"ऋग्वेदः सूक्तं १०.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५८:
{{टिप्पणी|
तद्यच्चतुर्थमहर्न्यूङ्खयन्त्यन्नमेव तत्प्रजनयन्त्यन्नाद्यस्य प्रजात्यै तस्माच्चतुर्थमहर्जातवद्भवति ....यदयं लोकोऽभ्युदितो यज्जातवद्यद्धववद्यच्छुक्रवद्यद्वाचो रूपं यद्वैमदं यद्विरिफितं यद्विच्छन्दा यदूनातिरिक्तं यद्वैराजं यदानुष्टुभं यत्करिष्यद्यत्प्रथमस्याह्नो रूपमेतानि वै चतुर्थस्याह्नो रूपाण्याग्निं न स्ववृक्तिभिरिति चतुर्थस्याह्न आज्यं भवति वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपम - ऐ.ब्रा. [https://sa.wikisource.org/s/w1f ५.४]
 
१०.२१.१ आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे । य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥१
 
ऋग्वेदे सुवृक्तिभिः शब्दः बहुप्रयुक्तशब्देषु अस्ति। ओव्रश्चू छेदने। पापानां छेदनम्। कानि पापानि सन्ति येषां छेदनस्य अपेक्षा भवति। सुवृक्तिभिः। किमेतानि सुवृक्तयः कुठाराः सन्ति, न ज्ञायते। पृथिव्योपरि पापानां छेदनं दमेन भवति (ऋ. [[ऋग्वेदः सूक्तं ३.३|३.३.९]])। रजनीशमहोदयस्य कथनमस्ति- दमस्य आवश्यकता नास्ति। स्व. डा. फतहसिंहः कथयति स्म यत् वैदिकवाङ्मये शब्दानां रूपः एकवचने अस्ति, द्विवचने अथवा बहुवचने, अयं शब्दस्य अर्थे रूपान्तरणं करोति। प्रस्तुतसंदर्भे सुवृक्तिभिः अथवा स्ववृक्तिभिः शब्दः बहुवचनात्मकः अस्ति। ऋग्वेदः [[ऋग्वेदः सूक्तं २.३५|२.३५.१५]] मध्ये एकवचनस्य सुवृक्तेः कथनमस्ति - अयांसं अग्ने सुऽक्षितिं जनाय अयांसं ऊं इति मघवत्ऽभ्यः सुऽवृक्तिं । अत्र सुवृक्तिः अथवा पापछेदकः परशुः ऊं अस्ति।
 
ऋग्वेदे एकः अन्यः बहुप्रयुक्त शब्दः वृक्तबर्हिषः अस्ति। सायणाचार्येण वृक्तबर्हिषः शब्दस्य परिभाषा छिन्नमूलस्य बर्हिरूपेण कृतमस्ति। छिन्नमूलस्य बर्हिषः आस्तरणोपरि देवाः विराजमाना भवन्ति। अन्यदृष्ट्या वृक्तबर्हिशब्दस्य परिभाषा बर्हिषः इति बहिर्वृत्तयः कर्तुं शक्यन्ते। यदा बहिर्वृत्तीनां छेदनं भविष्यति, तदैव देवाः विराजमानाः भविष्यन्ति। बहिर्वृत्तीनां छेदनस्य आवश्यकता साधनायाः आरम्भकाले भवति। यदा साधना परिपक्वा भवति, तदा बहिर्वृत्तीनां विस्तारस्य अपेक्षा अस्ति। अनेन कारणेन प्रस्तुता ऋचा कथयति - य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ।
 
यदा बर्हिषः स्तीर्णनं भविष्यति, तदा मदस्य, आनन्दस्य अपि जननं भविष्यति। यावत् बर्हिषः छेदनस्य निर्देशं अस्ति, तावत् साधना शुष्का भवति। एकः [https://sa.wikisource.org/s/1zh7 और्ध्वसद्मनम्] संज्ञकः सामः अस्ति यस्य निधनं अनेन प्रकारेण भवति - सुवृक्तिभिर्नृमादनंभरेऽ२षुवाऽ१। जैमिनीयब्राह्मण [https://sa.wikisource.org/s/ehu १.२१८] मध्ये कथनमस्ति - सुवृक्तिभिः इति वा अयं लोकः नृमादनम् इत्य् अन्तरिक्षं भरेष्व् आ इत्य् असौ।
 
[http://puraana.tripod.com/pur_index30/suvrikti.htm सुवृक्ति उपरि संदर्भाः]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२१" इत्यस्माद् प्रतिप्राप्तम्