"ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
654
 
देवा वै प्रथमेनाह्नेन्द्राय वज्रं समभरंस्तं द्वितीयेनाह्नासिञ्चंस्तं तृतीयेनाह्ना प्रायच्छंस्तं चतुर्थेऽहन्प्राहरत्तस्माच्चतुर्थेऽहन्षोळशिनं शंसति वज्रो वा एष यत्षोळशी तद्यच्चतुर्थेऽहन्षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै वज्रो वै षोळशी पशव उक्थानि तम्परस्तादुक्थानाम्पर्यस्य शंसति तं यत्परस्तादुक्थानाम्पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून्परिगच्छति तस्मात्पशवो वज्रेणैव षोळशिना परिगता मनुष्यानभ्युपावर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेत एव वाचाभिषिद्ध उपावर्तते वज्रमेव षोळशिनम्पश्यन्वज्रेणैव षोळशिना परिगतो वाग्घि वज्रो वाक् षोळशी तदाहुः किं षोळशिनः षोळशित्वमिति षोळशः स्तोत्राणां षोळशः शस्त्राणां षोळशभिरक्षरैरादत्ते षोळशिभिः प्रणौति षोळशपदां निविदं दधाति तत्षोळशिनः षोळशित्वं द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसम्पन्नस्य वाचो वाव तौ स्तनौ सत्यानृते वाव ते। अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद॥4.1॥
 
 
659
 
गौरिवीतं षोळशि साम कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरिवीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गौरिवीतं षोळशिसाम कुरुते नानदं षोळशि साम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयच्छत्तमस्मै प्राहरत्तमभ्यहनत्सोऽभिहतो व्यनदद्यद्व्यनदत्तन्नानदं सामाभवत्तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्भ्रातृव्यहा साम यन्नानदमभ्रातृव्यो भ्रातृव्यहा भवति य एवं विद्वान्नानदं षोळशि साम कुरुते तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्यो ऽविहृतासु हि तासु स्तुवते यदि गौरिवीतं विहृतः षोळशी शंस्तव्यो विहृतासु हि तासु स्तुवते॥4.2॥
 
 
664
 
अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैत्या धूर्षु अस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप्पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वे-षाम्पशुनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपन्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्प-शुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति तस्मात्पुरुषः पशुषु प्रतिष्ठितोऽत्ति चै-नानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवा-शिरम्प्रो ष्वस्मै पुरोरथमित्यतिछन्दसः शंसति छन्दसां वै यो रसोऽत्य-क्षरत्सोऽतिछन्दसमभ्यत्यक्षरत्तदतिछन्दसोऽतिछन्दस्त्वं सर्वेभ्यो वा एष छ-न्दोभ्यः संनिर्मितो यत्षोळशी तद्यदतिछन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.3॥
 
 
669
 
महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोलशी तद्यन्महानाम्नीनामुपसर्गानुपासृजति सर्वेभ्य एवैनं तल्लोकेभ्यः संनिर्मिमीते सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद प्रप्र वस्त्रि-ष्टुभमिषमर्चत प्रार्चत यो व्यतीँरफाणयदिति प्रज्ञाता अनुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानम्पर्यवेयात्तादृतद्यत्प्रज्ञाता अनुष्टुभः शंसति स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृछ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद्विहृतं षोळसिनं शंसयेद्व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलं हन्त्यप पाप्मानं हते य एवं वेदोद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपम्स्वर्गमेव तल्लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रे ति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते सत्रा वृषञ्जठर आ वृषस्वेति वृषण्वद्वै षोळशिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत्षोळशी तद्यन्महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्ये-कादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.4॥
 
 
671
 
अहर्वै देवा अश्रयन्त रात्रीमसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्रात्रीमन्ववेष्याव इति स देवेषु न प्रत्यविन्ददबिभयू रात्रेस्तमसो मृत्योस्तस्माद्धाप्येतर्हि नक्तं यावन्मत्रमि-वैवापक्रम्य बिभेति तम इव हि रात्रिर्मृत्युरिव तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्र श्चैव छन्दांसि च रात्रीं वहन्ति न निवि-च्छस्यते न पुरोरुङ्न धाय्या नान्या देवतेन्द्र श्च ह्येव छन्दांसि च रात्रीं वहन्ति तान्वै पर्यायैरेव पर्यायमनुदन्त यत्पर्यायैः पर्यायमनुदन्त तत्पर्यायाणाम्पर्यायत्वं तान्वै प्रथमेनैव पर्यायेणा पूर्वरात्रादनुदन्त मध्यमेन मध्यरात्रादुत्तमेनापर-रात्रादपि शर्वर्या अनुस्मसीत्यब्रुवन्नपिशर्वराणि खलु वा एतानि छन्दांसीति ह स्माहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिशर्वरत्वम्॥4.5॥
 
