प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
===श्रीरामावतारवर्णनम्===
<poem>
नारद उवाच
रामोक्तञ्चाङ्गदौ गत्वा रावणं प्राह जानकी।
दीयतां राघवायाशु अन्यथा त्वं मरिप्यसि ।। १ ।।
 
रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः।
रामयाह दशग्रीवो युद्धमेकं तु मन्यते ।। २ ।।
 
रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ।
वानरो हनुमान मैन्दो द्विविदौ जाम्बवान्नलः ।। ३ ।।
 
नीलस्तारोङ्गदो धूभ्रः सुषेणः केशरी गयः।
पनसो विनतो रम्भः शरभः कथनो बली ।। ४ ।।
 
गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः।
एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः ।। ५ ।।
 
रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ।
राक्षसा वानराञजघ्नुः शरशक्तिगदादिभिः ।। ६ ।।
 
वानरा राक्षसाञ् जघ्नुर्नखदन्तशिलादिभिः।
हस्त्थश्वरथपादातं राक्षसानां बलं हतम् ।।७ ।।
 
हनूमान् गिरिऋङ्गेण धूम्राक्षमवधीद्रिपुम्।
अकम्पनं प्रहस्तञ्च युध्यन्तं नील आवधीत् ।। ८ ।।
 
इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्षमणौ।
तार्क्ष्यसन्दर्शनाद् बाणैर्जघ्ननू राक्षसं बलम् ।। ९ ।।
 
रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे।
रावणः कुम्बकर्णञ्च बौधयामास दुः खितः ।। १० ।।
 
कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्त्रकम्।
मद्यस्य महिषादीनां भक्षयित्वाह रावणम् ।। ११ ।।
 
सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः।
अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ।। १२ ।।
 
इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द्द ह।
गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त्त सः ।। १३ ।।
 
कर्णनासाविहीनोऽसौ भक्ष यामास वानरान्।
अथ कुम्भो निकुमभश्च मकराक्षश्च राक्षसः ।। १४ ।।
 
ततः पादौ ततश्छित्त्वा शिरो भूमौ व्यपातयत् ।
अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः ।। १५ ।।
 
महोदरो महापार्श्वो मत्त उन्तत्तराक्षसः।
प्रघसो भासकर्णश्च विरूपाक्षस्छ संयुगे ।। १६ ।।
देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः।
 
रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ।। १७ ।।
युध्यमानास्तथाह्यन्ये राक्षसाभुवि पातिताः।
 
इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह ।। १८ ।।
वरदत्तैर्नागबाणै रोषध्या तौ विशल्यकौ।
विशल्ययाव्रणौ कृत्वा मारुत्यानीतपर्वने ।। १९ ।।
 
हनूमान् धारयामास तत्रागं यत्र संश्थितः।
निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ।। २० ।।
 
शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत्।
रावणः शोकस्न्तप्तः सीतां हन्तुं समुद्यतः ।। २१ ।।
 
अविन्ध्यवारितो राजरथस्यः सबलौययौ।
इन्द्रोक्तो मातलीरामं रथस्थं प्रचकार तम् ।। २२ ।।
 
रामरावणयोर्युद्धं रामरावणयोरिव।
रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम् ।। २३ ।।
 
रामः शस्त्रैस्तमस्त्रैश्च ववर्ष जलदो यथा।
तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ।। २४ ।।
 
धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि।
पैतामहेन हृदयं भित्त्वा रामेण रावणः ।। २५ ।।
 
भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः।
आश्वास्य तञ्च संस्कृत्य रामज्ञप्तो विभीषणः ।। २६ ।।
 
हनृमतानयद्रामः सीतां शुद्धां गृहीतवान्।
रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः ।। २७ ।।
 
ब्रह्मणा दशरथेन त्वं विष्ण् राक्षसमर्द्दनः।
इन्द्रौर्च्चितोऽमृतवृष्ट्या जीवयामास वानरान् ।। २८ ।।
 
रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते ।
रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान् ।। २९ ।।
 
ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः।
दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः ।। ३० ।।
 
भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः।
भरतेन नतश्चागादयोध्यान्तत्र संश्थितः ।। ३१ ।।
 
वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् ।
सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत् ।। ३२ ।।
 
वासुदेवं स्वमात्मानमश्वमेधैरथायजत्।
सर्वदानानि स ददौ पालयामास स प्रजाः ।।३३।।
 
पुत्रवद्धर्म्मकामादीन् दुष्टनिग्रहणे रतः।
सर्वधर्म्मपरो लोकः सर्वशस्या च मेदिनी ।।
नाकालमरणञ्चासीद्रामे राज्यं प्रशासति ।। ३४ ।।
 
इत्यादिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमोऽध्यायः ॥
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/24268" इत्यस्माद् पुनः प्राप्तिः