"अग्निपुराणम्/अध्यायः ३६०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===स्वर्गपातालादिवर्गाः===
<poem>
अग्निरुवाच
स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते ।
स्वः स्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं ।। ३६०.१ ।।
 
देवा वृन्दारका लेखा रुद्राद्या गणदेवताः ।
विद्याधरोऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।। ३६०.२ ।।
 
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ।
देवद्विषोऽसुरा दैत्याः सुगतः स्यात्तथागतः ।। ३६०.३ ।।
 
ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर्न्नारायणो हरिः ।
रेवतीशो हली रामः कामः परञ्चशरः स्मरः ।। ३६०.४ ।।
 
लक्ष्मीः पद्मालया पद्मा सर्व्वः सर्व्वेश्वरः शिवः ।
कपर्दोऽस्य जटाजूटः पिनाकोऽजगबन्धनुः ।। ३६०.५ ।।
 
प्रमथाः स्युः पारिषदा मृड़ानी चण्डिकाऽम्बिका ।
द्वैमातुरो गजास्यश्च सेनानीरग्निभूर्गुहः ।। ३६०.६ ।।
 
आखण्डलः सुनासीरः सुत्रामाणो दिवस्पतिः ।
पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा ।। ३६०.७ ।।
 
स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः ।
ऐशवतेऽभ्रमातह्गैरावणाभ्रमुवल्लभाः ।। ३६०.८ ।।
 
ह्रादिनी वज्रमस्त्री स्यात् कुलिशम्भिदुरं पविः ।
व्योमयानं विमानोऽस्त्री पीयूषममृतं सुधा ।। ३६०.९ ।।
 
स्यात् सुधर्म्मा देवसभा स्वर्गङ्गा सुरदीर्घिका ।
स्त्रियां बहुष्वप्सरसः स्वर्व्वेश्या उर्व्वशीमुखाः ।। ३६०.१० ।।
 
हाहा ह्हूस्च गन्धर्व्वा अग्निर्वग्निर्धनञ्चयः ।
जातवेदाः कृष्णवर्त्मा आश्रयाशश्च पावकः ।। ३६०.११ ।।
 
हिरण्यरेताः सप्तार्च्चिः शुक्रश्चैवाशुशुक्षणिः ।
शुचिरप्‌पित्तमोर्व्वस्तु वाडबो वडवानलः ।। ३६०.१२ ।।
 
वह्नेर्द्वयोर्ज्वालकीलावर्च्चितिः शिखा स्त्रियां ।
त्रिषु स्फुलिङ्गोऽग्रिकणो धर्म्मराजः परेतराट् ।। ३६०.१३ ।।
 
कालोऽन्तको दण्डधरः श्राद्धेदेवोऽथ राक्षसः ।
कौणपास्रपक्रव्यादा यातुधानश्च नैर्ऋतिः ।। ३६०.१४ ।।
 
प्रचेता वरूणः पाशी स्वसनः स्पर्शनोऽनिलः ।
सदागतिर्मातरिश्वा प्राणो मरुत् समीरणः ।। ३६०.१५ ।।
 
जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् ।
सत्वरं चपलं सूर्णमविलम्बितमाशु च ।। ३६०.१६ ।।
 
सततेऽनारताश्रान्तसन्तताविरतानिशं ।
नित्यानवलरताजस्रमप्यथातिशयो भरः ।। ३६०.१७ ।।
 
अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ।
तीव्रैकान्तनितान्तानि गाढवाढदृढानि च ।। ३६०.१८ ।।
 
गुह्यकेशो यक्षराजो राजराजो धनाधिपः ।
स्यात् किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः ।। ३६०.१९ ।।
 
निधिर्न्ना शेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् ।
द्योदिवौ चान्तरीक्षं खं काष्ठाशाककुभो दिशः ।। ३६०.२० ।।
 
अभ्यन्तरन्त्वन्तरालञ्चक्रवाड़न्तु मण्डलं ।
तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः ।। ३६०.२१ ।।
 
कादम्बिनी मेधमाला स्तनितं गर्जितं तथा ।
शम्पाशतह्नदाह्नादिन्यैरावत्यः क्षणप्रभाः ।। ३६०.२२ ।।
 
तडित्सौदामिनी विद्युच्चञ्चला चपलाऽपि च ।
स्फूर्जथुर्व्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः ।। ३६०.२३ ।।
 
धारा सम्पात् आशारः शीकरोऽम्बुकणाः स्मृताः ।
वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्द्दिनं ।। ३६०.२४ ।।
 
