"नारदपुराणम्- पूर्वार्धः/अध्यायः ५८" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(नारदपुराणम्- पूर्वार्धः using AWB)
 
{{नारदपुराणम्- पूर्वार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%">नारद उवाच ॥
अनूचानप्रसंगेन वेदांगान्यखिलानि च ॥
श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः ॥ ५८-१ ॥
शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते ॥
सनंदन उवाच ॥
मेरुश्रृङ्गे किल पुरा कर्णिकारवनायते ॥ ५८-२ ॥
विजहार महोदेवो भौमैभूतगणैवृतः ॥
शैलराजसुता चैव देवी तत्राभवत्पुरा ॥ ५८-३ ॥
तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ॥
योगेनात्मानमाविश्य योगधर्मपरायणः ॥ ५८-४ ॥
धारयन्स तपस्तेपे पुत्रार्थं सुनिसंत्तमः ॥
अग्नेर्भूमेस्तथा वायोरंतरिक्षस्य चाभितः ॥ ५८-५ ॥
वीर्येण संमतः पुत्रो मम भूयादिति स्म ह ॥
संकल्पेनाथ सोऽनेन दुष्प्रापमकगृतात्मभिः ॥ ५८-६ ॥
वरयामास देवेशमास्थितस्तप उत्तमम् ॥
अतिष्टन्मारुताहारः शतं किल समाः प्रभुः ॥ ५८-७ ॥
आराधयन्महादेवं बहुरूपमुमापतिम् ॥
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ॥ ५८-८ ॥
लोकपालाश्च साध्याश्च वसुभिश्चाष्टभिः सह ॥
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ॥ ५८-९ ॥
विश्वा वसुश्च गंधर्वः सिद्धाश्चाप्सरासांगणाः ॥
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ॥ ५८-१० ॥
धारयानः स्रजं भाति शारदीव निशाकरः ॥
तस्निन् दिव्ये वने रम्ये देवदेवर्षिसंकुले ॥ ५८-११ ॥
आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः ॥
न चास्य हीयते वर्णो न ग्लानिरुपजायते ॥ ५८-१२ ॥
त्रयाणामपिलोकानां तदद्भुतमिवाभवत् ॥
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ॥ ५८-१३ ॥
प्रज्वलंत्यः स्म दृश्यंते युक्तस्यामिततेजसः ॥
एवं विधेन तपसा तस्य भक्त्या च नारद ॥ ५८-१४ ॥
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥
उवाच चैनं भगवांस्त्र्यंबकः प्रहसन्निव ॥ ५८-१५ ॥
यथा ह्यग्नियथा वायुर्यथा भूमिर्यथा जलम् ॥
यथा खे च तथा शुद्धो भविष्यति सुतस्तंव ॥ ५८-१६ ॥
तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः ॥
तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥ ५८-१७ ॥
एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः ॥
अरणिं त्वथ संगृह्य ममंथाग्निचिकीर्षया ॥ ५८-१८ ॥
अथ रूपं परं विप्र बिभ्रतीं स्वेन तेजसा ॥
घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः ॥ ५८-१९ ॥
स तामप्सरसं दृष्ट्वा सहसा काममोहितः ॥
अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर ॥ ५८-२० ॥
सा तु कृत्वा तदा व्यासं कामसंविग्नमानसम् ॥
शुकीभूया महारम्या घृताची समुपागमत् ॥ ५८-२१ ॥
स तामप्सरसं दृष्ट्वा रूपेणान्येनसंवृताम् ॥
स्मरराजेनानुगतः सर्वगात्रातिगेन ह ॥ ५८-२२ ॥
स तु महता निगृह्णन् हृच्छयं मुनिः ॥
न शशाक नियंतुं तं व्यासः प्रविसृतं मनः ॥ ५८-२३ ॥
भावित्वाञ्चैव भाव्यस्य घृताच्या वपुषा ॥
हृतम् यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया ॥ ५८-२४ ॥
अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥
शुक्रे निर्मथ्यमानेऽस्यां शुको जज्ञे महातपाः ॥ ५८-२५ ॥
परमर्षिर्महायोगी अरणीगर्भसंभवः ॥
यथैव हि समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ॥ ५८-२६ ॥
तथा रूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥
बिभ्रञ्चित्रं च विप्रेंद्र रूपवर्णमनुत्तमम् ॥ ५८-२७ ॥
तं गंगां सरितां श्रेष्ठां मेरुपृष्ठे स्वरूपिणीम् ॥
अभ्येत्य स्नापयामास वारिणा स्वेन नारद ॥ ५८-२८ ॥
कृष्णाजिनं चांतरिक्षाच्छुकार्थे भुव्यवापतत् ॥
जगीयंत च गंधर्वा ननृतुञ्चाप्सरोगणाः ॥ ५८-२९ ॥
देवदुन्दुभयश्चैव प्रावाद्यंत महास्वनाः ॥
विश्वावसुश्च गंधर्वस्तथा तुंबुरुनारदौ ॥ ५८-३० ॥
हाहाहूहूश्च गंधर्वौ तुष्टुवुः शुकसंभवम् ॥
तत्र शक्रपुरोगाश्च लोकपालाः समागताः ॥ ५८-३१ ॥
देवा देवर्षथयश्चटैव तथा ब्रह्मर्षयोऽपि च ॥
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ॥ ५८-३२ ॥
जंगमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ॥ ५८-३३ ॥
जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥
तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम् ॥ ५८-३४ ॥
ददौ कमंडलुं प्रीत्या देवा वासांसि चाभितः ॥
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ॥ ५८-३५ ॥
प्रदक्षिणमवर्तंत शुकाश्चाषाश्च नारद ॥
आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ॥ ५८-३६ ॥
