"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७३५:
अग्निष्टोमादर्वाचीनानां यज्ञानामग्निष्टोमप्राप्तिः ३.४०
पाकयज्ञानां सप्तत्वादिवर्णनम् ३.४०
दीक्षणीयेष्टिगतेडोपह्वानसादृश्येन पाकयज्ञानामग्निष्टोमप्राप्तिः
अग्निहोत्रस्य अग्निष्टोमप्राप्तिः
अग्निष्टोमगतप्रायणीयेष्टिसादृश्येन दर्शपूर्णमासयोरग्निष्टोमप्राप्तिः
अग्निष्टोमगतसोमद्वारा सर्वेषामौषधीनामग्निष्टोमप्राप्ति
अग्निष्टोमगतातिथ्यकर्मद्वारा चातुर्मास्ययागानामग्निष्टोमप्राप्तिः
प्रवर्ग्यसाम्येन दाक्षायणयज्ञस्याग्निष्टोमप्राप्तिः
पशुद्रव्यसाम्यात् पशुबन्धानामग्निष्टोमप्राप्तिः
दधिघर्मव्यवहारसाम्यादिडादधयज्ञस्याग्निष्टोमप्राप्तिः
उक्थ्यक्रतोरग्निष्टोमप्रवेशप्रदर्शनाय उक्थ्यक्रतुवर्णनम् ३.४१
अतिरात्राप्तोर्यामयोः क्रत्वोरग्निष्टोमप्रवेशप्रदर्शनाय तयोर्वर्णनम्
अग्निष्टोमात् प्राचीनानां यज्ञानां पराचीनानां क्रतूनाञ्चोल्लेखः
षोडशिचमसानां तत्पर्यायाणाञ्च वर्णनम्
षोडशिस्तोत्रसामस्यावृत्त्यैकविंशस्तोमसम्पादनम्
अग्निष्टोमे सर्वयज्ञक्रतूनामन्तर्भावस्योपसंहारः
अग्निष्टोमीयस्तोत्रियर्च्चा नवत्यधिकशतसङ्ख्यापरिगणनम्
अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्याकानाम् ऋचामेकविंशतिसङ्ख्या-
. कांस्त्रिवृत्स्तोमान् परिकल्प्य तस्याद्वित्यसाम्यादग्निष्टोमप्रशंसा
अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्यानाम् ऋचामेकविंशतिसङ्ख्याकां-
स्त्रिवृत्स्तोमान् परिकल्प्य गवामयनसत्रसाम्यादग्निष्टोमप्रशंसा
एकेनाग्निष्टोमानुष्ठानेनैव सर्वयज्ञक्रतुफलावाप्तिवेदनप्रशंसा
आख्यायिका-अग्निष्टोमस्य चतुष्टोमत्वेन प्रशंसार्था ३.४२
तत्र त्रिवृत्स्तोमस्तोत्रस्य प्रशंसादि
पञ्चदशस्तोमस्तोत्रस्य प्रशंसादि
सप्तदशस्तोमस्तोत्रस्य प्रशंसादि
एकविंशस्तोमस्तोत्रस्य प्रशंसादि
अग्निष्टोमस्य त्रिवृदादिस्तोमचतुष्टयसाध्यत्वेन प्रशंसाया उपसंहारः
अग्निष्टोमप्रयोगे त्रिष्टुबादीनां चतुर्णां स्तोमानां समुच्चयविधिः
अग्निष्टोमस्य अनुष्ठातृवेदित्रोस्तुल्यफलाधिकारित्वेन स्तुतिः
अग्निष्टोम- चतुष्टोम -ज्योतिष्टोम- नाम्नां निर्वचनानि ३.४३
अग्निष्टोमस्याद्यन्तराहित्येन प्रशंसा
यज्ञगाथा- अग्निष्टोमस्य आद्यन्ततुल्यत्त्वज्ञापिका
अग्निष्टोमस्य आद्यन्ततुल्यत्वे विचारः
अग्निष्टोमस्य साह्नत्वेनादित्यसाम्यात् स्तुतिः ३.४४
अनुष्ठाने त्वरायानिषेधः
त्रिषु सवनेषु शस्त्रस्योत्तरोत्तरध्वन्याधिक्यविधिः
सूर्यस्योदयास्तमयाभावात् तृतीयसवनेऽपि त्वरानिषेधसिद्धिः
सूर्यस्योदयास्तमयव्यवहारनिदानम्
सूर्यस्योदयास्तमयाभावज्ञानप्रशंसा
 
तृतीयपञ्चिकायाः पञ्चमोऽध्यायः
आख्यायिका-दीक्षणीयेष्टिसंस्थाख्यापनार्था ३.४५
दीक्षणीयेष्टेः पत्नीसंयाजान्तत्वतिरूपणम्
प्रायणीयेष्टेः शंयुवाकान्तत्वनिरूपणम्
आतिथ्येष्टेः इडान्तत्वनिरूपणम
उपसदिष्टिषु अनुष्ठेयविशेषप्रदर्शनम्
अग्नीषोमीयपशावनुष्ठेयविशेषप्रदर्शनम्
दीक्षणीयादीष्टिषु होतुरनुवचनस्य मन्द्रस्वरविधिः