 
679
 
पान्तमा वो अन्धस इत्यन्धस्वत्यानुष्टुभा रात्रीम्प्रतिपद्यल आनुष्टुभी वै रात्रिरेतद्रात्रिरूपमन्धस्वत्यः पीतवत्यो मद्वत्यस्त्रिष्टुभो याज्या भवन्त्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्प्रथमेन पर्यायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषामश्वा गाव आसंस्तदेवैषां तेनाददते मध्यमेन पर्यायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषामनोरथा आसंस्तदेवैषां तेनाददत उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यम्मणिरध्यात्ममासीत्तदेवैषां तेनाददत आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद पवमानवदहरित्याहुर्न रात्रिः पवमानवती कथमुभे पवमानवती भवतः केन ते समावद्भाजौ भवत इति यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस्तेन ते समावद्भाजौ भवतः पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा कथमुभे पञ्चदशस्तोत्रे भवतः केन ते समावद्भाजौ भवत इति द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथंतरेण स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे भवतस्तेन ते समावद्भाजौ भवतः परिमितं स्तुवन्त्यपरिमितमनुशंसति परिमितं वै भूतमपरिमितम्भव्यमपरिमितस्यावरुद्ध्या इत्यतिशंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद्यत्स्तोत्रमतिशंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धे वरुन्धे॥4.6॥
Line ३५ ⟶ २४:
तासां वै देवतानामाजिं धावन्तीनामभिसृष्टानामग्निर्मुखं प्रथमः प्रत्यपद्यत तमश्विनावन्वागच्छतां तमब्रूतामपोदिह्यावां वा इदं जेष्याव इति स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादाग्नेयमाश्विने शस्यते। ता उषसमन्वागच्छतां तामब्रूतामपोदिह्यावां वा इदं जेष्याव इति सा तथेत्यब्रवीत्तस्यै वै ममेहाप्यस्त्विति तथेति तस्या अप्यत्राकुरुतां तस्मादुषस्यमाश्विने शस्यते। ताविन्द्रमन्वागच्छतां तमब्रूतामावां वा इदं मघवञ्जेष्याव इति न ह तं दधृषतुरपोदिहीति वक्तुं स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादैन्द्रमाश्विने शस्यते। तदश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद। तदाहुर्यच्छस्यत आग्नेयं शस्यत उषस्यं शस्यत ऐन्द्रमथ कस्मादेतदाश्विनमित्याचक्षत इत्यश्विनौ ह तदुदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामाश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.8॥ (17.2) (129)
 
 
696
 
अश्वतरीरथेनाग्निराजिमधावत्तासाम्प्राजमानो योनिमकूळयत्तस्मात्ता न विजायन्ते गोभिररुणैरुषा आजिमधावत्तस्मादुषस्यागतायामरुणमिवैव प्रभात्युषसो रूपमश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चैर्घोष उपब्दिमान्क्षत्रस्य रूपमैन्द्रो हि स गर्दभरथेनाश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मात्स सृतजवो दुग्धदोहः सर्वेषामेतर्हि वाहनानामनाशिष्ठो रेतसस्त्वस्य वीर्यं नाहरतां तस्मात्स द्विरेता वाजी तदाहुः सप्त सौर्याणि छन्दांसि शंसेद्यथैवाग्नेयं यथोषस्यं यथाश्विनं सप्त व देवलोकाः सर्वेषु देवलोकेषु राध्नोतीति तत्तन्नादृत्यं त्रीण्येव शंसेत्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै तदाहुरुदु त्यं जातवेदसमिति सौर्याणि प्रति-पद्येतेति तत्तन्नादृत्यं यथैव गत्वा काष्ठामपराध्नुयात्तादृक्तत्सूर्यो नो दिव-स्पात्वित्येतेनैव प्रतिपद्येत यथैव गत्वा काष्ठामभिपद्येत तादृक्तदुदु त्यं जातवेदसमिति द्वितीयं शंसति चित्रं देवानामुदगादनीकमिति त्रैष्टुभमसौ वाव चित्रं देवानामुदेति तस्मादेतच्छंसति नमो मित्रस्य वरुणस्य चक्षस इति जागतं तद्वाशीःपदमाशिषमेवैतेना शास्त आत्मने च यजमानाय च॥4.9॥
 