तत्रैवोवास मेधावी व्रतचारी समाहितः ॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ॥ ५८-३७ ॥
उपतस्थुर्मुनिश्रेष्टं यथास्य पितरं तथा ॥
बृहस्पतिं स वव्रे च वेदवेदांगभाष्यवित् ॥ ५८-३८ ॥
उपाध्यायं द्विजश्रेष्ट धर्ममेवानुचिंतयन् ॥
सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् ॥ ५८-३९ ॥
इतिहासं च कार्त्स्न्येन वेदशास्त्राणि चाभितः ॥
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ॥ ५८-४० ॥
उग्रं तपः समारेभे ब्रह्मचारी समाहिताः ॥
देवतानामृषीणां च बाल्येऽपि सुमहातपाः ॥ ५८-४१ ॥
संमत्रणीयो जन्यश्च ज्ञानेन तपसा तथा ॥
न त्वस्य रमते बुद्धिराश्रमेषु मुनीश्वर ॥ ५८-४२ ॥
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥
स मोक्षमनुचिंत्यैव शुकः पितरमभ्यगात् ॥ ५८-४३ ॥
प्राहाभिवाद्य च तदा श्रेयोऽर्थी विनयान्वितः ॥
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे ॥ ५८-४४ ॥
यथैव मनसः शांतिः परमा संभवेन्मुने ॥
श्रृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ॥ ५८-४५ ॥
अधीष्व मोक्षशास्त्रं वै धर्मांश्च विविधानपि ॥
पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ॥ ५८-४६ ॥
योगशास्त्रं च निखिलं कापिलं चैव नारद ॥
शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ॥ ५८-४७ ॥
मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशारदम् ॥
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ॥ ५८-४८ ॥
स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः ॥
पितुर्नियोगादगमज्जनकं मेथखिलं नृपम् ॥ ५८-४९ ॥
प्रष्टुं धर्मस्य निष्टां वै मोक्षस्य च परायणम् ॥
उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः ॥ ५८-५० ॥
न प्रभावेण गंतव्यमंतरिक्षचरेण वै ॥
आर्जवेनैव गंतव्यं न सुखाय क्षणात्त्वया ॥ ५८-५१ ॥
न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः ॥
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ॥ ५८-५२ ॥
स्थातव्यं वसथे तस्य स ते छेत्स्यति संशयम् ॥
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ॥ ५८-५३ ॥
यथा यथा च ते ब्रूयात्तत्कार्यमविशंकया ॥
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ॥ ५८-५४ ॥
पभ्द्यां शक्तोंतरिक्षेण क्रांतुं भूमिं ससागराम् ॥
सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत् ॥ ५८-५५ ॥
स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः ॥
विदेहान्वै समासाद्य जनकेन समागमत् ॥ ५८-५६ ॥
राजद्वारं समासाद्य द्वारपालैर्निवारितः ॥
तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ॥ ५८-५७ ॥
आतपे ग्लानिरहितो ध्यानयुक्तश्च नारद ॥
तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ॥ ५८-५८ ॥
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥
जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ॥ ५८-५९ ॥
प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥
तत्रांतःपुरसंबद्धं महच्चैत्रग्थोपमम् ॥ ५८-६० ॥
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥
दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ॥ ५८-६१ ॥
श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुंक्त च ॥
सेवायै तस्य भावस्य ज्ञानाय मुनिसतम ॥ ५८-६२ ॥
तं चारुकेश्यः शुश्रेण्यस्तरुण्यः प्रियदर्शनाः ॥
सूक्ष्मरक्तांबरधरास्तप्तकांचनभूषणाः ॥ ५८-६३ ॥
संलापालापकुशाला भावज्ञाः सर्वकोविदाः ॥
परं पंचाशतस्तस्य पाद्यादीनि व्यकल्पयन् ॥ ५८-६४ ॥
देश कालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ॥
तस्य भुक्तवतस्तात तास्ततः पुरकाननम् ॥ ५८-६५ ॥
सुरम्यं दर्शयामासुरेकैकत्वेन नारद ॥
क्रीडंत्यश्च हसंत्यश्च गायंत्यश्चैव ताः शुकम् ॥ ५८-६६ ॥
उदारसत्वं सत्वज्ञास्सर्वाः पर्य्यचरंस्तदा ॥
आरणेयस्तु शुद्धात्मा जितक्रोधो जितेंद्रियः ॥ ५८-६७ ॥
ध्यानस्थ एव सततं न हृष्यति न कुप्यति ॥
पादशौचं तु कृत्वा वै शुकः संध्यामुपास्य च ॥ ५८-६८ ॥
निषसादासने पुण्ये तमेवार्थं व्यचिंतयत् ॥
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ॥ ५८-६९ ॥
मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः ॥
ततः प्रातः समुत्थाय कृत्वा शौचमनंतरम् ॥ ५८-७० ॥
स्त्रीभिः परिवृत्तो धीमान्ध्यानमेवान्वपद्यत ॥
अनेन विधिना तत्र तदहःशेषमप्युत ॥ ५८-७१ ॥
तां च रात्रिं नृपकुले वर्तयामास नारद ॥ ५८-७२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयभागे शुकप्रलोभनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥
 
