"अग्निपुराणम्/अध्यायः ७४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===शिवपूजाकथनम्===
<poem>
ईश्वर उवाच
शिवपूजा प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान्।
द्वारमस्त्रम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत् ।। १ ।।
 
गणं सरस्वतीं लक्ष्मीमूद्‌र्ध्वेदुम्बरके यजेत्।
नन्दिगङ्गे दक्षिणेऽथ स्थिते वामगते यजेत् ।। २ ।।
 
महाकालं च यमुनां दिव्यदृष्टिनिपातितः।
उत्सार्य्य दिव्यान् विघ्नांस्च पुष्पाक्षेपान्तरिक्षगान् ।। ३ ।।
 
दक्षपार्ष्णित्रिभिर्घातैर्भूमिष्ठान्यागमन्दिरम्।
दैहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत् ।। ४ ।।
 
प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बुरे।
ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् ।। ५ ।।
 
निरीक्षणादिभिः शस्त्रः शुद्धानादायगड्डुकान् ।
लब्धानुज्ञः शिवान्मौनी गङ्गदिकमनुव्रजेत् ।। ६ ।।
 
पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा।
पूरयेदम्बुधौ तांस्तान् गायत्र्या हृदयेन वा ।। ७ ।।
 
गन्धकाक्षत पुष्पादिसर्व्वद्रव्यसमुच्चयं।
सन्निधीकृत्य पूजार्थं भूतशुद्ध्यादि कारयेत् ।। ८ ।।
 
देवदक्षए ततो न्यस्य सौम्यास्यस्च शरीरतः ।
संहारमुद्रयादाय मूर्दिध्न मन्त्रेण धारयेत् ।। ९ ।।
 
भोग्यकर्म्मोपभोगार्थं पाणिकच्छपिकाख्यया।
हृदम्बुजे निजात्मानं द्वादशान्तपदेऽथवा ।। १० ।।
 
शोधयेत् पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ ।
चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्व्वहिः स्मरेत् ।। ११ ।।
 
शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे पावकप्रभे।
रन्ध्रमध्यस्थिते कृत्वा प्राणरोधं हि चिन्तकः ।। १२ ।।
 
निवेशयेद्रेचकान्ते फडन्तेनाथ तेन च।
हृत्‌कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च ।। १३ ।।
 
ग्रन्थीन्निर्मिद्य हूङ्कारं मूर्द्धि विन्यस्य जीवनम्।
सम्पुटं हृदयेनाथ पूरकाहितचेतनम् ।। १४ ।।
 
हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकं स्मरेत्।
कृत्वाथ कुम्भकं शम्भौ एकोद्‌घातेन योजयेत् ।। १५ ।।
 
रेचकेन वीजवृत्त्या शिवे लीनोऽथ शोधयेत्।
प्रतिलोमं स्वदेहे तु विन्द्वन्तं तत्र विम्दुकम् ।। १६ ।।
 
लयन्नीत्वा महीवातौ जलवह्नी परस्परं।
 
द्वौ द्वौ साध्यौ तथाकासमविरोधेन तच्छृणु ।। १७ ।।
 
पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्लितम्।
हौमित्यात्मीयवीजेन तन्निवृत्तिकलामयम् ।। १८ ।।
 
पादादारभ्य सूर्द्धानं विचिन्त्य चतुरस्नकम्।
उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ।। १९ ।।
 
अर्द्धचन्द्रं द्रवं सौम्यं शुभ्रमम्भोजलाञ्छितम् ।
ह्रीमित्यनेन वीजेन प्रतिष्ठारूपतां गतम् ।। २० ।।
 
संयुक्तं राममन्त्रेण पुरुषान्तमकारणम्।
अर्घ्यञ्चतुर्भिरुद्‌घातैर्वह्निभूतं विशोधयेत् ।। २१ ।।
 
आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितम्।
हूमित्यनेन वीजेन विद्यारुपं विभावयेत् ।। २२ ।।
 
घोराणुत्रिबिरुद्घातैर्जलभूतं विशोधयेत्।
षडस्नं मण्डलं वायोर्विन्दुभिः षद्भिरङ्कितम् ।। २३ ।।
 
कृष्णं ह्रेमिति वीजेन जातं शान्तिकलामयम्।
सञ्चित्योद्घातयुग्मेन पृथवीभूतं विशोध्येत् ।। २४ ।।
 
नभोविन्दुमयं वृत्तं विन्दुशक्तिविभूषितम्।
व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलम् ।। २५ ।।
 
हौङ्कारेण फडन्तेन शान्त्यतीतकलामयम्।
ध्यात्वैकोद्‌घातयोगेन सुविशुद्धं विबावयेत् ।। २६ ।।
 
आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा ।
आधाराख्यामनन्तञ्च धर्म्मज्ञानादिपङ्कजम् ।। २७ ।।
 
हृदासनमिदं ध्यात्वा मूर्त्तिमावाहयेत्ततः।
सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः ।। २८ ।।
 
अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः।
दिण्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतम् ।। २९ ।।
 
हृदयादिकरान्तेषु कनिष्ठाद्यङ्गुलेषु च।
हृदादिमन्त्रविन्यासः सकलीकरणं मतम् ।। ३० ।।
 
अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः।
शक्तिजाचलमधश्चोद्‌र्ध्वं महामुद्रां प्रदर्शयेत् ।। ३१।।
 
आपादमस्तकं यावद् भावपुष्पै शिवं हृदि।
पद्मे यजेत् पूरकेण आकृष्टामृतसद्‌घृतैः ।। ३२ ।।
 
शिवमन्त्रैर्न्नाभिकुण्डे तर्पयेत् शिवानलम्।
ललाटे विन्दुरुपञ्च चिन्तयेच्छुभविग्रहम् ।। ३३ ।।
 
एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितम्।
विन्दुप्रसूतपीयूषरूपतोयाक्षतादिना ।। ३४ ।।
 
हृदापूर्य्य षडङ्गेन पूजयित्वाऽभिमन्त्रयेत्।
संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत् ।। ३५ ।।
 
रचयित्वाऽर्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया ।
अभिषिञ्चेदथात्मानं मूदर्ध्नि तत्तोयविन्दुना ।। ३६ ।।
 
तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा।
अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत् ।। ३७ ।।
 
दर्शयित्बाऽमृतां मुद्रां पुष्पंदत्वा निजासने।
विधाय तिलकं मूद्‌र्ध्निं पुष्पं मूलेन योजयेत् ।। ३८ ।।
 
स्नाने देवार्च्चने होमे भोजने यागयोगयोः।
आवस्यके जपे धीरः सदा वाचंयमो भवेत् ।। ३९ ।।
 
नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतम्।
पूजेनेऽभ्यर्च्यगायत्र्या सामान्यार्घ्यमुपाहरेत् ।। ४० ।।
 
ब्रह्मपञ्चकमावर्च्य माल्यमादाय लिङ्गतः।
ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् ।। ४१ ।।
 
प्रक्षाल्य पिण्डिकालिङ्गे अस्त्रतोये ततो हृदा।
अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनम् ।। ४२ ।।
 
आत्पद्रव्यमन्त्रलिह्गशुद्धौ सर्वान् सुरान्यजेत्।
वायव्ये गणपतये हां गुरुभ्योऽर्च्चयेच्छिवे ।। ४३ ।।
 
आधारशक्तिमङ्कुरनिभां कूर्म्मशिलास्थिताम्।
यजेद् ब्रह्मशिलारूढं शिव स्यानन्तमासनम् ।। ४४ ।।
 
विचित्रकेशप्रख्यानमन्योन्यं पृष्ठदर्शिनः।
कृतत्रेतादिरूपेण शिवस्यासनपादुकाम् ।। ४५ ।।
 
धर्म्मं ज्ञानञ्च वैराग्यमैश्वर्य्यञ्चाग्निदिङ्‌मुखान्।
कर्पूरसुङ्कुमस्वर्णकज्जलाभान् यजेत् क्रमात् ।। ४६ ।।
 
पद्माञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव।
वरदाभयहस्ताश्च शक्तयो धृतचामराः ।। ४७ ।।
 
वामा ज्येष्ठा च रौद्री च काली कलविकारिणी।
बलविकरणी पूज्या बलप्रमथनी क्रमात् ।। ४८ ।।
 
हां सर्व्वभूतदमनी केशराग्रे मनोन्मनी।
क्षित्यादिशुद्धविद्यान्तु तत्त्वव्यापकमास्नम् ।। ४९ ।।
 
न्यसेत् सिंहासने देवं शुक्लं पञ्चमुखं विभुं।
दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः ।। ५० ।।
 
शक्त्यृष्टिशूलखट्‌वाङ्गवरदं वामकैः करैः।
डमरुं वीजपूरञ्च नीलाब्जं सूत्रकोत्पलम् ।। ५१ ।।
 
द्वात्रिंशल्लक्षणोपेतां शैवीं पूर्त्तिन्तु मध्यतः।
हां हं हां शिवमूर्त्तये स्वप्रकाशं शिवं स्मरन् ।। ५२ ।।
 
ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदम्।
ततो ललाटमध्यस्थं स्फुरत्तारापतिप्रबम् ।। ५३ ।।
 
षडङ्गेन समाकीर्णं विन्दुरूपं परं शिवं।
पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्त्तौ निवेशयेत् ।। ५४ ।।
 
ओं हां हौं शिवाय नम आवाहन्या हृदा ततः।
आवाह्य स्थाप्य स्तापन्या सन्निधायान्तिकं शिवम् ।। ५५ ।।
 
निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः।
विघ्नानुत्सार्य्य विष्ठ्याथ लिङ्गमुद्रां नमस्कृतिं ।। ५६ ।।
 
