प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
===स्वायम्भुववंशवर्णनम्===
<poem>
अग्निरुवाच
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ।
अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्।। १ ।।
 
काम्यां कर्द्दमभार्यातः सम्राट् कुक्षिर्विराट् प्रभुः।
सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः ।। २ ।।
 
सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये।
ध्रुवो वर्षसहस्त्राणि त्रीणि दिव्यानि हे मुने ।। ३ ।।
 
तस्मै प्रीतो हरिः प्रादान् मुन्यग्रे स्थानकं स्थिरम् ।
श्लोकं पपाठह्युशना वृद्धिं दृष्ट्वा स तस्य च ।। ४ ।।
 
अहोऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम्। यमद्य ।
पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ।। ५ ।।
 
तस्मात् शिष्टिञ्च भव्यञ्च ध्रुवाच्छम्भुर्ञ्यजायत।
शिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ।। ६ ।।
 
रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम्।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ।। ७ ।।
 
अजीजनत् पुष्करिण्यां वीरिण्यां चाक्षुषोमनुम् ।
मनोरजायन्त दश नड्वलायां सुतोत्तमाः ।। ८ ।।
 
ऊरूः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः।
अग्निष्टुरतिरात्रस्च सुद्युम्नश्चाभिमन्युकः ।। ९ ।।
 
ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभात्।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम् ।। १० ।।
 
अह्गात् सुनीयापत्यं वै वेणमेकं व्यजायत्।
अरक्षकः पापरतः स हतो मुनिभिः कुशेः ।। ११ ।।
 
प्रजार्थमृपयोथास्य ममन्थुर्द्दक्षिणं करम्।
वेणस्य मथिते पाणौ सम्बभूव पृथुर्न्नृपः ।। १२ ।।
 
तं दृष्ट्वा मनुयः प्राहुरेष वै मुदिताः प्रजाः।
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ।। १३ ।।
 
स धन्वी कवची जातस्तेजसा निर्द्दहन्निव।
पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः ।। १४ ।।
 
राजसूयाभिषिक्तानामाद्यः स पृथिवीपतिः।
तस्माच्चैव समुत्पन्नौनिपुणौ सूतमागधौ ।।१५ ।।
 
तत्‌स्तोत्रञ्चक्रतुव्वींरौ राजाभूज्जनरञ्चनात्।
दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च ।। १६ ।।
 
सह देवैर्मुनिगणैर्गन्धर्वैः साप्सरोगणैः।
पितृभिर्द्दानवैः सर्पैर्वीरुद्भिः पर्वतैर्जनैः ।। १७ ।।
 
तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा।
प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत् ।। १८ ।।
 
पृथोः पुत्रौ तु धर्म्मज्ञौ जज्ञातेऽन्तद्धिपालिनौ।
शिखण्डिनी हविर्द्धानमन्तर्द्धानात् व्यजायत ।। १९ ।।
 
हविर्द्धानात् षडाग्नेयी धीषणाजनयत् सुतान्।
प्राचीनवर्हिषं सुक्रं गयं कृष्णं व्रजाजिनौ ।। २० ।।
 
प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः।
प्राचीनवर्हिर्भगवान् महानासीत्प्रजापतिः ।। २१ ।।
 
सवर्णाऽधत्त सामुद्री दश प्राचीनवर्हिषः।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ।। २२ ।।
 
अपृथग्धर्म्मचरणास्ते तप्यन्त पहत्तपः।
दशवर्षसहस्त्राणि समुद्रसलिलेशयाः ।। २३ ।।
 
प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश्च निर्गताः।
भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश्च ते ।। २४ ।।
 
मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम्।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ।। २५ ।।
 
कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम्।
तपस्विनो मुनेः कण्डोः प्रम्लोचायां ममैव च ।। २६ ।।
 
भविष्यं जानता सृष्टा भार्या वोऽस्तु कुलङ्करी।
अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्द्धयिष्यति ।। २७ ।।
 
प्रचेतसस्तां जगृहर्द्दक्षोस्याञ्च ततोऽभवत्।
अचरांश्च चरांश्चैव द्विपदोथ चतुष्पदः ।। २८ ।।
 
स सृष्ट्वा मनसा दक्षः पञ्चादसृजत स्त्रियः।
ददौ स दश धर्म्माय कश्यपाय त्रयोदश ।। २९ ।।
 
सप्ताविशति सोमाय चतस्त्रोऽरिष्टनेमिने।
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात् ।। ३० ।।
 
तासु देवाश्च नागाद्या मैथुनान्मनसा पुरा।
धर्म्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः ।। ३१ ।।
 
विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत।
मरुत्त्वत्या मरुत्त्वन्तो वसोस्तु वसवोऽभवन् ।। ३२ ।।
 
भानोस्तु भानवः पुत्रा मुहूर्त्तास्तु मुहूर्त्तजाः ।
सम्बाया धर्मतो घोषो नागवीथी च यामिजा ।। ३३ ।।
 
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत।
सङ्कल्पायास्तु सङ्कल्पा इन्दोर्न्नक्षत्रतः सुताः ।। ३४ ।।
 
आपो ध्रुवञ्च धरश्चैवानिलोनलः ।
प्रत्यूषश्च प्रभावश्च वसवौष्टौ च नामतः ।। ३५ ।।
 
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा।
ध्रुवस्य कालो लोकान्तो वर्च्चाः सोमस्य वै सुतः ।। ३६ ।।
 
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा।
मनोहरायाः शिशिरः प्राणोथ रमणस्तथा ।। ३६ ।।
 
पुरोजवोनिलस्यासीदविज्ञातोऽनलस्य च।
अग्निपुत्रः कुमारश्च शरस्तम्बे व्यजायत ।। ३७ ।।
 
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः।
कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः ।। ३९ ।।
 
प्रत्यूपाद्देवलो जज्ञे विश्वकर्मा प्रभाषतः।
कर्त्ता शिल्पसहस्त्राणां त्रिदशानाञ्च वर्द्धकिः ।। ४० ।।
 
मनुष्याश्चोपजीवन्ति शिल्पं वै भूषणादिकम् ।
सुरभी सश्यपाद्रुद्रानेकादश विजज्ञुषी ।। ४१ ।।
 
महादेवप्रसादेन तपसा भाविता सती।
अजैकपादहिर्ब्रध्नस्त्वष्टा रुद्राश्च सत्तम ।। ४२ ।।
 
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः।
हरश्च बहूरूपश्च ञ्यम्बकश्चापराजितः ।। ४३ ।।
 
वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा।
मृगव्याधश्च सर्पश्च कपाली दश चैककः ।।
रुद्राणां च शतं लक्षं यैर्व्याप्तं सचराचरं ।। ४४ ।।
 
इत्यदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशोऽध्यायः ।
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/24276" इत्यस्माद् पुनः प्राप्तिः