अन्तर्धा व्यवधा पुंसि त्वन्तर्द्धिंरपवारणं ।
अपिधानतिरोधानपिधानच्छनानि च ।। ३६०.२५ ।।
 
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ।
विधुः कुमुदवन्धुश्च विम्बोऽस्त्री मण्डलं त्रिषु ।। ३६०.२६ ।।
 
कला तु षोडशो भागो भित्तं शकलखण्डके ।
चन्द्रिका कौमुदी ज्योत्स्त्रा प्रसादस्तु प्रसन्नता ।। ३६०.२७ ।।
 
लक्ष्णं लक्ष्मकं चिह्नं शोभा कान्तिद्यु तिश्छविः ।
सुषमा परमा शोभा तुषारस्तुहिनं हिमं ।। ३६०.२८ ।।
 
अवश्यायस्तु नीहारः प्रालेयः शिशिरो हिमः ।
नक्षत्रमृक्षं भन्तारा तारकाप्युडु वा स्त्रियां ।। ३६०.२९ ।।
 
गुरुर्जीव आङ्गिरस उशना भार्गवः कविः ।
विधुन्तुदस्तमो राहुर्ल्लग्नं राश्युदयः स्मृतः ।। ३६०.३० ।।
 
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।
इरिदश्वव्रध्नपूषद्युमणिर्म्मिहिरो रविः ।। ३६०.३१ ।।
 
परिवेषस्तु परिधिरुपसूर्य्यकमण्डले ।
किरणोऽस्नमयूखांशुगभस्तिघृणिधूष्णयः ।। ३६०.३२ ।।
 
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां ।
स्युः प्रभा रुग्रुचिस्त्विड्‌भाभाश्छविद्युतिदीप्तयः ।। ३६०.३३ ।।
 
रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः ।
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।। ३६०.३४ ।।
 
तिग्मं तीक्ष्णं खरं तद्वद्‌दिष्टोऽनेहा च कालकः ।
घस्रो दिनाहनी चैध सायंसन्ध्या पितृप्रसूः ।। ३६०.३५ ।।
 
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि ।
प्राह्वापराद्वमध्याह्णास्त्रिसन्ध्यमथ शर्व्वरी ।। ३६०.३६ ।।
 
यामी तमी तमिस्रा च ज्यौत्स्नी चन्द्रिकयान्विता ।
आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी ।। ३६०.३७ ।।
 
अर्द्धरात्रानिशीथौ द्वौ प्रदोषो रजनीमुखं ।
स पर्व्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।। ३६०.३८ ।।
 
पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ।
कलाहिने सानुमतिः पूर्णे राका निशाकरे ।। ३६०.३९ ।।
 
अमावास्या त्वमावस्या दर्शः सूर्य्येन्दुसङ्गमः ।
सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला हुहूः ।। ३६०.४० ।।
 
संवर्त्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ।
कलुषं वृजिनैनो।़घमंहोदुरितदुष्कृतम् ।। ३६०.४१ ।।
 
स्याद्धर्म्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।
मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ।। ३६०.४२ ।।
 
स्यादानन्दथुरानन्दः शर्म्मशातसुखानि च ।
श्वाश्रेयसं शिवं भद्रं कल्याणं मड्गलं शुभम् ।। ३६०.४३ ।।
 
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियां ।
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्व्विधिः ।। ३६०.४४ ।।
 
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियां ।
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्व्विधिः ।। ३६०.४५ ।।
 
चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसम्मनः ।
बुद्धिर्म्मनीषा विषणा धीः प्रज्ञा शेमुषी मतिः ।। ३६०.४६ ।।
 
प्रेक्षोपलब्धिश्चित्सम्बित्प्रतिपज्ज्ञप्तिचेतनाः ।
धीर्धारणावती मेधा सङ्कल्पः कर्म्म मानसं ।। ३६०.४७ ।।
 
सङ्‌ख्या विचारणा चर्च्चा विचिकित्सा तु संशयः ।
अध्याहारस्तर्क्क ऊहः समौ निर्णयनिश्चयौ ।। ३६०.४८ ।।
 
मिथ्यादृष्टिर्नाम्तिकता भ्रान्तिर्म्मिथ्यामतिर्भ्रमः ।
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ।। ३६०.४९ ।।
 
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
मुक्तिः कैवल्यनिर्व्वाणश्रेयोनिः श्रेयसामृतं ।। ३६०.५० ।।
 
मोक्षोऽपवर्गोथाज्ञानमविद्याहम्मतिः स्त्रियां ।
विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।। ३६०.५१ ।.
 