 
701
 
तदाहुः सूर्यो नातिशस्यो बृहती नातिशस्या यत्सूर्यमतिशंसेद्ब्रह्मवर्चसमतिपद्येत यद्बृहतीमतिशंसेत्प्राणानतिपद्येतेतीन्द्र क्रतुं न आ भरेत्यैन्द्रं प्रगाथं शंसति शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यसौ वाव ज्योतिस्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसत्यभि त्वा शूर नोनुम इति राथंतरीं योनिं शंसति राथंतरेण वै संधिनाश्विनाय स्तुवते तद्यद्राथंतरीं योनिं शंसति रथंतरस्यैव सयोनित्वायेशानमस्य जगतः स्वर्दृशमित्यसौ वाव स्वर्दृक्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति बहवः सूरचक्षस इति मैत्रावरुणम्प्रगाथं शंसत्यहर्वै मित्रो रात्रिर्वरुण उभे वा एषोऽहोरात्रे आरभते योऽतिरात्रमुपैति तद्यन्मैत्रावरुणम्प्रगाथं शंसत्यहोरात्रयोरेवैनं तत्प्रतिष्ठापयति सूरचक्षस इति तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवि विश्वशम्भुवेति द्यावापृथिवीये शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीये शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति देवो देवी धर्मणा सूर्यः शुचिरिति तेन सूर्यं नातिशंसति यदु गायत्री च जगती च ते द्वे बृहत्यौ तेन बृहतीं नातिशंसति विश्वस्य देवी मृचयस्य जन्मनो न या रोषाति न ग्रभदिति द्विपदाम्शंसति चितैधमुक्थमिति ह स्म वा एतदाचक्षते यदेतदाश्विनं निर्ऋतिर्ह स्म पाशिन्युपास्ते यदैव होता परिधा-स्यत्यथ पाशान्प्रतिमोक्ष्यामीति ततो वा एताम्बृहस्पतिर्द्विपदामपश्यन्ना य रोषाति न ग्रभदिति तया निर्ऋत्याः पाशिन्या अधराचः पाशानपास्यत्तद्यदेतं द्विपदां होता शंसति निर्ऋत्या एव तत्पाशिन्या अधराचः पासानपास्यति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद मृचयस्य जन्मन इत्यसौ वाव मर्चयतीव तेन सूर्यं नातिशंसति यदु द्विपदा पुरुषछन्दसं सा सर्वाणि च्छन्दांस्यभ्याप्ता तेन बृहतीं नाति शंसति॥4.10॥
 
