"नारदपुराणम्- पूर्वार्धः/अध्यायः ११३" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%"> सनातन उवाचग ॥
श्रृणु विप्रं प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्यहम् ॥
यानि कृत्वा नरा नार्योऽभीष्टान्कामानवाप्नुयुः ॥ ११३-१ ॥
चैत्रमासचतुर्थ्यां तु वासुदेवस्वरूपिणम् ॥
गणपं सम्यगभ्यर्च्य दत्त्वा कांचनदक्षिणाम् ॥ ११३-२ ॥
विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः ॥
वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम् ॥ ११३-३ ॥
गृहस्थद्विजमुख्येभ्यः शंखं दत्त्वा विधानवित् ॥
प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम् ॥ ११३-४ ॥
ज्येष्ठमासचतुर्थ्यां तु प्रार्च्य प्रद्युम्नरूपिणम् ॥
फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः ॥ ११३-५ ॥
आषाढस्य चतुर्थ्यां तु संप्रपूज्यानिरुद्धकम् ॥
यतिभ्योऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः ॥ ११३-६ ॥
चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम् ॥
उद्यापनं विधानेन कर्तव्यं फलमिच्छता ॥ ११३-७ ॥
अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम् ॥
कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम् ॥ ११३-८ ॥
तथाऽऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभावहम् ॥
रथंतराह्वकल्पस्य ह्यादिभूतं दिनं यतः ॥ ११३-९ ॥
श्रद्धापूतेन मनसा गणेशं विधिना नरः ॥
पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम् ॥ ११३-१० ॥
श्रावणस्य चतुर्थ्यां तु जाति चंद्रोदये मुने ॥ ११३-११ ॥
गणेशाय प्रदद्याच्च ह्यर्घ्यं विधिविदांवरः ॥
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम् ॥ ११३-१२ ॥
नानारत्नविभूषाढ्यं प्रसन्नास्यं विचिंतयेत् ॥
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ॥ ११३-१३ ॥
नैवेद्यं मोदकं दद्याद्गणेशप्रीतिदायकम् ॥
एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च ॥ ११३-१४ ॥
सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः ॥
व्रतस्यास्य प्रभावेण कामान्मनसि चिंतितान् ॥ ११३-१५ ॥
लब्ध्वा लेके परं चापि गणेशपदमाप्नुयात् ॥
नानेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ॥ ११३-१६ ॥
तस्मात्कार्यं प्रयत्नेन सर्वान्कामानभीप्सता ॥
अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम् ॥ ११३-१७ ॥
केचिदिच्छंति देवर्षे तद्विधानं वदामि ते ॥
हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम् ॥ ११३-१८ ॥
वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमंडले ॥
पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पंचभिः ॥ ११३-१९ ॥
बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया ॥
आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः ॥ ११३-२० ॥
आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ॥
उपहारं प्रकल्प्याथ दद्यादर्घं समुद्यते ॥
ततः संप्रारथ्य विघ्नेशमूर्तिं सोपस्करां मुने ॥ ११३-२१ ॥
आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ॥
कृत्वैवं पंच वर्षाणि समुपास्य यथाविधि ॥ ११३-२२ ॥
भुक्त्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् ॥
अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम् ॥ ११३-२३ ॥
पूजनी योऽत्र यत्नेन स्रग्गंधयवसादिभिः ॥
ततः प्रदक्षिणीकृत्य शक्तश्चेद्दानमाचरेत् ॥ ११३-२४ ॥
अशक्तः पुरेतां तु नमस्कृत्य विसर्जयेत् ॥
पंचाब्दं वादशाब्दं वा षोडशाब्दमथापि वा ॥ ११३-२५ ॥
व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम् ॥
प्रभावेण व्रतस्यास्य भुक्त्वा भोगान्मनोरमान् ॥ ११३-२६ ॥
सत्कृतो देवतावृंदैर्गोलोकं समवाप्नुयात् ॥
अथ शुक्ल चतुर्थ्यां तु सिद्धवैनायकव्रतम् ॥ ११३-२७ ॥
आवाहनादिभिः सर्वैरुपचारैः समर्चनम् ॥
एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम् ॥ ११३-२८ ॥
एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ॥