आमोदः सोऽतिनिर्हारी सुरभिर्घ्राणतर्पणः ।
शुक्लशुभ्रशुचिश्येतविशदश्वेतपाण्डराः ।। ३६०.५२ ।।
 
अवदातः सितो गौरो बलक्षो धवलोऽर्ज्जुनः ।
हरिणाः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ।। ३६०.५३ ।।
 
कृष्णे नीलासितश्यामकालश्यामलमेचकाः ।
पीतो गौरो हरिद्राभः पालाशो परितो हरित् ।। ३६०.५४ ।।
 
रोहितो लोहितो रक्तः शोणः कोकनदच्छविः ।
अचव्यक्तरागस्त्वरुमः श्वेतरक्तस्तु पाटलः ।। ३६०.५५ ।।
 
श्यावः स्यातकपिशो धूम्रधूमलौ कृष्णलोहिते ।
क्कड़ारः कपिलः पिड्गपिशङ्गौ कद्रुपिङ्गलौ ।। ३६०.५६ ।।
 
चित्रं विर्म्मीरकल्माषशवलैताश्च कर्व्वुरे ।
व्याहार उक्तिर्लपितमपभ्रंशोऽपशब्दकः ।। ३६०.५७ ।।
 
तिङ्‌सुवन्तवयो वाक्यं क्रिया वा कारकान्विता ।
इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणं ।। ३६०.५८ ।।
 
आख्यातिकोपलब्धार्था प्रबन्धः कल्पना कथा ।
समाहारः संग्रहस्तु प्रवह्लिका प्रहेलिका ।। ३६०.५९ ।।
 
समस्या तु समासार्था स्मृतिस्तु धर्म्मसंहिता ।
आख्याह्वे चाभिधानञ्च वार्त्ता वृत्तान्त ईरितः ।। ३६०.६० ।।
 
हूतिराकारणाह्वानमुपन्यासस्तु वाङ्‌मुखं ।
विवादो व्यवहारः स्यात् प्रतिवाक्योत्तरे समे ।। ३६०.६१ ।।
 
उपोद्घात उदाहारो ह्यथ मिथ्याभिसंशनम् ।
अभिशापो यशः कीर्त्तिः प्रश्नः पृच्छानुयोगकः ।। ३६०.६२ ।।
 
आम्रेडितं द्विस्त्रिरुक्तं कुत्सानिन्दे च गर्हणे ।
स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ।। ३६०.६३ ।।
 
अनुलापो मुहुर्भाषा विलापः परिदेवनं ।
विप्रलापो विरोधोक्तिः संलापो भापणं मिथः ।। ३६०.६४ ।।
 
सुप्रलापः सुवचनमपलापस्तु निह्नवः ।
उषती वागकल्याणी सङ्गतं हृदयङ्गमं ।। ३६०.६५ ।।
 
अत्यर्थमधुरं सान्त्वमबद्धं स्यादनर्थकं ।
निष्ठुराश्लीलपरुषं ग्राम्यं वै सूनृतं प्रिये ।। ३६०.६६ ।।
 
सत्यं तथ्यमृतं सम्यङ्नादनिस्वाननिस्वनाः ।
आरवारावसंरावविरावा अथ मर्म्मरः ।। ३६०.६७ ।।
 
स्वनिते वस्त्रपर्णानां भूषणानान्तु शिञ्जितं ।
वीणाया निक्कणः क्काणः तिरश्चां वाशितं रुतं ।। ३६०.६८ ।।
 
कोलाहलः कलकलो गीतं गानमिमे समे ।
स्त्री प्रतिश्रुत् प्रतिध्वाने तन्त्रीकण्ठान्निसादकः ।। ३६०.६९ ।।
 
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।
कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ।। ३६०.७० ।।
 
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी ।
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ।। ३६०.७१ ।।
 
ततं वीणादिकं वाद्यमानद्धं मुरजादिकं ।
वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनं ।। ३६०.७२ ।।
 
चतुर्व्विधमिदं वाद्यं वादित्राताद्यनामकं ।
मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योऽर्द्धकास्त्रयः ।। ३६०.७३ ।।
 
स्याद्यशःपटहो ढक्का भेर्य्यामानकदुन्दुभिः ।
आनकः भेदा झर्झरीडिण्डिमादयः ।। ३६०.७४ ।।
 
