्षा जले स्थले ये विचरंति जीवाः ।।
दृष्ट्वा प्रदीपान्नहि तेऽपि जन्मिनः पुनश्च मुक्तिं हि लभंत एव च ।। १२४-५८ ।।
 
अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च षट् ।। १२४-५९ ।।
कार्तिकेयस्तथा खङ्गी वरुणश्च हुताशनः ।।
गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः ।। १२४-६० ।।
 
परमान्नैः फलैः शाकैर्वह्निब्राह्मणतर्पणैः ।।
एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः ।। १२४-६१ ।।
 
दीपोपांते तथा गर्तश्चतुरस्रो मनोहरः ।।
चतुर्द्दंशांगुलः कार्यः सेच्यश्चदनवारिणा ।। १२४-६२ ।।
 
गवां क्षीरेण संपूर्य हैमं तत्र विनिक्षिपेत् ।।
मुक्तानेत्रसमायुक्तं मत्स्यं सर्वांगशोभनम् ।। १२४-६३ ।।
 
महामत्स्याय च नम इति मंत्रं समुच्चरन् ।।
गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत् ।। १२४-६४ ।।
 
क्षीरसागरदानं ते मयोक्तं द्विजसत्तम ।।
दानस्यास्य प्रभावेण मोदते हरिसन्निधौ ।। १२४-६५ ।।
 
अत्र कृत्त्वा वृषोत्सर्गं व्रतं नक्तं च नारद ।।
रुद्रलोकमवाप्नोति नात्र कार्या विचारणा ।। १२४-६६ ।।
 
मार्गशीर्ष्या पूर्णिमायां स्वर्णाढ्यं लवणाढकम् ।।
देवं विप्राय शांताय सर्वकामसमृद्धये ।। १२४-६७ ।।
 
इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्ततो हरिः ।।
पुरंदरश्च सोमश्च तथा तिष्यो बृहस्पतिः ।। १२४-६८ ।।
 
पंचैते पुष्ययुक्तायां पौर्णमास्यां जगद्बलात् ।।
अलंकृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः ।। १२४-६९ ।।
 
तस्मान्नरः पुष्ययोगे सर्वसौभाग्यवृद्धये ।।
गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ।। १२४-७० ।।
 
स्नायात्सर्वौषधिजलैर्धारयेच्च नवांशुके ।।
दृष्ट्वा च मंगलं द्रव्यं स्पृष्ट्वा नत्वा ततोऽर्चयेत् ।। १२४-७१ ।।
 
हरिशक्रेंदुपुष्येज्यान्गंधाद्यरुपचारकैः ।।
विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः ।। १२४-७२ ।।
 
एतत्कृत्वा व्रतं विप्र रमाप्रीतिविवर्द्धनम् ।।
अलक्ष्मीनाशनं चैव मोदतेह परत्र च ।। १२४-७३ ।।
 
पौर्णमास्यां ततो माध्यां तिलकार्पासकंबलम् ।।
रत्नानि कंचुकोष्णीषपादत्राणानि वा धनम् ।। १२४-७४ ।।
 
दत्वा प्रमोदते स्वर्गे दानं वित्तानुसारतः ।।
यस्त्वत्र शंकरं देवं पूजयेद्विधिपूर्वकम् ।। १२४-७५ ।।
 
सोऽश्वमेधफलं प्राप्यविष्णुलोके महीयते ।।
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ।। १२४-७६ ।।
 
संचयं सर्वकाष्ठानामुपलानां च कारयेत् ।।
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मंत्रविस्तरैः ।। १२४-७७ ।।
 
"असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः ।।
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव"।। १२४-७८ ।।
 
इति मंत्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः ।।
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः ।। १२४-७९ ।।
 
होलिका राक्षसी चेयं प्रह्लादभयदायिनी ।।
ततस्तां प्रदहंत्येवं काष्ठाद्यैर्गीतमंगलैः ।। १२४-८० ।।
 
संवत्सरस्य दाहोऽयं कामदाहो मतांतरे ।।
इति जानीहि विप्रेंद्र लोके स्थितिरनेकधा ।। १२४-८१ ।।
 
पक्षांते द्वे पृथग्दैवे ततोऽमाव्रतमुच्यते ।।
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ।। १२४-८२ ।।
 
चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम् ।।
पार्वणेन विधानेन श्राद्धं वित्तानुसारतः ।। १२४-८३ ।।
 
द्विजानां भोजनं दानं गवादीनां विशेषतः ।।
सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः ।। १२४-८४ ।।
 
ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद ।।
विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम् ।। १२४-८५ ।।
 
शुचौ नभसि भाद्रे च मासे पूर्णांतिके द्विज ।।
पितृश्राद्धं दानहोमसुरार्चानंत्यमश्नुते ।। १२४-८६ ।।
 
भाद्रदर्शेऽपराह्णे तु तिलक्षेत्रसमुद्भवान् ।।
विरिंचिमनुनामंत्र्य हुंफट् छिन्नान्कुशान् द्विज ।। १२४-८७ ।।
 
सर्वदा सर्वकार्येषु योजयेदेकदाऽपरान् ।।
इषामायां विशेषण पितॄणां श्राद्धतर्पणम् ।। १२४-८८ ।।
 
विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले ।।
ऊर्ज्जामायां दीपदानं देवागारगृहेषु च ।। १२४-८९ ।।
 
नद्यारामतडागेषु चैत्यगोष्ठापणेषु च ।।
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ।। १२४-९० ।।
 
द्यूतं च वर्षफलदं जये चापि पराजये ।।
गवां पूजात्र विहिता शृंगाद्यंगानुरंजनैः ।। १२४-९१ ।।
 
यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः ।।
मार्गेऽपि पितृपूजा स्याच्छ्राद्धैर्ब्राह्मणभोजनैः ।। १२४-९२ ।।
 
ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः ।।
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम् ।। १२४-९३ ।।
 
अमायां कर्णपातार्कयुक्तायां तु गयाधिकम् ।।
फाल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा ।। १२४-९४ ।।
 
दानादि सर्वफलदं दर्शे सोमेऽधिकं फलम् ।।
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव ।। १२४-९५ ।।
 
सर्वत्रापि विशेषोऽस्ति स पुराणांतरे स्थितः ।। १२४-९६ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमोऽध्यायः ।। १२४ ।।
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]