पाशांकुशधरं देवं तप्तकांचनसन्निभम् ॥ ११३-२९ ॥
एकविंशति पत्राणि चैकविंशतिनामभिः ॥
समर्पयेद्भक्तियुक्तस्तानि नामानि वै श्रृणु ॥ ११३-३० ॥
सुमुखाय शमीपत्रं गणाधीशाय भृंगजम् ॥
उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च ॥ ११३-३१ ॥
लंबोदराय बदरीं धत्तूरं हरसूनवे ॥
शूर्पकर्णाय तुलसीं वक्रतुंडाय शिंबिजम् ॥ ११३-३२ ॥
गुहाग्रजायापामार्गमेकदंताय बार्हतम् ॥
हेरम्बाय तु सिंदूरं चतिर्होत्रे च पत्रजम् ॥ ११३-३३ ॥
सर्वेश्वरायागस्त्यस्य पत्रं प्रीतिविवर्द्धनम् ॥
दूर्वायुग्मं ततो गृह्य गंधपुष्पाक्षतैर्युतम् ॥ ११३-३४ ॥
पूजां निवेदयेद्भक्तियुक्तो मोदकपंचकम् ॥
आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत् ॥ ११३-३५ ॥
विनायकस्य प्रतिमां हैमीं सोपस्करां मुने ॥
निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत् ॥ ११३-३६ ॥
एवं कृतार्चनो भक्त्या पंच वर्षाणि नारद ॥
उपास्य लभते कामानैहिकामुष्मिकान् शुभान् ॥ ११३-३७ ॥
अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन ॥
पश्यन् मिथ्याभिशाप तु लभते नात्र संशयः ॥
अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत् ॥ ११३-३८ ॥
सिंहः प्रसेनममधीत्सिंहो जांबवता हतः ॥
सकुमारक मा रोदीस्तव ह्येष स्यमंतकः ॥ ११३-३९ ॥
इषशुक्लचतुर्थ्यां तु कपर्द्दीशं विनायकम् ॥ ११३-४० ॥
पौरुषेण तु सूक्तेन पूजयेदुपचारकैः ॥
अकारणान्मुष्टिगतांस्तंडुलान्सकपर्द्दिकान् ॥ ११३-४१ ॥
विप्राय बटवे दद्याद्गंधपुष्पार्चिताय च ॥
तंडुला वैश्वदैवत्या हरदैवत्यमिश्रिताः ॥ ११३-४२ ॥
कपर्दिगणनाथोऽसौ प्रीयतां तैः समर्पितैः ॥
चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम् ॥ ११३-४३ ॥
स्त्रीणामेवाधिकारोऽत्र तद्विधानमुदीर्यते ॥
पूजयेच्च गणाधीशं स्नाता स्त्रीसमलंकृता ॥ ११३-४४ ॥
तदग्रे पूर्णपक्वान्नं विन्यसेत्करकान्दश ॥
समर्प्य देवदेवाय भक्त्या प्रयतमानसा ॥ ११३-४५ ॥
देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत् ॥
सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम् ॥ ११३-४६ ॥
ततश्चंद्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम् ॥
भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये ॥ ११३-४७ ॥
यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने ॥
सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत् ॥ ११३-४८ ॥
एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् ॥
उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत् ॥ ११३-४९ ॥
यावज्जीवं तु वा नार्या कार्य्यं सौभाग्यवांछया ॥
व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम् ॥ ११३-५० ॥
विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः ॥
ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम् ॥ ११३-५१ ॥
प्रातर्व्रतं तु संकल्प्य धेनुशृंजगलं शुचि ॥
पीत्वा स्नात्वाथ मध्याह्ने शंखपालादिपन्नगान् ॥ ११३-५२ ॥
शेषं चाह्वामपूर्वैस्तु पूजयेदुपचारकैः ॥
क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम् ॥ ११३-५३ ॥
एवंकृते तु विप्रेंद्र नृभिर्नागव्रते शुभे ॥
विषाणि नश्यंत्यचिरान्न दशंति च पन्नगाः ॥ ११३-५४ ॥
मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वरा ॥
क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम् ॥ ११३-५५ ॥
अयाचितोपवासाभ्यां तृतीयकचतुर्थके ॥
एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः ॥ ११३-५६ ॥
समाप्य च ततोऽस्यांते व्रतस्नातो महाव्रती ॥
कारयेद्धेमघटितं भूगणेर्मूषकं रथम् ॥ ११३-५७ ॥
अशक्तो वर्णकैरेव शुभ्रं चाब्जं सुपत्रकम् ॥
तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम् ॥ ११३-५८ ॥
पूरयेत्तंडलैः शुभ्रैस्तस्योपरि गणेश्वरम् ॥
न्यसेद्वस्त्रयुगाच्छन्नं गंधाद्यैः पूजयेच्च तम् ॥ ११३-५९ ॥
नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति ॥
जागरैर्शीतवाद्याद्यैः पुराणाख्यानकैश्चरेत् ॥ ११३-६० ॥