 
706
 
ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठापयत्येवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामो बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान्वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिदधाति बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्च-सकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसम्भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्मवर्चसम्ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्याद्ब्राह्मणस्पत्या तेन सूर्यं नातिसंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि छन्दांस्यभ्याप्ता तेन बृहतीं नातिशंसति गायत्र्या च त्रिष्टुभा च वषट्कुर्याद्ब्रह्म वै गायत्री वीर्यम्त्रिष्टुब्ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोत्यश्विना वायुना युवं सुदक्षो भा पिबतमश्विनेति गायत्र्या च विराजा च वषट्कुर्याद्ब्रह्म वै गायत्र्यन्नं विराद्ब्रह्मणैव तदन्नाद्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गायत्र्या च विराजा च वषट्करोति तस्मादेवं विद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात्प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम्॥4.11॥
Line ५६ ⟶ ३९:
बृहद्रथंतरे सामनी भवत एते वै यज्ञस्य नावौ संपारिण्यौ यद्बृहद्रथंतरे ताभ्यामेव तत्संवत्सरं तरन्ति। पादौ वै बृहद्रथंतरे शिर एतदहः पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति। पक्षौ वै बृहद्रथंतरे शिर एतदहः पक्षाभ्यामेव तच्छ्रियं शिरोऽभ्यायुवते। ते उभे न समवसृज्ये य उभे समवसृजेयुर्यथैव च्छिन्ना नौर्बन्धनात्तीरं तीरमृच्छन्ती प्लवेतैवमेव ते सत्रिणस्तीरंतीरमृच्छन्तः प्लवेरन्य उभे समवसृजेयुः। तद्यदि रथंतरमवसृजेयुर्बृहतैवोभे अनवसृष्टे अथ यदि बृहदवसृजेयू रथंतरेणैवोभे अनवसृष्टे। यद्वै रथंतरं तद्वैरूप यद्बृहत्तद्वैराजं यद्रथंतरं तच्छाक्वरं यद्बृहत्तद्रैवतमेवमेते उभे अनवसृष्टे भवतः। ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहःशः संवत्सरमाप्त्वाऽर्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च च्छन्दांसि चाऽऽप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथं भक्षयन्तः संवत्सरमभिषुण्वन्त आसते। ये वा अत ऊर्ध्वं संवत्सरमुपयन्ति गुरुं वै ते भारमभिनिदधते स वै गुरुर्भारः शृणात्यथ य एनं परस्तात्कर्मभिराप्त्वाऽवस्तादुपैति स वै स्वस्ति संवत्सरस्य पारमश्नुते॥4.१३॥ (17.7) (134)
 
 
721
 
यद्वै चतुर्विंशं तन्महाव्रतं बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानं बृहद्दिवो निष्केवल्यं भवत्येष ह वा एनं परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रोधनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः। स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद॥4.14॥
 
 
728
ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः स एवैष उत्तरस्त्र्यहो ज्योतिर्गौरायुरिति त्रीण्यहानि गौरायुर्ज्योतिरिति त्रीण्ययं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते तेनैतेनोभयतोज्योतिषा षळहेन यन्ति तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽमुष्मिंश्चोभयोः परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये चत्वारो मध्य उक्थ्यास्तन्नभ्यं गच्छति वै वर्तमानेन यत्र कामयते तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै तद्वेद यत्प्रथमः षळहः स वै स्वस्ति संवत्सरस्य पारमश्नुते यस्तद्वेद यद्द्वितीयो यस्तद्वेद यत्तृतीयो यस्तद्वेद यच्चतुर्थो यस्तद्वेद यत्पञ्चमः॥4.15॥
 
 
733
 
प्रथमं षळहमुपयन्ति षळ् अहानि भवन्ति षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशान्संवत्सरे प्रतितिष्ठन्तो यन्ति द्वितीयं षळहमुपयन्ति द्वादशाहानि भवन्ति द्वादश वै मासा मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति तृतीयं षळहमुपयन्त्यष्टादशाहानि भवन्ति तानि द्वेधा नवान्यानि नवान्यानि नव वै प्राणा नव स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति चतुर्थं षळहमुपयन्ति चतुर्विंशतिरहानि भवन्ति चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमाशशः संवत्सरे प्रतितिष्ठन्तो यन्ति पञ्चमं षळहमुपयन्ति त्रिंशदहानि भवन्ति त्रिंशदक्षरा वै विराड्विराळ् अन्नाद्यं विराजमेव तन्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्याकामाः खलु वै सत्रमासत तद्यद्विराजम्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासिमास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम्॥4.16॥
 
 
738
 
गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेन यन्ति गावो वै सत्रमासत शफाञ्छृङ्गाणि सिषासन्त्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति ता या उदतिष्ठंस्ता एताः शृङ्गिण्योऽथ याः समापयिष्यामः संवत्सरमित्यासत तासा-मश्रद्धया शृङ्गाणि प्रावर्तन्त ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वा-नृतून्प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन्सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः सर्वस्य प्रेमाणं सर्वस्य चारुतां गच्छति य एवं वेदादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः षळहा आक्ष्यन्त्यन्यान्यहानि तदादित्यानामयनम्प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वे पृष्ठ्याः षळहा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनं सा यथा स्रुतिरञ्जसाय-न्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवम्पृष्ठ्यः षळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः कामयोरुपाप्त्यै यश्चाभिप्लवे षळहे यश्च पृष्ठ्ये॥4.17॥
 