हृदावगुण्ठयेत् पश्चादावाहः सम्मुखी ततः।
निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः ।। ५७ ।।
 
आकर्म्मकाण्डपर्य्यन्तं सन्निधेयोपरिक्षयः।
स्वभक्तेश्च प्रकाशो यस्तद्भवेदवगुण्ठनम् ।। ५८ ।।
 
सकलीकरणं कृत्वा मन्त्रैः षड्‌भिरथैकताम्।
अङ्गानामङ्गिना साद्ध विदध्यादमृतीकृतम् ।। ५९ ।।
 
चिच्छक्तिहृदयं शम्भोः शिव ऐस्वर्य्यमष्टधा ।
शिखावशित्वं चाभेद्यं तेजः कवचमैस्वरम् ।। ६० ।।
 
प्रतापो दुः सहश्चास्त्रमन्तरायापहारकम्।
नमः स्वधा च स्वाहा च वौषट् चेति यथाक्रमम् ।। ६१ ।।
 
हृत्‌पुरः सरमुच्चार्य्य पाद्यादीनिनिवेदयेत्।
पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकम् ।। ६२ ।।
 
अर्घ्यं शिरसि देवस्य दूर्व्वापुष्पाक्षतानि च।
एवं संस्कृत्य संस्कारैर्द्दशभिः परमेश्वरम् ।। ६३ ।।
 
यजेत् पञ्चोपचारेण विधिना कुसुमादिभिः।
अब्युक्ष्योद्वर्त्य निर्म्भञ्ज्य राजिकालवणादिभिः ।। ६४ ।।
 
अर्घ्योदविन्दुपुष्पाद्यैर्गड्‌डूकैः स्नापयेच्छनैः।
पयोदधिघृतक्षोद्रशर्क्कराद्यैरनुक्रमात् ।। ६५ ।।
 
ईशादिमन्त्रितैर्द्रव्यैरर्च्य तेषां विपर्य्ययः।
तोयधूपान्तरैः सर्वैर्मूलेन स्नपयेच्छिवम् ।। ६६ ।।
 
विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर्जलैः।
स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा ।। ६७ ।।
 
निर्म्मार्ज्यार्घ्यं प्रदद्याच्य नोपरि भ्रामयेत् करम्।
न शून्यमस्तकं लिङ्गं पुष्पैः कुर्य्यात्ततो ददेत् ।। ६८ ।।
 
चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना ।
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना ।। ६९ ।।
 
अस्त्रेण पूजितां घण्टां चादाय गुगगुलं ददेत्।
दद्यादाचमनं पञ्चात् स्वधान्तं हृदयाणुना ।। ७० ।।
 
आरात्रिकं समुत्तार्य्य तथैवाचामयेत् पुनः।
प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् ।। ७१ ।।
 
हृदग्नौ चन्द्रभं चैरो शिवं चामीकरप्रभम्।
शिखां रक्ताञ्च नैर्ऋत्ये कृष्णं वर्म्म च वायवे ।। ७२ ।।
 
चतुर्वक्त्रं चतुर्बाहुं दलस्थान् पूजयेदिमान।
दंष्ट्राकरालमप्यस्त्रं पूर्वदौ वज्रसन्निभम् ।। ७३ ।।
 
मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश्च।
हृं शिखायै हैं वर्म्म हश्चास्त्रं परिवारयुताय च ।। ७४ ।।
 
शिवाय दद्यात् पाद्यञ्च आचामञ्चार्घ्यमेव च।
गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकम् ।। ७५ ।।
 
करोद्धर्त्तनताम्बूलं मुखवासञ्च दर्पणम्।
शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकम् ।। ७६ ।।
 
मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं।
चर्म्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः ।। ७७ ।।
 
अक्षतैर्मुद्राया युक्तं शिवमुद्भवसञ्ज्ञया।
गुह्यातिगुह्यगुप्त्यर्थं गृहाणास्मत्‌कृतं जपम् ।। ७८ ।।
 
सिद्धिर्भवतु मे येन त्वत्‌प्रसादात्त्वयि स्थिते।
भोगी श्लोकंपठित्वाद्यं दक्षहस्तेन शम्भवे ।। ७९ ।।
 
मूलाणुनार्घ्यतोयेन वरहस्ते निवेदयेत्।
यत्किञ्चित् कुर्म्महे देव सदा सुकृतदुस्कृतम् ।। ८० ।।
 
तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर।
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ।। ८१ ।।
 
शिवो जयति सर्वत्र यः शिवं सोहमेव च।
श्लोकद्वयमधीत्यैवं जपं देवाय चार्प्पयेत् ।। ८२ ।।
 
शिवाङ्गानां दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत्।
प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्त्तये ।
नत्वा ध्यानादिभिश्चैव यजेच्चित्रेऽनलदिषु ।। ८३ ।।
 
इत्यादिमहापुराणे आग्नेये शिवपूजा नाम चतुः सप्ततितमोऽध्यायः ।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_७४" इत्यस्माद् प्रतिप्राप्तम्