प्रभाते विमले स्नात्वा होमं कृत्वा विधानतः ॥
तिलव्रीहियवश्वेतसुर्षपाज्यैः सखंडकैः ॥ ११३-६१ ॥
गणो गणाधिपश्चैव कूष्मांडस्त्रिपुरांतकः ॥
लंबोदरैकदंतौ च रुक्मदंष्ट्रश्च विघ्नपः ॥ ११३-६२ ॥
ब्रह्मा यमोऽथ वरुणः सोमसूर्यहुताशनाः ॥
गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ॥ ११३-६३ ॥
प्रणवाद्यैर्ङेंनमोंऽतैः प्रत्येकं दहने हुनेत् ॥
वक्रतुंडेति ङेंतेन बर्मांतेनाष्टयुक्छतम् ॥ ११३-६४ ॥
ततो व्याहृतिभिः शक्त्या हुत्वा पूर्णाहुतिं चरेत् ॥
दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः ॥ ११३-६५ ॥
चतुत्विंशतिसंख्याकान् मोदकैः पायसैस्तथा ॥
सवत्सां गां ततो दद्यादाचार्याय सदक्षिणाम् ॥ ११३-६६ ॥
अन्योभ्योऽपि यथाशक्ति भूयसीं च ततो ददेत् ॥
प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम् ॥ ११३-६७ ॥
बन्धुभिः सह भुंजीत स्वयं च प्रीतमानसः ॥
एतद्व्रतं नरः कृत्वा भुक्त्वा भोगानिहोत्तमान् ॥ ११३-६८ ॥
सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः ॥
केचिद्वरव्रतं नाम प्राहुरेतस्य नारद ॥ ११३-६९ ॥
विधानमेतदेवापि फलं चापीह तत्समम् ॥
पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः ॥ ११३-७० ॥
विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिणां ददेत् ॥
एवं कृते मुने भूयाद्व्रती संपत्तिभाजनम् ॥ ११३-७१ ॥
माघकृष्णचतुर्थ्यां तु संकष्टव्रतमुच्यते ॥
तत्रोपवासं संकल्प्य व्रती नियमपूर्वकम् ॥ ११३-७२ ॥
चंद्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः ॥
ततश्चंद्रोदये प्राप्ते मृन्मयं गणनायकम् ॥ ११३-७३ ॥
विधाय विन्यसेत्पीठे सायुधं च सवाहनम् ॥
उपचारैः षोडशभिः समभ्यर्च्य विधानतः ॥ ११३-७४ ॥
मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम् ॥
ततोऽर्घ्यं ताम्रजे पात्रे रक्तचंदनमिश्रितम् ॥ ११३-७५ ॥
सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम् ॥
सशमीपत्रदधि च कृत्वा चंद्राय दापयेत् ॥ ११३-७६ ॥
गगनार्णवमाणिक्य चंद्र दाक्षायणीपते ॥
गृहाणार्घ्यं मया दत्तं गणेशप्रतिरूपक ॥ ११३-७७ ॥
एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम् ॥
शक्त्या संभोज्य विप्राग्र्यान्स्वयं भुंजीत चाज्ञया ॥ ११३-७८ ॥
एवं कृत्वा व्रतं विप्र संकष्टाख्यं शूभावहम् ॥
समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात् ॥ ११३-७९ ॥
माघशुक्लचतुर्थ्यां तु गौरीव्रतमनुत्तमम् ॥
तस्यां तु गौरी संपूज्या संयुक्ता योगिनीगणैः ॥ ११३-८० ॥
नरैः स्त्रीभिर्विशेषेण कुंदपुष्पैः सकुंकुमैः ॥
रक्तसूत्रे रक्तपुष्पैस्तथैवालक्तकेन च ॥ ११३-८१ ॥
धूपैर्दीपंश्च बलिभिः सगुडैनार्द्रकेण च ॥
पयसा पायसेनापि लवणेन च पालकैः ॥ ११३-८२ ॥
पूज्याश्चाविधवा नार्यस्तथा विप्राः सुशोभनाः ॥
सौभाग्यवृद्धये देयो भोक्तव्यं बंधुभिः सह ॥ ११३-८३ ॥
इदं गौरीव्रतं विप्र सौभाग्यारोग्यवर्द्धनम् ॥
प्रतिवर्षं प्रकर्त्तव्यं नारीभिश्च नरैस्तथा ॥ ११३-८४ ॥
ढुंढिव्रतं परैः प्रोक्तं कैश्चित्कुंडव्रतं स्मृतम् ॥
ललिताव्रतमित्यन्यैः शांतिव्रतमथापरैः ॥ ११३-८५ ॥
स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने ॥
भवेत्सह स्रगुणितं प्रसादाद्दंतिनः सदा ॥ ११३-८६ ॥
चतुर्थ्यां फाल्गुने मासि ढुंढिराजव्रतं शुभम् ॥
तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः ॥ ११३-८७ ॥
गणेशाराधनपरो दानहोमप्रपूजनैः ॥
तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ॥ ११३-८८ ॥
सौवर्णं गजवक्त्रं च कृत्वा संपूज्य यत्नतः ॥
द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये ॥ ११३-८९ ॥
यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् ॥
सांगारका वा विप्रेंद्र सा विशेषफलप्रदा ॥ ११३-९० ॥
सर्वासु च चतुर्थीषु शुक्लास्वप्यसितासु च ॥
विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ॥ ११३-९१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शमास चतुर्थीव्रतनिरूपणं नाम त्रयोदशाधिकसततमोऽध्यायः ॥ ११३ ॥
 
