"ऋग्वेदः सूक्तं १०.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१२:
{{टिप्पणी|
जनिष्ठा उग्रः सहसे तुरायेति सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। - ऐ.ब्रा. [https://sa.wikisource.org/s/w1d ३.१९]
 
१०.७३.१ जनिष्ठा उग्रः सहसे इति
 
द्र. [http://puranastudy.freeoda.com/pur_index3/pva9.htm उग्रोपरि पौराणिकसंदर्भाः]
 
[http://puranastudy.freeoda.com/pur_index3/ugra1.htm उग्रोपरि टिप्पणी]
 
[http://puranastudy.freeoda.com/pur_index3/ugrasena.htm उग्रसेनोपरि टिप्पणी]
 
यथा उग्रशब्दस्य टिप्पण्यां उल्लेखमस्ति, दीक्षाग्रहणं उग्रस्थित्यां, क्षत्रियस्य स्थित्यां सम्पन्नं भवति। दीक्षाप्राप्त्यनन्तरं श्रद्धासम्पादनं अपेक्षितं भवति। उग्रावस्थाग्रहणात्पूर्वं शवावस्थायाः प्राप्तिः अपेक्षितं अस्ति, अयं प्रतीयते। शतपथब्राह्मणे([https://sa.wikisource.org/s/ep8 १३.५.४.३] ) अश्वमेधस्य संदर्भे भीमसेन, उग्रसेन एवं श्रुतसेनसंज्ञकानां अश्वमेधकर्तृणां उल्लेखमस्ति। ऋग्वेदे [[ऋग्वेदः सूक्तं १.११|१.११.२]] उल्लेखमस्ति - मा भेम शवसस्पते। भीमावस्थायां शवस्य स्थित्याः प्राप्तिः अपेक्षितं भवति। अन्यशब्देषु, इन्द्रियाणां संवर्तनम्। भीमावस्था आकाशमहाभूतान्तर्गता अस्ति, उग्रा वायुमहाभूते। अतएव, अयं समाधितः व्युत्थानं प्रतीयते।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७३" इत्यस्माद् प्रतिप्राप्तम्