 
740
 
एकविंशमेतदहरुपयन्ति विषुवन्तम्मध्ये संवत्सरस्यैतेन वै देवा एकविंशे-नादित्यं स्वार्गय लोकायोदयछन्स एष इत एकविंशस्तस्य दशावस्तादहानि दिवाकीर्त्यस्य भवन्ति दश परस्तान्मध्य एष एकविंश उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठितस्तस्मादेषोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तस्य पराचो-ऽतिपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैः परस्तात्प्रत्यस्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयाः परस्तान्मध्य एष एकविंश उभयतः स्वरसामभिर्धृत उभयतो हि वा एष स्वरसामभिर्धृतस्तस्मादे-षोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोका-दवपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तस्य पराचोऽतिपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैः परस्ता-त्प्रत्यस्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयः परस्तात्ते द्वौद्वौ सम्पद्य त्रयश्चतुस्त्रिण्शा भवन्ति चतुस्त्रिंशो वै स्तोमा-नामुत्तमस्तेषु वा एष एतदध्याहितस्तपति तेषु हि वा एष एतदध्याहितस्तपति स वा एष उत्तरोऽस्मात्सर्वस्माद्भूताद्भविष्यतः सर्वमेवेदमतिरोचते यदिदं
किंचोत्तरो भवति यस्मादुत्तरो बुभूषति तस्मादुत्तरो भवति य एवं वेद ।।4.१८।।
 
 
 
748
 
स्वरसाम्न उपयन्तीमे वै लोकाः स्वरसामान इमान्वै लोकान्स्वरसा-मभिरस्पृण्वंस्तत्स्वरसाम्नां स्वरसामत्वं तद्यत्स्वरसाम्न उपयन्त्येष्वेवैनं तल्लो-केष्वाभजन्ति तेषां वै देवाः सप्तदशानाम्प्रव्लयादबिभयुः समा इव वै स्तोमा अविगूळ्हा इवेमे ह न प्रव्लियेरन्निति तान्सर्वैः स्तोमैरवस्तात्पर्यार्षन्सर्वैः पृष्ठैः परस्तात्तद्यदभिजित्सर्वस्तोमोऽवस्ताद्भवति विश्वजित्सर्वपृष्ठः परस्तात्तत्सप्त-दशानुभयतः पर्यृषन्ति धृत्या अप्रव्लयाय तस्य वै देवा आदित्यस्य स्वर्गा-ल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि महादिवाकीर्त्यं पृष्ठं भवति विकर्णं ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्रथंतरे पवमानयोर्भवतस्तदादित्यम्पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपातायोदित आदित्ये प्रातरनुवाकमनुब्रूयात्सर्वं ह्येवैतदहर्दिवाकीर्त्यम्भवति सौर्यम्पशुम-न्यङश्वेतं सवनियस्योपालम्भ्यमालभेरन्सूर्यदेवत्यं ह्येतदहरेकविंशतिं सामि-धेनीरनुब्रूयात्प्रत्यक्षाद्ध्येतदहरेकविंशमेकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति तावतीरुत्तराः शङ्सति शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति॥4.19॥
 