<poem>
सनातन उवाचग ।।
श्रृणु विप्रं प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्यहम् ।।
यानि कृत्वा नरा नार्योऽभीष्टान्कामानवाप्नुयुः ।। ११३-१ ।।
 
</span></poem>
चैत्रमासचतुर्थ्यां तु वासुदेवस्वरूपिणम् ।।
गणपं सम्यगभ्यर्च्य दत्त्वा कांचनदक्षिणाम् ।। ११३-२ ।।
 
विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः ।।
वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम् ।। ११३-३ ।।
 
गृहस्थद्विजमुख्येभ्यः शंखं दत्त्वा विधानवित् ।।
प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम् ।। ११३-४ ।।
 
ज्येष्ठमासचतुर्थ्यां तु प्रार्च्य प्रद्युम्नरूपिणम् ।।
फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः ।। ११३-५ ।।
 
आषाढस्य चतुर्थ्यां तु संप्रपूज्यानिरुद्धकम् ।।
यतिभ्योऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः ।। ११३-६ ।।
 
चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम् ।।
उद्यापनं विधानेन कर्तव्यं फलमिच्छता ।। ११३-७ ।।
 
अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम् ।।
कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम् ।। ११३-८ ।।
 
तथाऽऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभावहम् ।।
रथंतराह्वकल्पस्य ह्यादिभूतं दिनं यतः ।। ११३-९ ।।
 
श्रद्धापूतेन मनसा गणेशं विधिना नरः ।।
पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम् ।। ११३-१० ।।
 
श्रावणस्य चतुर्थ्यां तु जाति चंद्रोदये मुने ।। ११३-११ ।।
गणेशाय प्रदद्याच्च ह्यर्घ्यं विधिविदांवरः ।।
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम् ।। ११३-१२ ।।
 
नानारत्नविभूषाढ्यं प्रसन्नास्यं विचिंतयेत् ।।
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ।। ११३-१३ ।।
 
नैवेद्यं मोदकं दद्याद्गणेशप्रीतिदायकम् ।।
एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च ।। ११३-१४ ।।
 
सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः ।।
व्रतस्यास्य प्रभावेण कामान्मनसि चिंतितान् ।। ११३-१५ ।।
 
