"अग्निपुराणम्/अध्यायः २४८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===पुष्पादिपूजाफलम्===
<poem>
अग्निरुवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्य्येषु सिद्धिदः ।
मालती मल्लिका यूथी पाटला करवीरकं ।। २४८.१ ।।
 
पावन्तिरतिमुक्तश्च१ कर्णिकारः कुरण्टकः ।
कुब्जकस्तगरो नीपो वाणो वर्वपमल्लिका ।। २४८.२ ।।
 
अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।
विल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ।। २४८.३ ।।
 
तुलसीकालतुलसीपत्रं वासकमर्च्चने ।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ।। २४८.४ ।।
 
नार्क्कन्नोन्मत्तकङ्गाञ्ची पूजने गिरिमल्लिका ।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ।। २४८.५ ।।
 
घृतप्रस्थेन विष्णोश्च स्नानङ्गो कोटिसत्‌फलं ।
आढकेन तु राजा स्यात् घृतक्षीरैर्द्दिवं व्रजेत् ।। २४८.६ ।।
 
इत्यादिमहापुराणे आग्नेये पुष्पादिपूजाफलं नाम अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२४८" इत्यस्माद् प्रतिप्राप्तम्