 
752
 
दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं स्वर्गमेव तल्लोकं रोहति य एवं वेद यदेव दूरोहणम् असौ वै दूरोहो योऽसौ तपति कश्चिद्वा अत्र गच्छति स यद्दूरोहणं रोहत्येतमेव तद्रोहति हंसवत्या रोहति हंसः शुचिषदित्येष वै हंसः शुचिषद्वसुरन्तरिक्षदित्येष वै वसुरन्तरिक्षसद्धोता वेदिषदित्येष वै होता वेदिषदतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसन्नृषदित्येष वै नृषद्वरसदित्येष वै वरसद्वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यृतसदित्येष वै सत्य-सद्व्योमसदित्येष वै व्योमसद्व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यब्जा इत्येष वा अब्जा अद्भ्यो वा एषा प्रातरुदेत्यपः सायम्प्रविशति गोजा इत्येष वै गोजा ऋतजा इत्येष वै सत्यजा अद्रिजा इत्येष वा अद्रिजाः ऋतमित्येष वै सत्यमेष एतानि सर्वाण्येषा ह वा अस्य छन्दस्सु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतं पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्वा सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयं पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँल्लोकान्सद्यस्तरत्यरिष्टनेमिं पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतदिन्द्रस्येव रातिमाजोहुवानाः स्वस्तय इति स्वस्तितामेवाशास्ते नावमिवा रुहेमेति समेवैनमेतदधिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आचपराचमेष्यन्सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततानेति प्रत्यक्षं सूर्य-मभिवदति सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेनाशास्त आत्मने च यजमानेभ्यश्च॥4.20॥</span></poem>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
Line ९६ ⟶ ६५:
आहूय दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं वागाहावो ब्रह्म वै वाक्स यदाह्वयते तद्ब्रह्मणाऽऽहावेन स्वर्गं लोकं रोहति। स पच्छः प्रथमं रोहतीमं तं लोकमाप्नोत्यथार्धर्चशोऽन्तरिक्षं तदाप्नोत्यथ त्रिपद्याऽमुं तं लोकमाप्नोत्यथ केवल्या तदेतस्मिन्प्रतितिष्ठति य एष तपति। त्रिपद्या प्रत्यवरोहति तथा शाखां धारयमाणस्तदमुष्मिँल्लोके प्रतितिष्ठत्यर्धर्चशोऽन्तरिक्षे पच्छोऽस्मिँल्लोक आप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति। अथ य एककामाः स्युः स्वर्गकामाः परा़ञ्चमेव तेषां रोहेत्ते जयेयुर्हैव स्वर्गं लोकम्। नेत्त्वेवास्मिँल्लोके ज्योगिव वसेयुः। मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दांसि पशूनामवरुद्ध्यै॥4.21॥ (18.7) (142)
 
 
762
 
यथा वै पुरुष एवं विषुवांस्तस्य यथा दक्षिणोऽर्ध एवम्पूर्वोऽर्धो विषुवतो यथोत्तरोऽर्ध एवमुत्तरोऽर्धो विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुक्सतः शिर एव विषुवान्बिदलसंहित इव वै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्ष्णो विज्ञायते तदाहुर्विषुवत्येवैतदहः शंसेद्विषुवान्वा एतदुक्थानामुक्थं विषुवान्विषुवानिति ह विषुवन्तो भवन्ति श्रेष्ठतामश्नुवत इति तत्तन्नादृत्यं संवत्सर एव शंसेद्रे तो वा एतत्संवत्सरं दधतो यन्ति यानि वै पुरा संवत्सराद्रे तांसि जायन्ते यानि पञ्चमास्यानि यानि षण्मास्यानि स्रीव्यन्ति वै तानि न वै तैर्भुञ्जतेऽथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते तस्मात्संवत्सर एवैतदहः शंसेत्संवत्सरो ह्येतदहराप्नोति संवत्सरं ह्येतदहराप्नुवन्त्येष ह वै संवत्सरेण पाप्मानमपहतैष विषुवताङ्गेभ्यो हैव मासैःपाप्मानमपहते शीर्ष्णो विषुवतप संवत्सरेण पाप्मानं हलेऽप विषुवत य एवं वेद वैश्वकर्मणमृषभं सवनीयस्योपालम्भ्यमालभेरन्द्विरूपमुभयत एतम्महाव्रतीयेऽहनीन्द्रो वै वृत्रं हत्व विश्वकर्माभवत्प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माभवत्संवत्सरो विश्व-कर्मेन्द्र मेव तदात्मानम्प्रजापतिं संवत्सरं विश्वकर्माणमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संवत्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद य एवं वेद॥4.22॥
 
 
769
 
प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहमप्श्यदात्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद सोऽकामयत कथं नु गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमार्ध्नोत्सर्वामृद्धिमृध्नोति य एवं वेद यो वै गायत्रीं पक्षिणीं चक्षुष्मतीं ज्योतिष्मतीम्भास्वतीं वेद गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद्द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद॥4.23॥
 