<poem>
नारद उवाच ।।
अनूचानप्रसंगेन वेदांगान्यखिलानि च ।।
श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः ।। ५८-१ ।।
 
</span></poem>
शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते ।।
सनंदन उवाच ।।
मेरुश्रृङ्गे किल पुरा कर्णिकारवनायते ।। ५८-२ ।।
 
विजहार महोदेवो भौमैभूतगणैवृतः ।।
शैलराजसुता चैव देवी तत्राभवत्पुरा ।। ५८-३ ।।
 
तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ।।
योगेनात्मानमाविश्य योगधर्मपरायणः ।। ५८-४ ।।
 
धारयन्स तपस्तेपे पुत्रार्थं सुनिसंत्तमः ।।
अग्नेर्भूमेस्तथा वायोरंतरिक्षस्य चाभितः ।। ५८-५ ।।
 
वीर्येण संमतः पुत्रो मम भूयादिति स्म ह ।।
संकल्पेनाथ सोऽनेन दुष्प्रापमकगृतात्मभिः ।। ५८-६ ।।
 
वरयामास देवेशमास्थितस्तप उत्तमम् ।।
अतिष्टन्मारुताहारः शतं किल समाः प्रभुः ।। ५८-७ ।।
 
आराधयन्महादेवं बहुरूपमुमापतिम् ।।
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ।। ५८-८ ।।
 
लोकपालाश्च साध्याश्च वसुभिश्चाष्टभिः सह ।।
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ।। ५८-९ ।।
 
विश्वा वसुश्च गंधर्वः सिद्धाश्चाप्सरासांगणाः ।।
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ।। ५८-१० ।।
 
धारयानः स्रजं भाति शारदीव निशाकरः ।।
तस्निन् दिव्ये वने रम्ये देवदेवर्षिसंकुले ।। ५८-११ ।।
 
आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः ।।
न चास्य हीयते वर्णो न ग्लानिरुपजायते ।। ५८-१२ ।।
 
त्रयाणामपिलोकानां तदद्भुतमिवाभवत् ।।
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ।। ५८-१३ ।।
 
प्रज्वलंत्यः स्म दृश्यंते युक्तस्यामिततेजसः ।।
एवं विधेन तपसा तस्य भक्त्या च नारद ।। ५८-१४ ।।
 
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ।।
उवाच चैनं भगवांस्त्र्यंबकः प्रहसन्निव ।। ५८-१५ ।।
 