लब्ध्वा लेके परं चापि गणेशपदमाप्नुयात् ।।
नानेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ।। ११३-१६ ।।
 
तस्मात्कार्यं प्रयत्नेन सर्वान्कामानभीप्सता ।।
अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम् ।। ११३-१७ ।।
 
केचिदिच्छंति देवर्षे तद्विधानं वदामि ते ।।
हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम् ।। ११३-१८ ।।
 
वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमंडले ।।
पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पंचभिः ।। ११३-१९ ।।
 
बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया ।।
आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः ।। ११३-२० ।।
 
आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ।।
उपहारं प्रकल्प्याथ दद्यादर्घं समुद्यते ।।
ततः संप्रारथ्य विघ्नेशमूर्तिं सोपस्करां मुने ।। ११३-२१ ।।
 
आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ।।
कृत्वैवं पंच वर्षाणि समुपास्य यथाविधि ।। ११३-२२ ।।
 
भुक्त्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् ।।
अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम् ।। ११३-२३ ।।
 
पूजनी योऽत्र यत्नेन स्रग्गंधयवसादिभिः ।।
ततः प्रदक्षिणीकृत्य शक्तश्चेद्दानमाचरेत् ।। ११३-२४ ।।
 
अशक्तः पुरेतां तु नमस्कृत्य विसर्जयेत् ।।
पंचाब्दं वादशाब्दं वा षोडशाब्दमथापि वा ।। ११३-२५ ।।
 
व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम् ।।
प्रभावेण व्रतस्यास्य भुक्त्वा भोगान्मनोरमान् ।। ११३-२६ ।।
 
सत्कृतो देवतावृंदैर्गोलोकं समवाप्नुयात् ।।
अथ शुक्ल चतुर्थ्यां तु सिद्धवैनायकव्रतम् ।। ११३-२७ ।।
 
आवाहनादिभिः सर्वैरुपचारैः समर्चनम् ।।
एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम् ।। ११३-२८ ।।
 
एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।।
पाशांकुशधरं देवं तप्तकांचनसन्निभम् ।। ११३-२९ ।।
 
एकविंशति पत्राणि चैकविंशतिनामभिः ।।
समर्पयेद्भक्तियुक्तस्तानि नामानि वै श्रृणु ।। ११३-३० ।।
 
सुमुखाय शमीपत्रं गणाधीशाय भृंगजम् ।।
उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च ।। ११३-३१ ।।
 
लंबोदराय बदरीं धत्तूरं हरसूनवे ।।
शूर्पकर्णाय तुलसीं वक्रतुंडाय शिंबिजम् ।। ११३-३२ ।।
 
गुहाग्रजायापामार्गमेकदंताय बार्हतम् ।।
हेरम्बाय तु सिंदूरं चतिर्होत्रे च पत्रजम् ।। ११३-३३ ।।
 
सर्वेश्वरायागस्त्यस्य पत्रं प्रीतिविवर्द्धनम् ।।
दूर्वायुग्मं ततो गृह्य गंधपुष्पाक्षतैर्युतम् ।। ११३-३४ ।।
 
पूजां निवेदयेद्भक्तियुक्तो मोदकपंचकम् ।।
आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत् ।। ११३-३५ ।।
 
विनायकस्य प्रतिमां हैमीं सोपस्करां मुने ।।
निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत् ।। ११३-३६ ।।
 
एवं कृतार्चनो भक्त्या पंच वर्षाणि नारद ।।
उपास्य लभते कामानैहिकामुष्मिकान् शुभान् ।। ११३-३७ ।।
 
अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन ।।
पश्यन् मिथ्याभिशाप तु लभते नात्र संशयः ।।
अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत् ।। ११३-३८ ।।
 
सिंहः प्रसेनममधीत्सिंहो जांबवता हतः ।।
सकुमारक मा रोदीस्तव ह्येष स्यमंतकः ।। ११३-३९ ।।
 
इषशुक्लचतुर्थ्यां तु कपर्द्दीशं विनायकम् ।। ११३-४० ।।
 
पौरुषेण तु सूक्तेन पूजयेदुपचारकैः ।।
अकारणान्मुष्टिगतांस्तंडुलान्सकपर्द्दिकान् ।। ११३-४१ ।।
 
