प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
===अद्वैतब्रह्मविज्ञानम्===
<poem>
अग्निरुवाच
अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतोऽगदत् ।
शालग्रामे तपश्चक्रे वासुदेवार्चनादिकृत् ।। ३८०.१ ।।
 
मृगसङ्गान्मृगो बूत्वा ह्यन्तकाले स्मरन् मृगं ।
जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतोऽभवत् ।। ३८०.२ ।।
 
अद्वैतब्रह्मभूतश्च जडवल्लोकमाचरत् ।
क्षत्ताऽसौ वीरराजस्य विष्टियोगममन्यत ।। ३८०.३ ।।
 
उवाह शिविकामस्य क्षत्तुर्वचनचोदितः ।
गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ।। ३८०.४ ।।
 
ययौ जड़गतिः पश्चाद् ये त्वन्ये त्वरितं ययुः ।
शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपोऽव्रवीत् ।। ३८०.५ ।।
 
राजोवाच
किं श्रान्तोऽस्यल्पमध्वानं त्वयोढ़ा शिविका मम ।
किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ।। ३८०.६ ।।
 
ब्राह्मण उवाच
नाहं पीवान्न वैषोढ़ा शिविका भवतो मया ।
न श्रान्तोऽस्मि न वायासो वोढव्योऽसि महीपते ।। ३८०.७ ।।
 
भूमौ पादयुगन्तस्थौ जङ्‌घे पादद्वये स्थिते ।
उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ।। ३८०.८ ।।
 
वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ ।
स्कन्धस्थितेयं शिविका मम भावोऽत्र किं कृतः ।। ३८०.९ ।।
 
शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं ।
तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ।। ३८०.१० ।।
 
अहं त्वञ्च तथान्यं च भूतैरुह्याम पार्थिव ।
गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ।। ३८०.११ ।।
 
कर्म्मवश्या गुणाश्चैते सत्वाद्याः पृथिवीपते ।
अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ।। ३८०.१२ ।।
 
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।
प्रवृद्ध्यपचयौ नाम्य एकस्याखिलजन्तुषु ।। ३८०.१३ ।।
 
यदा नोपचयस्तस्य यदा नापचयो नृप।
तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ।। ३८०.१४ ।।
 
भूजङ्घापादकट्‌यूरुजठरादिषु संस्थिता ।
शिविकेयं तथा स्कन्धे तदा भावः समस्त्वया ।। ३८०.१५ ।।
 
तदन्यजन्तुभिर्भूप शिविसोत्थानकर्मणा ।
शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ।। ३८०.१६ ।।
 
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ।
सोढ़व्यः स महाभारः कतरो नृपते मया ।। ३८०.१७ ।।
 
यद्द्रव्या शिविका चेयं तद्‌द्रव्यो भूतसंग्रहः ।
भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ।। ३८०.१८ ।।
 
तच्छ्रु त्वोवाच राजा तं गृहीत्वाङ्‌घ्री क्षमाप्य च ।
प्रसादं कुरु त्वक्त्वेमां शिविकां ब्रूहि श्रृण्वते ।
यो भवान् यन्निमित्तं वा यदागमनकारणम् ।। ३८०.१९ ।।
 
श्रूयतां कोहमित्येतद्वक्तु नैव च शक्यते ।
उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ।। ३८०.२० ।।
 
सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ ।
धर्माघर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति ।। ३८०.२१ ।।
 
राजोवाच
योऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।
आत्मन्येष न दोषाय शब्कदोहमिति यो द्विज ।। ३८०.२२ ।।
 
शब्दोहमित्रि दोषाय नात्मन्येष तथैव तत् ।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ।। ३८०.२३ ।।
 
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान् कोहमित्येतद्विफलं वचः ।। ३८०.२४ ।।
 
त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः ।
अयञ्च भवतो लोको न सदेनन्नृपोच्यते ।। ३८०.२५ ।।
 
वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठता ।
का वृक्षसंज्ञा जातास्य दारुसंज्ञाथ वा नृप ।। ३८०.२६ ।।
 
वृक्षारूढ़ो महाराजो नायं वदति चेतनः ।
न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ।। ३८०.२७ ।।
 
शिविकादारुसङ्घातो रचनास्थितिसंस्थितः ।
अन्विष्यतां नृपश्रेष्ट तद्भेदे शिविका त्वया ।। ३८०.२८ ।।
 
पुमान् स्त्री गौरयं वाजी कुञ्जरो विहगस्तरुः ।
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ।। ३८०.२९ ।।
 
जिह्वा व्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप ।
एते नाहं यतः सर्व्वेवाङ्निपादनहेतवः ।। ३८०.३० ।।
 
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं ।
तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ।। ३८०.३१ ।।
 
पिण्डः पृथग्‌ यतः पुंसः शिरःपाय्वादिलक्षणः ।
ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं ।। ३८०.३२ ।।
 
यदन्योऽस्ति परः कोपि मत्तः पार्थिवसत्तम ।
तदेषोहमयं चान्यो वक्तुमेवमपीष्यते ।। ३८०.३३ ।।
 
परमार्थभेदो न नगो न पशुर्नच पादपः ।
शरीराश्च विभेदाश्च य एते कर्मयोनयः ।। ३८०.३४ ।।
 
