"ऋग्वेदः सूक्तं १०.५९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
'प्र तारि' इति दशर्चं सप्तदशं सूक्तं बन्ध्वादीनां त्रयाणां गौपायनानामार्षम् । आदितः सप्त त्रिष्टुभः। अष्टमी पञ्चाष्टका पङ्क्तिः । नवमी षडष्टका महापङ्क्तिः । दशमी पङ्क्त्युत्तरा । ‘ आद्यौ दशकावष्टकास्त्रयः' (अनु. ९. ११ ) इत्युक्तलक्षणसद्भावात् । एकाक्षराधिक्याद्भूरिग्विशेषणेयं वेदितव्या । सूक्तस्यादितश्चतस्रो देहात्प्राणान्निर्गमयित्र्या निर्ऋतेर्निवृत्यर्थं बन्ध्वादयोऽजपन् । ‘ मो षु णः सोम ' इति चतुर्थ्यामेव मृत्युनिवृत्यर्थं सोममस्तुवन् । अतश्चतसृणां निर्कतिर्देवतानिर्ऋतिर्देवता चतुर्थ्याः सोमश्च । ‘ असुनीते मनः' इति द्वाभ्यामसुनीतिनाम्नीं देवीमस्तुवन् अतस्तयोः सा देवता । ‘ पुनर्नो असुम्' इत्यस्याः पृथिव्याद्या लिङ्गोक्ता देवताः। ततस्तिसृभिः शिष्टाभिः पङ्क्तिमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावापृथिव्याविति द्यावापृथिव्यौ देवते । ‘ समिन्द्र ' इत्यर्धर्चस्येन्द्रो देवता । तथा चानुक्रान्तं -- प्र तारीति दशर्चे चतस्रो निर्ऋत्यपनोदनार्थं जेपुश्चतुर्थ्यां सोमं चास्तुवन्मृत्योरपगमायोत्तराभ्यां दैवीमसुनीतिं सप्तम्यां लिङ्गोक्तदेवताः शिष्टाभिः पङ्क्तिमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावापृथिव्यौ समिन्द्रेतीन्द्रं चार्धर्चेन' इति । गतो विनियोगः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५९" इत्यस्माद् प्रतिप्राप्तम्