यथा ह्यग्नियथा वायुर्यथा भूमिर्यथा जलम् ।।
यथा खे च तथा शुद्धो भविष्यति सुतस्तंव ।। ५८-१६ ।।
 
तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः ।।
तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ।। ५८-१७ ।।
 
एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः ।।
अरणिं त्वथ संगृह्य ममंथाग्निचिकीर्षया ।। ५८-१८ ।।
 
अथ रूपं परं विप्र बिभ्रतीं स्वेन तेजसा ।।
घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः ।। ५८-१९ ।।
 
स तामप्सरसं दृष्ट्वा सहसा काममोहितः ।।
अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर ।। ५८-२० ।।
 
सा तु कृत्वा तदा व्यासं कामसंविग्नमानसम् ।।
शुकीभूया महारम्या घृताची समुपागमत् ।। ५८-२१ ।।
 
स तामप्सरसं दृष्ट्वा रूपेणान्येनसंवृताम् ।।
स्मरराजेनानुगतः सर्वगात्रातिगेन ह ।। ५८-२२ ।।
 
स तु महता निगृह्णन् हृच्छयं मुनिः ।।
न शशाक नियंतुं तं व्यासः प्रविसृतं मनः ।। ५८-२३ ।।
 
भावित्वाञ्चैव भाव्यस्य घृताच्या वपुषा ।।
हृतम् यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया ।। ५८-२४ ।।
 
अरण्यामेव सहसा तस्य शुक्रमवापतत् ।।
शुक्रे निर्मथ्यमानेऽस्यां शुको जज्ञे महातपाः ।। ५८-२५ ।।
 
परमर्षिर्महायोगी अरणीगर्भसंभवः ।।
यथैव हि समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ।। ५८-२६ ।।
 
तथा रूपः शुको जज्ञे प्रज्वलन्निव तेजसा ।।
बिभ्रञ्चित्रं च विप्रेंद्र रूपवर्णमनुत्तमम् ।। ५८-२७ ।।
 
तं गंगां सरितां श्रेष्ठां मेरुपृष्ठे स्वरूपिणीम् ।।
अभ्येत्य स्नापयामास वारिणा स्वेन नारद ।। ५८-२८ ।।
 
कृष्णाजिनं चांतरिक्षाच्छुकार्थे भुव्यवापतत् ।।
जगीयंत च गंधर्वा ननृतुञ्चाप्सरोगणाः ।। ५८-२९ ।।
 
देवदुन्दुभयश्चैव प्रावाद्यंत महास्वनाः ।।
विश्वावसुश्च गंधर्वस्तथा तुंबुरुनारदौ ।। ५८-३० ।।
 
हाहाहूहूश्च गंधर्वौ तुष्टुवुः शुकसंभवम् ।।
तत्र शक्रपुरोगाश्च लोकपालाः समागताः ।। ५८-३१ ।।
 
देवा देवर्षथयश्चटैव तथा ब्रह्मर्षयोऽपि च ।।
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ।। ५८-३२ ।।
 
जंगमं स्थावरं चैव प्रहृष्टमभवज्जगत् ।।
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ।। ५८-३३ ।।
 
जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ।।
तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम् ।। ५८-३४ ।।
 
ददौ कमंडलुं प्रीत्या देवा वासांसि चाभितः ।।
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ।। ५८-३५ ।।
 
प्रदक्षिणमवर्तंत शुकाश्चाषाश्च नारद ।।
आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ।। ५८-३६ ।।
 
तत्रैवोवास मेधावी व्रतचारी समाहितः ।।
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ।। ५८-३७ ।।
 
उपतस्थुर्मुनिश्रेष्टं यथास्य पितरं तथा ।।
बृहस्पतिं स वव्रे च वेदवेदांगभाष्यवित् ।। ५८-३८ ।।
 
उपाध्यायं द्विजश्रेष्ट धर्ममेवानुचिंतयन् ।।
सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् ।। ५८-३९ ।।
 
इतिहासं च कार्त्स्न्येन वेदशास्त्राणि चाभितः ।।
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ।। ५८-४० ।।
 
उग्रं तपः समारेभे ब्रह्मचारी समाहिताः ।।
देवतानामृषीणां च बाल्येऽपि सुमहातपाः ।। ५८-४१ ।।
 
संमत्रणीयो जन्यश्च ज्ञानेन तपसा तथा ।।
न त्वस्य रमते बुद्धिराश्रमेषु मुनीश्वर ।। ५८-४२ ।।
 