अग्नीषोमीयपशौ होतुरनुवचनस्य यथेच्छस्वरविधिः
ज्योतिष्टोमस्याम्नादिप्राप्त्युपायभूतत्वाख्यानम्
तत्र ब्राह्मणानामेवार्त्विज्यविधानम्
ब्राह्मणेन छन्दोभिश्च सयुग् भूत्वा यज्ञसम्पादनम्
जग्ध-गीर्ण-वान्त-तुल्यार्त्विज्यकारिब्राह्मणानामधिकारनिषेधः ३.४६
ब्राह्मणानां जग्धतुल्यार्त्विज्यनिरूपणम्
गीर्णतुल्यार्त्विज्यनिरूपणम्
वान्ततुल्यार्त्विज्यनिरूपणम्
ज्योतिष्टोमानुष्ठाने प्रमादकृतस्य स्वल्पार्त्विज्यदोषस्य परिहाराय
कर्मान्ते वामदेव्यसामगानरूपप्रायश्चित्तविधिः
प्रायश्चित्तार्थगेये वामदेव्यनामस्तोत्रियसाम्नि त्रेधा विभज्य तत्र ''पुरुषः''
-इतिशब्दस्य प्रक्षेपप्रकारोपदेशः
देविकानामपञ्चहविषां निर्वपनविधिः ३.४७
गायत्रं त्रैष्टुभं जागतमानुष्टुभमनु अन्यानि छन्दांसि
विद्वतप्रसिद्ध्या छन्दसां प्रशंसा
देविकानां पञ्चहविःषु पौर्वापर्यविचारः
तत्र बहूनां जायानामेकपतिकत्वमिति दृष्टान्तोपन्यासः
देवीदेवताकानां पञ्चहविषां निर्वपनविधि। ३.४८
गतश्रीणां परिगणनम् (श्रुतवान्, ग्रामणीः, राजन्यः)
देविकानाम्नां देवीनाम्नां च हविषां विकल्पेन प्रयोगविधिः
प्रजाकामस्य समुच्चयविधिः
धनकामस्य समुच्चयविधिः
समुच्चयफल दृष्टान्तोल्लेखः
आख्यायिका-उक्थ्यक्रतोर्विधानार्था ३.४९
एह्यू षु ब्रवाणि-इत्यृगाम्नानबीजकथनम्
प्रसङ्गतो भरद्वाजस्य ऋषेः स्वरूपवर्णनम्
साकमश्वनामसाम्नः नामनिर्वचनम्
उक्थस्तोत्रनिष्पादकत्वम्
प्रमंहिष्ठीयनामसाम्ना उक्थस्तोत्रप्रणयनम्
उक्थशस्त्रेषु प्रथमचमसगणे मैत्रावरुणस्य शस्त्रसूक्तविधिः ३.५०
द्वितीयचमसगणे ब्राह्मणाच्छंसिनः शस्त्रसूक्तविधिः
तृतीयचमसगणे अच्छावाकस्य शस्त्रसूक्तविधिः
सूक्तानां द्विदेवताकत्वेन प्रशंसा
उक्थ्यक्रतौ पोतुर्नेष्टुश्च ऋतुयाज-प्रस्थितयाज्यामन्त्राणां विधिः
 
चतुर्थपञ्चिकायाः प्रथमोऽध्यायः
आख्यायिका-षोळशिक्रतुविधानार्था ४.१
षोळशिशस्त्रस्य वज्रस्वरूपत्वेन प्रशंसा
शंसनकालनिरूपणम्
विहृताविहृतरूपाभ्यां द्वैविध्यम्
द्वयोः ऋचोर्विहृतपाठप्रकारः
प्रश्नोत्तराभ्यां षोळशिशब्दस्य निर्वचनम्
षोळशिशस्त्रीयानामृचां द्व्यक्षराधिक्येन षोडशिनः प्रशंसा
षोळशीतिनाम्नो निदानकथनम्
षोळशिशस्त्रार्थवेदितुः सत्यानृतावनुकूलाविति फलम्
गौरिवीतस्य साम्नः षोळशिसामत्वविधानम् ४.२
नानदस्य साम्नश्च षोळशिसामत्वविधानम्
गौरिवीतसामपक्षे षोळशिशस्त्रस्य विहृतपाठविधिः
नानदसामपक्षे षोळशिशस्त्रस्याविहृतपाठविधिः
षोळशिशस्त्रे गायत्रीपङ्क्त्योर्विहरणप्रकारोपदेशः ४.३
उष्णिग्बृहत्योर्विहरणप्रकारोपदेशः
द्विपदात्रिष्टुभोर्विहरणप्रकारोपदेशः
द्विपदाजगत्योर्विहरणप्रकारोपदेशः
अतिच्छन्दोनामनिर्वचनम्, तद्विधिश्च
महानाम्नीनामुपसर्गाणामुपसर्जनप्रकारोपदेशः ४.४
महानाम्नीनाम् ऋचां लोक त्रयसाम्येन प्रशंसा
विहरणनैरपेक्ष्येणाध्यापकैः प्रज्ञातानां नवानामनुष्टुभां विधिः
पुरुषविशेषमुपजीव्य विहृताविहृतयोः शस्त्रविशेषयोर्व्यवस्था
षोळशिशस्त्रस्य परिधानीयाया विधिः.
