"अग्निपुराणम्/अध्यायः ३३२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===विषमकथनम्===
<poem>
अग्निरुवाच
वृत्तं समञ्चार्द्धसमं विषमञ्च त्रिधा वदे ।
समन्तावत् कृत्वकृतमर्द्धसमञ्च कारयेत् ।। ३३२.१ ।।
 
पिषमञ्चैव वास्यूनमतिवृत्तं समान्यपि ।
ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं ।। ३३२.२ ।।
 
पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथमास्मृतौ ।
बाल्यमुश्चतुर्थाद्वर्णात् पथ्या वर्णं युजेयतः ।। ३३२.३ ।।
 
विपरीतपथ्यान्या साच्चपला वा युजस्वनः ।
विपुलायुग्नसप्तमः सर्व्वं तस्यैव तस्य च ।। ३३२.४ ।।
 
तौन्तौ वा विपुलानेका चक्रजातिः समीरिता ।
भवेन् पदचतुरूद्‌र्ध्वं चतुर्वृद्ध्या पदेषु च ।। ३३२.५ ।।
 
गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः ।
प्रथमस्य विपर्य्यासे मञ्जरी लवणी क्रमात् ।। ३३२.६ ।।
 
भवेदमृतधाराख्या उद्धताद्य्चयतेऽधुना ।
एकतः ससजसानः स्युर्न सौ जो गोऽथ भौनजौ ।। ३३२.७ ।।
 
नोगोऽथ सजसा गोगस्तृतीयचरणस्य च ।
सौरभे केचनभगा ललितञ्च नमौ जसौ ।। ३३२.८ ।।
 
उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ ।
गोगथां मलजा रोगः समो नगरजयाः पदे ।। ३३२.९ ।।
 
वर्द्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता ।
शुद्धविराड़ार्षभाख्यं वक्ष्ये चार्द्धसमन्ततः ।। ३३२.१० ।।
 
इत्यादिमहापुराणे आग्नेये विषमकथनं नाम द्वात्रिंशदधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३३२" इत्यस्माद् प्रतिप्राप्तम्