"ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
[https://sa.wikisource.org/s/w25 अष्टम पञ्चिका]
 
<poem><span style="font-size: 14pt; line-height: 200%">अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामो हनू सजिह्वे प्रस्तोतुः श्येनं वक्ष उद्गातुः कण्ठः काकुद्रः प्रतिहर्तुर्दक्षिणा श्रोणिर्होतुः सव्य ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यम्ब्राह्मणाच्छंसिनो दक्षिणम्पार्श्वं सांसमध्वर्योः सव्यमुपगातॄणां सव्योंऽसः प्रतिप्रस्थातुर्दक्षिणं दोर्नेष्टुः सव्यम्पोतुर्दक्षिण ऊरुरच्छावाकस्य सव्य आग्नीध्रस्य दक्षिणो बाहुरात्रेयस्य सव्यः सदस्यस्य सदं चानूकं च गृहपतेर्दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्यौष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्याज् जाघनीम्पत्नीभ्यो हरन्ति ताम्ब्राह्मणाय दद्युः स्कन्ध्याश्च मनिकास्तिस्रश्च कीकसा ग्रावस्तुतस्तिस्रश्चैव कीकसा अर्धं च वैकर्तस्योन्नेतुरर्धं चैव वैकर्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्याद्यद्यब्राह्मणः स्याच् छिरः सुब्रह्मण्यायै यः श्वःसुत्याम्प्राह तस्याजिनमिळ सर्वेषां होतुर्वा ता वा एताः षट्त्रिंशतमेकपा यज्ञं वाहन्ति षट्त्रिंशदक्षरा वै बृहती बार्हताः स्वर्गा लोकाः प्रानांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति स एष स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोऽन्यथा तद्यथा सेलगा वा पापकृतो वा पशुं विम-थ्नीरंस्तादृक्तत्तां वा एताम्पशोर्विभक्तिं श्रौतऋषिर्देवभागो विदां चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयतेऽधीयते॥7.1॥ (31.1) (124)
<poem><span style="font-size: 14pt; line-height: 200%">1208
अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामो हनू सजिह्वे प्रस्तोतुः श्येनं वक्ष उद्गातुः कण्ठः काकुद्रः प्रतिहर्तुर्दक्षिणा श्रोणिर्होतुः सव्य ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यम्ब्राह्मणाच्छंसिनो दक्षिणम्पार्श्वं सांसमध्वर्योः सव्यमुपगातॄणां सव्योंऽसः प्रतिप्रस्थातुर्दक्षिणं दोर्नेष्टुः सव्यम्पोतुर्दक्षिण ऊरुरच्छावाकस्य सव्य आग्नीध्रस्य दक्षिणो बाहुरात्रेयस्य सव्यः सदस्यस्य सदं चानूकं च गृहपतेर्दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्यौष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्याज् जाघनीम्पत्नीभ्यो हरन्ति ताम्ब्राह्मणाय दद्युः स्कन्ध्याश्च मनिकास्तिस्रश्च कीकसा ग्रावस्तुतस्तिस्रश्चैव कीकसा अर्धं च वैकर्तस्योन्नेतुरर्धं चैव वैकर्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्याद्यद्यब्राह्मणः स्याच् छिरः सुब्रह्मण्यायै यः श्वःसुत्याम्प्राह तस्याजिनमिळ सर्वेषां होतुर्वा ता वा एताः षट्त्रिंशतमेकपा यज्ञं वाहन्ति षट्त्रिंशदक्षरा वै बृहती बार्हताः स्वर्गा लोकाः प्रानांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति स एष स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोऽन्यथा तद्यथा सेलगा वा पापकृतो वा पशुं विम-थ्नीरंस्तादृक्तत्तां वा एताम्पशोर्विभक्तिं श्रौतऋषिर्देवभागो विदां चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयतेऽधीयते॥7.1॥ (31.1) (124)
 
तदाहुर्य आहिताग्निरुपवसथे म्रियेत कथमस्य यज्ञः स्यादिति नैनं याजयेदित्याहुरनभिप्राप्तो हि यज्ञं भवतीति। तदाहुर्य आहिताग्निरधिश्रितेऽग्निहोत्रे सांनाय्ये वा हविःषु वा म्रियेत का तत्र प्रायश्चित्तिरित्यत्रैवैनान्यनुपर्यादध्याद्यथा सर्वाणि संदह्येरन्सा तत्र प्रायश्चित्तिः। तदाहुर्य आहिताग्निरासन्नेषु हविःषु म्रियेत का तत्र प्रायश्चित्तिरिति याभ्य एव तानि देवताभ्यो हवींषि गृहीतानि भवन्ति ताभ्यः स्वाहेत्येवैनान्याहवनीये सर्वहुन्ति जुहुयात्सा तत्र प्रायश्चित्तिः। तदाहुर्य आहिताग्निः प्रवसन्म्रियेत कथमस्याग्निहोत्रं स्यादित्यभिवान्यवत्सायाः पयसा जुहुयादन्यदिवैतत्पयो यदभिवान्यवत्साया अन्यदिवैतदग्निहोत्रं यत्प्रेतस्य। अपि वा यत एव कुतश्च पयसा जुहुयुः। अथाप्याहुरेवमेवैनानजस्रानजुह्वत इन्धीरन्ना शरीराणामाहर्तोरिति। यदि शरीराणि न विद्येरन्पर्णशरः षष्टिस्त्रीणि च शतान्याहृत्य तेषां पुरुषरूपकमिव कृत्वा तस्मिंस्तामावृतं कुर्युरथैनाञ्छरीरैराहृतैः संस्पर्श्योद्वासयेयुः। अध्यर्धशतं काये सक्थिनी द्विपञ्चाशे च विंशे चोरु द्विपञ्चविंशे शेषं तु शिरस्युपरि दध्यात्। सा तत्र प्रायश्चित्तिः॥॥7.2॥ (32.1) (125)