याज्यायाः ऋचो विधानं व्याख्या च
याज्याया ऋचः पादेषूपसर्गविधिः
आख्यायिका-अतिरात्रक्रतुविधानार्था ४.५
छन्दसामिन्द्रसहकारित्वप्रदर्शनम्
इन्द्रच्छन्दसामसुरनिराकरणत्वाख्यानम्
असुरनिराकरणे छन्दसां सौकर्याधिक्येन प्रशंसा
छन्दसामपिशर्वरनामव्यवहारस्य हेतुकथनम्
अतिरात्रक्रतौ षोडशिशस्त्रादूर्ध्वं त्रयो रात्रिपर्यायाः शंसनीयाः ४.६
रात्रिपर्यायेषु प्रथमपर्याये होतुः शस्त्रम्
त्रिष्वेव पर्यायेषु शस्त्रयाज्यायाविधिः
प्रथमपर्याये प्रयोगविशेषविधिः
द्वितीयपर्याये
तृतीयपर्याये
अतिरात्रक्रतौ पवमानस्तोत्रत्रयस्य रात्रौ प्रयोगाभावः, तत्प्रयोगाभावात् अह्नो रात्रेश्च समानभागयुक्तत्वं कथमिति प्रश्नः
रात्रेरपि प्रकारान्तरेण पवमानस्तोत्रत्रयविशिष्टत्वमित्युत्तरम्
पञ्चदशस्तोत्रोपेतमहर्भवति, न तथा रात्रिः तथा च अहश्च रात्रिश्चेत्येते समानभागयुक्ते कथमिति प्रश्नः
रात्रेरपि प्रकारान्तरेण पञ्चदशस्तोत्रत्वमिति समाधानम्
अपिशर्वराणि स्तोत्राणि द्वादश
रथन्तरसाम्ना निष्पाद्यस्य सन्धिस्तोत्रस्य त्रिधात्वम्
शस्त्रबाहुल्यस्य प्रशंसा, पुनः प्रशंसा च
चतुर्थपञ्चिकायाः द्वितीयोऽध्यायः
आख्यायिका-आश्विनशस्त्रविधानार्था ४.७
आश्विनशस्त्रीयर्चां सहस्रस्याश्विनसहस्रमिति पुरातनं नाम
आश्विनशस्त्रस्य शंसनस्येतिकर्त्तव्यताविधानम्
शंसने उपस्थानस्य लक्षणविधाने प्रतिपदो विधि।
प्रतिपद्विधौ विचारः
आग्नेयं काण्डम् ४.८
उषस्यं काण्डम्
ऐन्द्रं काण्डम्..
आश्विनं काण्डम्
आश्विनत्ववर्णनाय प्रश्नोत्तरे
आख्यायिका-आश्विनशस्त्रस्य प्रशंसार्था ४.९
अश्वतरीरथेनाग्नेः आजिधावनम्
अरुणैर्गोभिरुषसः आजिधावनम्
अश्वरथेनेन्द्रस्य आजिधावनम्
गर्दभरथेन आश्विनोराजिधावनम्
सौर्याणां मन्त्रसमूहानां सङ्ख्याविधानाय विचारः
त्रयाणां छन्दसां प्रारम्भनिर्णयाय विचारः
ऐन्द्रादिप्रगाथानां विधानाय प्रस्तावः ४.१०
तत्र सूर्यमतिलङ्घ्य शंसननिषेधः
आश्विनशस्त्रे ऐन्द्रप्रगाथस्य शंसनविधिः
रथन्तरयोनिप्रगाथस्य शंसनविधिः
मैत्रावरुणप्रगाथस्य शंसनविधिः
आश्विनशस्त्रस्य चितैधमुक्थमिति नामव्यवहारः
ब्राह्मणस्य परिधानीयायाविधिः ४.११
प्रजापशुकामस्य परिधानीयायाविधिः
आश्विनशस्त्रस्य तेजोब्रह्मवर्च्चसकामस्य परिधानीयाविधिः
वेदनपूर्वकानुष्ठानस्य नानाविधाप्रशंसा
याज्याद्वयविधानम्, तयोः प्रशंसा च
ब्राह्मणस्पत्यायाः बृहत्याश्च सूर्यानतिक्रमहेतुप्रदर्शनम्
चतुःसंस्थस्य ज्योतिष्टोमस्य होत्रविधिसमापनम् ६१७
 
</span></poem>