यस्तु राजेत् यल्लोके यच्च राजभटात्मकम् ।
तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं ।। ३८०.३५ ।।
 
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः ।
पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ।। ३८०.३६ ।।
 
त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं ।
किमु पादादिकं त्वं वै तवैतत् किं महीपते ।। ३८०.३७ ।।
 
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।
कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ।।
 
तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं ।। ३८०.३८ ।।
श्रेयोऽर्थमुद्यतः प्रष्ट्रं कपिलर्षिमहं द्विज ।
 
तस्याशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि ।।
ज्ञानवीच्युदधेर्यस्माद्यच्छ्रेयस्तच्च मे वद ।। ३८०.३९ ।।
 
ब्राह्मण उवाच
भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते ।। ३८०.४० ।।
 
देवताराधनं कृत्वा धनसम्पत्तिमिच्छति ।
पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृपः ।। ३८०.४१ ।।
 
विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः ।
यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता ।। ३८०.४२ ।।
 
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।। ३८०.४३ ।।
 
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः ।
परं ज्ञानमयोऽसङ्गी गुणजात्यादिभिर्विभुः ।। ३८०.४४ ।।
 
निदाघऋतुसंवादं वदामि द्विज तं श्रृणु२ ।
ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्योऽभूत् पुलत्स्यजः ।। ३८०.४५ ।।
 
निदाघः प्राप्तविद्योऽस्मान्नगरे वै पुरे स्थितः ।
देविकायास्तटे तञ्च तर्कयामास वै ऋतुः ।। ३८०.४६ ।।
 
दिव्ये वर्षसहस्रेऽगान्निदाघमवलोकितुं ।
निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् ।।
भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा साऽक्षया यतः ।। ३८०.४७ ।।
 
ऋतुरुवाच ।
क्षुदस्ति यस्य भुक्तेऽन्ने तुष्टिर्ब्राह्मण जायते ।
न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि ।। ३८०.४८ ।।
 
क्षुत्तृष्णे देहधर्म्माख्ये न ममैते यतो द्विज ।
पृष्टोहं यत्त्वाया ब्रूयां३ तृप्तिरस्त्येव मे सदा ।। ३८०.४९ ।।
 
पुमान् सर्वगतो व्यापी आकाशवदयं यतः ।
अतोऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत् कथं४ ।। ३८०.५० ।।
 
सोऽहं गान्ता५ न चागन्ता नैकदेशनिकेतनः ।
त्वं चान्यो न भवेन्नापि नान्यस्त्वक्तोऽस्मि वा प्यहं ।। ३८०.५१ ।।
 
मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभबेत् ।
पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ।। ३८०.५२ ।।
 
ऋतुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्विज ।
इहागतोऽहं यास्यामि परमार्थस्तवोदितः ।। ३८०.५३ ।।
 
एकमेवमिदं विद्धि न भेदः सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ।। ३८०.५४ ।।
 
ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ ।
निदाघं नगरप्रान्ते एकान्ते स्थितमव्रवीत् ।।
एकान्ते स्थीयते कस्मान्निदाघं ऋतुरव्रवीत् ।। ३८०.५५ ।।
 
निदाघ उवाच
भो विप्र जनसंवादो महानेष नरेश्वर ।
प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया ।। ३८०.५६ ।।
 
ऋतुरुवाच
नराधिपोऽत्र कतमः कतमश्चेतरो जनः ।
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम ।। ३८०.५७ ।।
 
योऽयं गजेन्द्रमुन्मत्तमद्रिश्रृङ्गसमुत्थितं ।
अधिरूढ़ो नरेन्द्रोऽयं परिवारस्तथेतरः६ ।। ३८०.५८ ।।
 
गजो योऽयमधो ब्रह्मन्नुपर्य्येष स भूपतिः ।
ऋतुराह गजः कोऽत्र राजा चाह निदाघकः ।। ३८०.५९ ।।
 
ऋतुर्निदाघ आरुढ़ो दृष्टान्तं पश्य वाहनं ।
उपर्य्यहं यथा राज त्वमधः कुञ्जरो यथा ।। ३८०.६० ।।
 
ऋतुः७ प्राह निदाघन्तं कतमस्त्वामहं वदे ।
उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्घ्रुवम् ।। ३८०.६१ ।।
 
नात्यस्माद्‌द्वैतसंस्कारसंस्कृतं मानसं तथा ।
ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः ।
परमार्थं सारभूतमद्वैतं दर्शितं मया ।। ३८०.६२ ।।
 
ब्राह्मण उवाच
निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ।
सर्वभूतान्यभेदेन ददृशे स तदात्मनि ।। ३८०.६३ ।।
 
अवाप मुक्ति ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि ।
एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः ।। ३८०.६४ ।।
 
पीतनीलादिभेदेन यथैकं दृश्यते तमः ।
भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् ।। ३८०.६५ ।।
 
अग्निरुवाच
मुक्तिं ह्यवाप भवतो ज्ञानसारेण भूपतिः८ ।
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ।। ३८०.६६ ।।
 
इत्यादिमहापुराणे आग्नेये अद्वैतब्रह्मविज्ञानं नामाशीत्यधिकत्रिशततमोऽध्यायः ॥
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/24155" इत्यस्माद् पुनः प्राप्तिः