"ऋग्वेदः सूक्तं ४.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
‘ आ यात्विन्द्रः' इत्येकादशर्चमेकादशं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ यातु ' इत्यनुक्रान्तम् । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहन्येतन्निविद्धानीयम् । सूत्रितं च- आ यात्विन्द्रोऽवस इति मरुत्वतीयम्' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1byi ७..१८]) इति ।।
 
 
पङ्क्तिः २०६:
पूर्वं व्याख्याता ॥
}}
 
 
== ==
{{टिप्पणी|
यथा सायणाचार्येण उल्लिखितं अस्ति, आश्वलायनश्रौतसूत्रे ([https://sa.wikisource.org/s/1byi ७.५.१८]) अस्य सूक्तस्य विनियोगः आभिप्लविकषडहस्य प्रथमे अह्नि मरुत्वतीये शस्त्रे अस्ति। षडहस्य प्रथमेऽह्नि येषां मन्त्राणां विनियोगं करणीयः अस्ति, तेषां लक्षणानां उल्लेखं ऐतरेयब्राह्मणे ([https://sa.wikisource.org/s/w1e ४.२९]) अस्ति - यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाणि। अस्य कथनानुसारेण येषु मन्त्रेषु एति(आगमनम्) अस्ति, यथा वर्तमानसूक्ते आ यातु इन्द्रो अवसे उप नः इति, तेषां मन्त्राणां विनियोजनं प्रथमेऽह्नि करणीयमस्ति। प्रथमस्याह्नः भौतिकचित्रं भागवतपुराणस्य प्रथमे स्कन्धे उपलब्धमस्ति, अयं प्रतीयते। प्रथमस्कन्धे परीक्षितः शृङ्गीऋषितः मृत्युरूपं शापं प्राप्नोति। परीक्षितशब्दस्य तात्पर्यं परि - क्षितः, परितः क्षिप्तानि वृत्तयः अस्ति। तेषां वृत्तीनां संवरणं प्रथमस्याह्नः कार्यमस्ति। तदोपरि परीक्षितः शुकदेवतः भागवतपुराणस्य श्रवणं करोति। अयं आ-यातु अस्ति। शुक्लयजुर्वेदे ([https://sa.wikisource.org/s/1zbv २०.४७]) आ या्त्विन्द्रो अवसे उप नः इति मन्त्रस्य विनियोगं सौत्रामणीयागे अस्ति। पारस्करगृह्यसूत्रे ([https://sa.wikisource.org/s/19wn २.१६]) अस्य मन्त्रस्य विनियोगः आश्विन्पौर्णामास्यां दधिमधुघृतमिश्रणस्य अवेक्षणे अस्ति -- आश्वयुज्यां पृषातकाः १। पायसमैन्द्रं श्रपयित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्या अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति २। प्राशनान्ते दधिपृषातकमञ्जलिना जुहोति ऊनंमे पूर्यतां पूर्णंमे मा व्यगात्स्वाहेति ३। दधिमधुघृतमिश्रममात्या अवेक्षन्त आयात्विन्द्र इत्यनुवाकेन ४। मातृभिर्वत्सान्संसृज्य तां रात्रिमाग्रहायणीं च ५। ततो ब्राह्मणभोजनम् ६ । आश्विन् पौर्णमास्याः यानि कृत्यानि सन्ति, ते लोके इदानीमपि प्रचलिताः सन्ति - सुरायाः सन्धानम्(घेवरमिष्टान्नरूपेण), रक्षासूत्रबन्धनम्, नवीनयज्ञोपवीतधारणम्, कोकिलव्रतस्य(कौकिलसौत्रामण्याः) उद्यापनम् इत्यादि। अतएव, पारस्करगृह्यसूत्रस्य विनियोगः प्रस्तुतसूक्तस्य भौतिकचित्रस्य सर्जने अधिकं उपयोगी भवितुं शक्यते। अत्र पृषदाज्यस्य अर्थं शंकायुक्तस्य श्रद्धया कर्तुं शक्यमस्ति। दधि - मधु - घृत एते त्रयः वैदिकवाङ्मये अन्नाद्यानि सन्ति - अन्नेषु श्रेष्ठतमाः। यथा श्रद्धायाः रूपं भविष्यति, तदनुसारेणैव अन्नस्य रूपं भविष्यति।
}}
 
 
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२१" इत्यस्माद् प्रतिप्राप्तम्