 
774
 
त्रयश्च वा एते त्र्यहा आ दशममहरा द्वावतिरात्रौ यद्द्वादशाहो द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते द्वादशाहम्प्रसुतो भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद षट्त्रिंशदहो वा एष यद्द्वादशाहः षट्त्रिंशदक्षरा वै बृहती बृहत्या वा एतदयनं यद्द्वादशाहो बृहत्या वै देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षम्दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठन्प्रतितिष्ठति य एवं वेद तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराण्यथ कस्मादेताम्बृहतीत्याचक्षत इत्येतया हि देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षंशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.24॥
 
 
779
 
प्राजापतियज्ञो वा एष यद्द्वादशाहः प्रजापतिर्वा एतेनाग्रेऽयजत द्वादशाहेन सोऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति तं दीक्षयित्वानपक्रमं गमयित्वाब्रुवन्देहि नु नोऽथ त्वा याजयिष्याम इति तेभ्य इषमूर्जम्प्रायछत्सैषोर्गृतुषु च मासेषु च निहिता ददतं वै ते तमयाजयंस्तस्माद्ददद्याज्यः प्रतिगृह्णन्तो वै ते तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यमुभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य तेऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ते पूर्वपक्षाः पूर्वे दीक्षन्त ते पाप्मानमपाहत तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानोऽपरपक्षा अपरेऽदीक्षन्त ते नतराम्पाप्मानमपाहत तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः-पूर्व एव दिदीक्षिषेता प पाप्मानं हते य एवं वेद स वा अयम्प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत्ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एतेऽन्योन्यस्मिन्प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठादिति ज्येष्वहयज्ञो वा एष यद्द्वादशाहः स वै देवानां ज्येष्ठो य एतेनाग्रेऽयजत श्रेष्ठयज्ञो वा एष यद्द्वादशाहः स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठदितीन्द्राय वै देव ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त सोऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति तमयाजयत्तलो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त तिष्ठन्तेऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेदोर्ध्वो वै प्रथम स्त्र्?यहस्तिर्यङ्मध्यमोऽर्वाङुत्तमः स यदूर्ध्वः प्रथम स्त्र्?यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिग् यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिग् यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाचि ह्येतस्य दिक् सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्?यहाः सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद॥4.25॥
 
 
784
 
दीक्षा वै देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां वासन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां तां वार्षिकाभ्यां तां शारदाभ्यां तां हैमन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां हैमन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्याम्माआभ्यामन्वयुञ्जत तां शैशिराभ्याम्मासाभ्या-माप्नुवन्नाप्नोति यमीप्सति नैनं द्विषन्नाप्नोति य एवं वेद तस्माद्यं सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयोर्मासयोरागतयोर्दीक्षेत साक्षादेव तद्दीक्षायामा-गतायाम्दीक्षते प्रत्यक्षाद्दीक्षाम्परिगृह्णाति तस्मादेतयोरेव शैशिरयोर्मासयो-रागतयोर्ये चैव ग्राम्याः पशवो ये चारण्या अणिमानमेव तत्परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते स पुरस्ताद्दीक्षायाः प्राजापत्यम्पशुमालभते तस्य सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै तस्याप्रियो जामदग्न्यो भवन्ति तदाहुर्यदन्येषु पशुषु यथऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्वरूप एष पशुः सर्वसमृद्धस्तद्यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै तस्य वायव्यः पशुपुरोळाशो भवति तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्माद्वायव्यः पशुपुरोळाशः क्रियत इति प्रजापतिर्वै यज्ञो यज्ञस्यायातया-मताया इति ब्रूयाद्यदु वायव्यस्तेन प्रजापतेर्नैति वायुर्ह्येव प्रजापति-स्तदुक्तमृषिणा पवमानः प्रजापतिरिति सत्रमु चेत्संन्युप्याग्नीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुर्वसन्तमभ्युदवस्यत्यूर्ग्वै वसन्त इषमेव तदूर्जमभ्युदवस्यति॥4.26॥
 