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ।।
स मोक्षमनुचिंत्यैव शुकः पितरमभ्यगात् ।। ५८-४३ ।।
 
प्राहाभिवाद्य च तदा श्रेयोऽर्थी विनयान्वितः ।।
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे ।। ५८-४४ ।।
 
यथैव मनसः शांतिः परमा संभवेन्मुने ।।
श्रृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ।। ५८-४५ ।।
 
अधीष्व मोक्षशास्त्रं वै धर्मांश्च विविधानपि ।।
पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ।। ५८-४६ ।।
 
योगशास्त्रं च निखिलं कापिलं चैव नारद ।।
शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ।। ५८-४७ ।।
 
मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशारदम् ।।
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ।। ५८-४८ ।।
 
स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः ।।
पितुर्नियोगादगमज्जनकं मेथखिलं नृपम् ।। ५८-४९ ।।
 
प्रष्टुं धर्मस्य निष्टां वै मोक्षस्य च परायणम् ।।
उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः ।। ५८-५० ।।
 
न प्रभावेण गंतव्यमंतरिक्षचरेण वै ।।
आर्जवेनैव गंतव्यं न सुखाय क्षणात्त्वया ।। ५८-५१ ।।
 
न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः ।।
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ।। ५८-५२ ।।
 
स्थातव्यं वसथे तस्य स ते छेत्स्यति संशयम् ।।
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ।। ५८-५३ ।।
 
यथा यथा च ते ब्रूयात्तत्कार्यमविशंकया ।।
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ।। ५८-५४ ।।
 
पभ्द्यां शक्तोंतरिक्षेण क्रांतुं भूमिं ससागराम् ।।
सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत् ।। ५८-५५ ।।
 
स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः ।।
विदेहान्वै समासाद्य जनकेन समागमत् ।। ५८-५६ ।।
 
राजद्वारं समासाद्य द्वारपालैर्निवारितः ।।
तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ।। ५८-५७ ।।
 
आतपे ग्लानिरहितो ध्यानयुक्तश्च नारद ।।
तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ।। ५८-५८ ।।
 
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ।।
जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ।। ५८-५९ ।।
 
प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ।।
तत्रांतःपुरसंबद्धं महच्चैत्रग्थोपमम् ।। ५८-६० ।।
 
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ।।
दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ।। ५८-६१ ।।
 
श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुंक्त च ।।
सेवायै तस्य भावस्य ज्ञानाय मुनिसतम ।। ५८-६२ ।।
 
तं चारुकेश्यः शुश्रेण्यस्तरुण्यः प्रियदर्शनाः ।।
सूक्ष्मरक्तांबरधरास्तप्तकांचनभूषणाः ।। ५८-६३ ।।
 
संलापालापकुशाला भावज्ञाः सर्वकोविदाः ।।
परं पंचाशतस्तस्य पाद्यादीनि व्यकल्पयन् ।। ५८-६४ ।।
 
देश कालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ।।
तस्य भुक्तवतस्तात तास्ततः पुरकाननम् ।। ५८-६५ ।।
 
सुरम्यं दर्शयामासुरेकैकत्वेन नारद ।।
क्रीडंत्यश्च हसंत्यश्च गायंत्यश्चैव ताः शुकम् ।। ५८-६६ ।।
 
उदारसत्वं सत्वज्ञास्सर्वाः पर्य्यचरंस्तदा ।।
आरणेयस्तु शुद्धात्मा जितक्रोधो जितेंद्रियः ।। ५८-६७ ।।
 
ध्यानस्थ एव सततं न हृष्यति न कुप्यति ।।
पादशौचं तु कृत्वा वै शुकः संध्यामुपास्य च ।। ५८-६८ ।।
 
निषसादासने पुण्ये तमेवार्थं व्यचिंतयत् ।।
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ।। ५८-६९ ।।
 
मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः ।।
ततः प्रातः समुत्थाय कृत्वा शौचमनंतरम् ।। ५८-७० ।।
 
स्त्रीभिः परिवृत्तो धीमान्ध्यानमेवान्वपद्यत ।।
अनेन विधिना तत्र तदहःशेषमप्युत ।। ५८-७१ ।।
 
तां च रात्रिं नृपकुले वर्तयामास नारद ।। ५८-७२ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयभागे शुकप्रलोभनं नामाष्टपञ्चाशत्तमोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]
३८,५२४

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/235136" इत्यस्माद् प्रतिप्राप्तम्