मर्द्दलः पणवस्तुल्यौ क्रियामानन्तु तालकः ।
लयः साम्यं ताण्डवन्तु नाट्यं लास्यञ्च नर्त्तनं ।। ३६०.७५ ।।
 
तौर्य्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ।
राजा भट्टारको देवः साभिषेका च देव्यपि ।। ३६०.७६ ।।
 
श्रृङ्गरवीरकरुणाद्भुतहास्यभयानकाः ।
वीभत्सरौद्रे च रसाः श्रृङ्गारः शुचिरुज्ज्वलः ।। ३६०.७७ ।।
 
उत्साहवर्द्धनो वीरः कारुण्यं करुणा घृणा ।
कृपा दया चानुकम्पाऽप्यनुक्रोशोऽप्यथो हसः ।। ३६०. ७८ ।।
 
हासो हास्यञ्च बीभत्सं विकृतं त्रिष्विदं द्वयं ।
विस्मयोऽद्भुतमाश्चर्य्यं चित्रमप्यथ भैरवं ।। ३६०.७९ ।।
 
दारुणं भीषणं भीष्मं घोरं भीमं भयानकं ।
भयङ्करं प्रतिभयं रौद्रस्तुग्रममी त्रिषु ।। ३६०.८० ।।
 
चतुर्द्दश दरत्रासौ भीतिर्भीः साध्वसम्भयं ।
विकारो मानसो भावोऽनुभावो भावबोधनः ।। ३६०.८१ ।।
 
गर्व्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः ।
अनादरः परिभवः परिभावस्तिरस्क्रिया ।। ३६०.८२ ।।
 
व्रीडा लज्जा त्रपा ह्राः स्यादभिध्यानं धने स्पृहा ।
कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलं ।। ३६०.८३ ।।
 
स्त्रीणं विलासविव्वोकविभ्रमा ललितन्तथा ।
हेला लीलेत्यमी हावाः क्रियाः श्रृङ्गारभावजाः ।। ३६०.८४ ।।
 
द्रवकेलिपरीहासाः क्रोड़ा लीला च कूर्द्दनं ।
स्यादाच्छुरितकं हासः सोत्प्रासः समनाक्‌स्मितं ।। ३६०.८५ ।।
 
अधोभुवनपातालं च्छिद्रं श्वभ्रं वपा शुषिः ।
गर्त्तावटौ भुवि श्वभ्रे तमिशन्तिमिरं तमः ।। ३६०.८६ ।।
 
सर्पः पृदाकुर्भुजगो दन्दशूकों विलेशयः ।
विषं क्ष्वेडश्च गरलं निरयो दुर्गतिः स्त्रियां ।। ३६०.८७ ।।
 
पयः कीलालममृतमुदकं भुवनं वनं ।
भङ्गस्तरङ्गु ऊर्म्मिर्व्वा कल्लोलोल्लोलकौ च तौ ।। ३६०.८८ ।।
 
पृषन्तिविन्दुपृषताः कूलं रोधश्च तीरकं ।
तोयोत्थितं तत् पुलिनं जम्बालं पङ्ककर्दमौ ।। ३६०.८९ ।।
 
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।
आतरस्तरपण्यं स्याद्‌द्रोणी काष्ठाम्बुवाहिनी ।। ३६०.९० ।।
 
कलुषश्चाविलोऽच्छस्तु प्रसन्नोऽथ गभीरकं ।
अगाधं दासकैवर्त्तौ शम्बूका जलशुक्तयः ।। ३६०.९१ ।।
 
सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं ।
स्यादुत्‌पलं कुवलयं सिते कुमुदकैरवे ।। ३६०.९२ ।।
 
शालूकमेषां कन्दः स्यात् पद्मं तामरसङ्कजं ।
नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम् ।। ३६०.९३ ।।
 
करहाटः शिफा कन्दं किञ्चल्कः केशरोऽस्त्रियां ।
खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्व्वताः ।। ३६०.९४ ।।
 
उपत्यकाद्रेरासन्ना भूमिरूद्‌र्ध्वमधित्यका ।
स्वर्गपातालवर्गाद्या उक्ता नानार्खकान् श्रृणु ।। ३६०.९५ ।।
 
इत्यादिमहापुराणे आग्नेये स्वर्गपातालवर्गा नाम षष्ट्यधिकत्रिशततमोऽध्यायः ॥
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३६०" इत्यस्माद् प्रतिप्राप्तम्