विप्राय बटवे दद्याद्गंधपुष्पार्चिताय च ।।
तंडुला वैश्वदैवत्या हरदैवत्यमिश्रिताः ।। ११३-४२ ।।
 
कपर्दिगणनाथोऽसौ प्रीयतां तैः समर्पितैः ।।
चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम् ।। ११३-४३ ।।
 
स्त्रीणामेवाधिकारोऽत्र तद्विधानमुदीर्यते ।।
पूजयेच्च गणाधीशं स्नाता स्त्रीसमलंकृता ।। ११३-४४ ।।
 
तदग्रे पूर्णपक्वान्नं विन्यसेत्करकान्दश ।।
समर्प्य देवदेवाय भक्त्या प्रयतमानसा ।। ११३-४५ ।।
 
देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत् ।।
सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम् ।। ११३-४६ ।।
 
ततश्चंद्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम् ।।
भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये ।। ११३-४७ ।।
 
यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने ।।
सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत् ।। ११३-४८ ।।
 
एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् ।।
उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत् ।। ११३-४९ ।।
 
यावज्जीवं तु वा नार्या कार्य्यं सौभाग्यवांछया ।।
व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम् ।। ११३-५० ।।
 
विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः ।।
ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम् ।। ११३-५१ ।।
 
प्रातर्व्रतं तु संकल्प्य धेनुशृंजगलं शुचि ।।
पीत्वा स्नात्वाथ मध्याह्ने शंखपालादिपन्नगान् ।। ११३-५२ ।।
 
शेषं चाह्वामपूर्वैस्तु पूजयेदुपचारकैः ।।
क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम् ।। ११३-५३ ।।
 
एवंकृते तु विप्रेंद्र नृभिर्नागव्रते शुभे ।।
विषाणि नश्यंत्यचिरान्न दशंति च पन्नगाः ।। ११३-५४ ।।
 
मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वरा ।।
क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम् ।। ११३-५५ ।।
 
अयाचितोपवासाभ्यां तृतीयकचतुर्थके ।।
एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः ।। ११३-५६ ।।
 
समाप्य च ततोऽस्यांते व्रतस्नातो महाव्रती ।।
कारयेद्धेमघटितं भूगणेर्मूषकं रथम् ।। ११३-५७ ।।
 
अशक्तो वर्णकैरेव शुभ्रं चाब्जं सुपत्रकम् ।।
तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम् ।। ११३-५८ ।।
 
पूरयेत्तंडलैः शुभ्रैस्तस्योपरि गणेश्वरम् ।।
न्यसेद्वस्त्रयुगाच्छन्नं गंधाद्यैः पूजयेच्च तम् ।। ११३-५९ ।।
 
नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति ।।
जागरैर्शीतवाद्याद्यैः पुराणाख्यानकैश्चरेत् ।। ११३-६० ।।
 
प्रभाते विमले स्नात्वा होमं कृत्वा विधानतः ।।
तिलव्रीहियवश्वेतसुर्षपाज्यैः सखंडकैः ।। ११३-६१ ।।
 
गणो गणाधिपश्चैव कूष्मांडस्त्रिपुरांतकः ।।
लंबोदरैकदंतौ च रुक्मदंष्ट्रश्च विघ्नपः ।। ११३-६२ ।।
 
ब्रह्मा यमोऽथ वरुणः सोमसूर्यहुताशनाः ।।
गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ।। ११३-६३ ।।
 
प्रणवाद्यैर्ङेंनमोंऽतैः प्रत्येकं दहने हुनेत् ।।
वक्रतुंडेति ङेंतेन बर्मांतेनाष्टयुक्छतम् ।। ११३-६४ ।।
 
ततो व्याहृतिभिः शक्त्या हुत्वा पूर्णाहुतिं चरेत् ।।
दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः ।। ११३-६५ ।।
 
चतुत्विंशतिसंख्याकान् मोदकैः पायसैस्तथा ।।
सवत्सां गां ततो दद्यादाचार्याय सदक्षिणाम् ।। ११३-६६ ।।
 
अन्योभ्योऽपि यथाशक्ति भूयसीं च ततो ददेत् ।।
प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम् ।। ११३-६७ ।।
 