 
789
 
छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन्गायत्री त्रिष्टुभश्च जगत्यै चायतनमभ्यध्यायत्त्रिष्टुब्गायत्र्यै च जगत्यै च जगती गायत्र्यै च त्रिष्टुभश्च ततो वा एतं प्रजापतिर्व्यूळ्हछन्दसं द्वादशाहमपश्यत्तमाहरत्तेनायजत तेन स सर्वान्कामांश्छन्दांस्यगमयत्सर्वान्कामान्गच्छति य एवं वेद छन्दांसि व्यूहत्ययातयामतायै छन्दांस्येव व्यूहति तद्यथादोऽश्वैर्वानळुद्भिर्वान्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं यान्त्येवमेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं स्वर्गं लोकं यन्ति यच्छन्दांसि व्यूहतीमौ वै लोकौ सहास्तां तौ व्यैतां नावर्षन्न समतपत्ते पञ्चजना न समजानत तौ देवाः समनयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां रथंतरेणैवेयममूं जिन्वति बृहतासाविमां नौधसेनैवेयममूं जिन्वति श्यैतेनासाविमां धूमेनैवेयममूं जिन्वति वृष्ट्यासाविमां देवयजनमेवेयममुष्यामदधात्पशूनसावस्यामेतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्रमसि कृष्णमिव तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्त ऊषानसावस्यां तद्धापि तुरः कावषेय उवाचोषः पोषो जनमेजयकेति तस्माद्धाप्येतर्हि गव्यं मीमांसमानाः पृच्छन्ति सन्ति तत्रोषाः इति ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्तत ततो वै द्यावापृथिवी अभवतां न द्यावान्तरिक्षान्नान्तरिक्षाद्भूमिः॥4.27॥
Line १२९ ⟶ ८६:
बृहच्च वा इदमग्रे रथंतरं चाऽऽस्तां वाक्च वै तन्मनश्चाऽऽस्तां वाग्वै रथंतरं मनो बृहत्तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्रथंतरं गर्भमधत्त तद्वैरूपमसृजत। ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत। ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त तच्छाक्वरमसृजत। तानि त्रीणि भूत्वा रथंतरं च वैरूपं च शाक्वरं च बृहच् वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रैवतमसृजत। तानि त्रीण्यन्यानि त्रीण्यन्यानि षड्पृष्ठान्यासन्। तानि ह तर्हि त्रीणि च्छन्दांसि षट्पृष्ठानि नोदाप्नुवन्सा गायत्री गर्भमधत्त साऽनुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त साऽतिच्छन्दसमसृजत तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्यासन्षट्पृष्ठानि तानि तथाऽकल्पन्त कल्पते यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च कलृप्तिं विद्वान्दीक्षते दीक्षते॥4.28॥ (19.6) (149)
 
 
801
 
अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाण्युपप्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यम्भवति प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं वायवा याहि दर्शतेति प्रउगमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमेऽहनि प्रथमस्याह्नो रूपमिन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र वा इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा यात्विन्द्रोऽवस उप न इति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरं पृष्ठं भवति राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं यद्वावान पुरुतमं पुराषाळ् इति धाय्या वृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमेऽहनि प्रथमस्याह्नो रूपं पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमेऽहनि प्रथमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यं पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥4.29॥ </span></poem>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
Line १३७ ⟶ ९२:
आ न इन्द्रो दूरादा न आसादिति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपं सम्पातौ भवतो निष्केवल्यमरुत्वतीययोर्निविद्धाने वामदेवो वा इमाँल्लोकानपश्यत्तान्सम्पातैः समपतद्यत्सम्पातैः समपतत्तत्सम्पातानां सम्पातत्वं तद्यत्सम्पातौ प्रथमेऽहनि शंसति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवत्प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवं यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्यत्प्रेति सर्वमभविष्यत्प्रैष्यन्नेवास्माल्लोकाद्यजमाना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवं प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमे पदे देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति ये संवत्सरं वा द्वादशाहं वासते तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतं भवति यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति तस्मात्समानमाग्निमारुतं भवति॥4.30॥
 
 
811
 
इन्द्रो वै देवता द्वितीयमहर्वहति पञ्चदशः स्तोमो बृहत्साम त्रिष्टुप्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्व-द्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाण्यग्निं दूतं वृणीमह इति द्वितीयस्याह्न आज्यम्भवति कुर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋतावृधेति वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वच्चान्तर्वच्च द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्द्वितीयेऽहनि द्वितीय-स्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्या अच्युता बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयन्नृतावृध इति वृधन्वान्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र सोमं सोमपते पिबेममिति सूक्तम्सजोषा रुद्रै स्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपं यद्वावानेति धाय्याच्युतोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥4.31॥