"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०९:
 
[https://vedastudy.wixsite.com/puranastudy/jaatved जातवेदा उपरि संक्षिप्त टिप्पणी एवं वैदिकसंदर्भाः]
 
षष्ठमहः - वैश्वदेवशस्त्रम्, आग्निमारुतशस्त्रम्-- इमम् स्तोमम् अर्हते जात वेदस इति जातवेदसीयम् । तस्य तद् एव अन्त रूपम् यत् सोदर्कम् । मा रिषाम मा रिषाम इति । तद् अन्ततो अरिष्ट्यै रूपम् । - कौ.ब्रा. [https://sa.wikisource.org/s/1891 २३.८]
 
इमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपम् – ऐ.ब्रा. [https://sa.wikisource.org/s/w1c ६.१२.१२]
 
षष्ठे अहनि प्रथममाज्यस्तोत्रम् - इमं स्तोममर्हते जातवेदस" इत्याग्नेयमाज्यं भवति सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन् – तांब्रा. [https://sa.wikisource.org/s/tvy १३.८.१]
 
इमं स्तोमम् अर्हते जातवेदसे इत्य् आग्नीध्रो यजति रथम् इव सं महेमा मनीषया इति बहूनि वाह तद् ऋभूणां रूपम् – गो.ब्रा. [https://sa.wikisource.org/s/ixm २.२.२२]
 
अग्न्यन्वाधानप्रकरणम् -- प्राग्नये वाचमिमं स्तोममिति चोपस्थानं सूक्ताभ्याम् – शांश्रौसू. [https://sa.wikisource.org/s/148x ४.२.१०]
 
ज्योतिष्टोमे तृतीयसवने प्रस्थितयाज्याप्रकरणम् -- इमं स्तोममित्याग्नीध्रः शांश्रौसू. [https://sa.wikisource.org/s/1494 ८.२.११]
 
दशरात्रे षष्ठमहः -- इमं स्तोममित्याग्निमारुते शां.श्रौ.सू. [https://sa.wikisource.org/s/1496 १०.८.१५]
 
उपनयनम् -- इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्यैधोस्येधिषीमहीति समिधमादधाति – मानवगृह्यसूत्रम् [https://sa.wikisource.org/s/t6p १.१.१६]
 
दर्भाणां पवित्रे मन्त्रवदुत्पाद्येमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बर्हिःस्तृणाति मानव गृह्यसूत्रम् [https://sa.wikisource.org/s/t6p १.१०.२]
 
इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बर्हिस्तृणाति मानवगृह्यसूत्रम् [https://sa.wikisource.org/s/t6p २.२.५]
 
 
पौण्डरीकयागे यज्ञसारथिगानाय यस्य सामस्य भवान् गानं करिष्यसि, तस्मिन् संदर्भे पौण्डरीकयागस्य स्वरूपं ध्यातव्यं अस्ति। कथनमस्ति यत् पौण्डरीकयागे गजस्य आलभनं भवति, यथा अश्वमेधे अश्वस्य। नायं आलभनं भौतिकरूपेण भवति। गजस्य प्रकृतिः शुण्डद्वारा जलस्य आकर्षणस्य भवति, यथा सूर्यः स्वकिरणेभ्यः जलस्य आकर्षणं करोति। एवमेव, अस्मिन् जगति, यः सर्वश्रेष्ठमस्ति, तस्य आकर्षणम्।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९४" इत्यस्माद् प्रतिप्राप्तम्