बन्धुभिः सह भुंजीत स्वयं च प्रीतमानसः ।।
एतद्व्रतं नरः कृत्वा भुक्त्वा भोगानिहोत्तमान् ।। ११३-६८ ।।
 
सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः ।।
केचिद्वरव्रतं नाम प्राहुरेतस्य नारद ।। ११३-६९ ।।
 
विधानमेतदेवापि फलं चापीह तत्समम् ।।
पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः ।। ११३-७० ।।
 
विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिणां ददेत् ।।
एवं कृते मुने भूयाद्व्रती संपत्तिभाजनम् ।। ११३-७१ ।।
 
माघकृष्णचतुर्थ्यां तु संकष्टव्रतमुच्यते ।।
तत्रोपवासं संकल्प्य व्रती नियमपूर्वकम् ।। ११३-७२ ।।
 
चंद्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः ।।
ततश्चंद्रोदये प्राप्ते मृन्मयं गणनायकम् ।। ११३-७३ ।।
 
विधाय विन्यसेत्पीठे सायुधं च सवाहनम् ।।
उपचारैः षोडशभिः समभ्यर्च्य विधानतः ।। ११३-७४ ।।
 
मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम् ।।
ततोऽर्घ्यं ताम्रजे पात्रे रक्तचंदनमिश्रितम् ।। ११३-७५ ।।
 
सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम् ।।
सशमीपत्रदधि च कृत्वा चंद्राय दापयेत् ।। ११३-७६ ।।
 
गगनार्णवमाणिक्य चंद्र दाक्षायणीपते ।।
गृहाणार्घ्यं मया दत्तं गणेशप्रतिरूपक ।। ११३-७७ ।।
 
एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम् ।।
शक्त्या संभोज्य विप्राग्र्यान्स्वयं भुंजीत चाज्ञया ।। ११३-७८ ।।
 
एवं कृत्वा व्रतं विप्र संकष्टाख्यं शूभावहम् ।।
समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात् ।। ११३-७९ ।।
 
माघशुक्लचतुर्थ्यां तु गौरीव्रतमनुत्तमम् ।।
तस्यां तु गौरी संपूज्या संयुक्ता योगिनीगणैः ।। ११३-८० ।।
 
नरैः स्त्रीभिर्विशेषेण कुंदपुष्पैः सकुंकुमैः ।।
रक्तसूत्रे रक्तपुष्पैस्तथैवालक्तकेन च ।। ११३-८१ ।।
 
धूपैर्दीपंश्च बलिभिः सगुडैनार्द्रकेण च ।।
पयसा पायसेनापि लवणेन च पालकैः ।। ११३-८२ ।।
 
पूज्याश्चाविधवा नार्यस्तथा विप्राः सुशोभनाः ।।
सौभाग्यवृद्धये देयो भोक्तव्यं बंधुभिः सह ।। ११३-८३ ।।
 
इदं गौरीव्रतं विप्र सौभाग्यारोग्यवर्द्धनम् ।।
प्रतिवर्षं प्रकर्त्तव्यं नारीभिश्च नरैस्तथा ।। ११३-८४ ।।
 
ढुंढिव्रतं परैः प्रोक्तं कैश्चित्कुंडव्रतं स्मृतम् ।।
ललिताव्रतमित्यन्यैः शांतिव्रतमथापरैः ।। ११३-८५ ।।
 
स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने ।।
भवेत्सह स्रगुणितं प्रसादाद्दंतिनः सदा ।। ११३-८६ ।।
 
चतुर्थ्यां फाल्गुने मासि ढुंढिराजव्रतं शुभम् ।।
तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः ।। ११३-८७ ।।
 
गणेशाराधनपरो दानहोमप्रपूजनैः ।।
तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ।। ११३-८८ ।।
 
सौवर्णं गजवक्त्रं च कृत्वा संपूज्य यत्नतः ।।
द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये ।। ११३-८९ ।।
 
यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् ।।
सांगारका वा विप्रेंद्र सा विशेषफलप्रदा ।। ११३-९० ।।
 
सर्वासु च चतुर्थीषु शुक्लास्वप्यसितासु च ।।
विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ।। ११३-९१ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शमास चतुर्थीव्रतनिरूपणं नाम त्रयोदशाधिकसततमोऽध्यायः ।। ११३ ।।
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]