"ऋग्वेदः सूक्तं ४.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २१०:
== ==
{{टिप्पणी|
यथा सायणाचार्येण उल्लिखितं अस्ति, आश्वलायनश्रौतसूत्रे ([https://sa.wikisource.org/s/1byi ७.५.१८]) अस्य सूक्तस्य विनियोगः आभिप्लविकषडहस्य(द्र. [http://puranastudy.angelfire.com/pur_index2/abhiplava.htm अभिप्लवोपरि] संदर्भाः) प्रथमे अह्नि मरुत्वतीये शस्त्रे अस्ति। षडहस्य प्रथमेऽह्नि येषां मन्त्राणां विनियोगं करणीयः अस्ति, तेषां लक्षणानां उल्लेखं ऐतरेयब्राह्मणे ([https://sa.wikisource.org/s/w1e ४.२९]) अस्ति - यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाणि। अस्य कथनानुसारेण येषु मन्त्रेषु एति(आगमनम्) अस्ति, यथा वर्तमानसूक्ते आ यातु इन्द्रो अवसे उप नः इति, तेषां मन्त्राणां विनियोजनं प्रथमेऽह्नि करणीयमस्ति। ओंकारस्य त्र्यक्षराणां मध्ये प्रथमं अक्षरं अ अस्ति यस्य देवता ब्रह्मा अस्ति। अस्य उद्देश्यं भौतिकद्रव्येषु यत्किंचित् ऊनं अस्ति, तस्य पूर्तिः, आदानं अस्ति। प्रथमस्याह्नः भौतिकचित्रं भागवतपुराणस्य प्रथमे स्कन्धे उपलब्धमस्ति, अयं प्रतीयते। प्रथमस्कन्धे परीक्षितः शृङ्गीऋषितः मृत्युरूपं शापं प्राप्नोति। परीक्षितशब्दस्य तात्पर्यं परि - क्षितः, परितः क्षिप्तानि वृत्तयः अस्ति। तेषां वृत्तीनां संवरणं प्रथमस्याह्नः कार्यमस्ति। तदोपरि परीक्षितः शुकदेवतः भागवतपुराणस्य श्रवणं करोति। अयं आ-यातु अस्ति। शुक्लयजुर्वेदे ([https://sa.wikisource.org/s/1zbv २०.४७]) आ या्त्विन्द्रो अवसे उप नः इति मन्त्रस्य विनियोगं सौत्रामणीयागे अस्ति। पारस्करगृह्यसूत्रे ([https://sa.wikisource.org/s/19wn २.१६]) अस्य मन्त्रस्य विनियोगः आश्विन्पौर्णामास्यां दधिमधुघृतमिश्रणस्य अवेक्षणे अस्ति -- आश्वयुज्यां पृषातकाः १। पायसमैन्द्रं श्रपयित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्या अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति २। प्राशनान्ते दधिपृषातकमञ्जलिना जुहोति ऊनंमे पूर्यतां पूर्णंमे मा व्यगात्स्वाहेति ३। दधिमधुघृतमिश्रममात्या अवेक्षन्त आयात्विन्द्र इत्यनुवाकेन ४। मातृभिर्वत्सान्संसृज्य तां रात्रिमाग्रहायणीं च ५। ततो ब्राह्मणभोजनम् ६ । आश्विन् पौर्णमास्याः यानि कृत्यानि सन्ति, ते लोके इदानीमपि प्रचलिताः सन्ति - सुरायाः सन्धानम्(घेवरमिष्टान्नरूपेण), रक्षासूत्रबन्धनम्, नवीनयज्ञोपवीतधारणम्, कोकिलव्रतस्य(कौकिलसौत्रामण्याः) उद्यापनम् इत्यादि। अतएव, पारस्करगृह्यसूत्रस्य विनियोगः प्रस्तुतसूक्तस्य भौतिकचित्रस्य सर्जने अधिकं उपयोगी भवितुं शक्यते। अत्र पृषदाज्यस्य अर्थं शंकायुक्तस्य श्रद्धया कर्तुं शक्यमस्ति। दधि - मधु - घृत एते त्रयः वैदिकवाङ्मये अन्नाद्यानि सन्ति - अन्नेषु श्रेष्ठतमाः। यथा श्रद्धायाः रूपं भविष्यति, तदनुसारेणैव अन्नस्य रूपं भविष्यति।
 
अभिप्लवषडहस्य द्वितीयमहः ([[ऋग्वेदः सूक्तं ३.३२|ऋ. ३.३२]])
 
अभिप्लवषडहस्य तृतीयमहः ([[ऋग्वेदः सूक्तं ५.२९|ऋ. ५.२९]])
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२१" इत्यस्माद् प्रतिप्राप्तम्