"जैमिनीयं ब्राह्मणम्/काण्डम् १/०५१-०६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 200%">दीर्घसत्त्रं ह वा एत उपयन्ति ये ऽग्निहोत्रं जुह्वति। एतद् ध वै सत्त्रं जरामूरीयम्। जरया वा ह्य् एवास्मान् मुच्यते मृत्युना वा॥
| title = जैमिनीयं ब्राह्मणम्/काण्डम् १|काण्डम् १]]
| author =
| translator =
| section = कण्डिका ०५१-०६०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०४१-०५०|कण्डिका ४१-५०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०६१-०७०|कण्डिका ६१-७०]]
| notes =
}}<poem><span style="font-size: 14pt; line-height: 200%">दीर्घसत्त्रं ह वा एत उपयन्ति ये ऽग्निहोत्रं जुह्वति। एतद् ध वै सत्त्रं जरामूरीयम्। जरया वा ह्य् एवास्मान् मुच्यते मृत्युना वा॥
 
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निं जुह्वतो ऽग्नीन् अन्तरेण युक्तं वा वियायात् सं वा चरेयुः किं तत्र कर्म का प्रायश्चित्तिर् इति। वज्रो वै चक्रः। वज्रो वा एतस्याग्नीन् अन्वति यस्यान्तरेण युक्तं वा वियाति सं वा चरन्ति। कुर्वीत हैव निष्कृतिम् अपि हेष्ट्या यजेत। तद् उ तथा न विद्यात्। इमान् वा एष लोकान् अनुवितनुते यो ऽग्नीन् आधत्ते।