"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
 
{{सायणभाष्यम्|
द्वितीयेऽनुवाके त्रयोदशसूक्तानि । तत्र त्वष्टा दुहित्रे इत्येतच्चतुर्दशर्चं प्रथमं सूक्तम् । यमपुत्रो देवश्रवा नामर्षिः । आदितो द्वादश त्रिष्टुभः त्रयोदशीचतुर्दश्यावनुष्टुभौ । यद्वा। त्रयोदशी पुरस्ताद्बृहती। आदितो द्वयोः सरण्यूर्देवता। पूषा त्वेतः' इत्याद्याश्चतस्रः पूषदेवत्याः । ‘सरस्वतीं देवयन्तः' इत्याद्यास्तिस्रः सरस्वतीदेवताकाः । आपो अस्मान् इत्याद्याः पञ्चर्चोऽब्देवताकाः । तत्र ‘द्रप्सश्चस्कन्द इत्याद्यास्तिस्रः सोमदेवत्या वा । तथा चानुक्रान्तं -- त्वष्टा देवश्रवा द्वे सरण्यूदेवते पौष्ण्यश्चतस्रः सारस्वत्यस्तिस्रः पञ्चाप्यो द्रप्सस्तिस्रः सौम्यो वान्त्ये अनुष्टुभावुपान्त्या पुरस्ताद्बृहती वा' इति । गतः सूक्तविनियोगः ॥ अत्रेतिहासमाचक्षते - त्वष्टृनामकस्य देवस्य 'सरण्यूस्त्रिशिराश्चेति स्त्रीपुंसात्मकमपत्यद्वयमभूत् । ततस्त्वष्टा सरण्यूनामिकां पुत्रीं विवस्वते प्रायच्छत् । ततस्तस्या विवस्वतश्च सकाशात् यमयम्यौ विजज्ञाते । ततः कदाचित् आल्मसदृश्याआत्मसदृश्या देवजनितायाः स्त्रियः समीपे तदपत्यद्वयं निधाय स्वयमाश्वं रूपं कृत्वोत्तरान् कुरून प्रतिजगामः। अथ विवस्वानेतां स्त्रियं सरण्यूमिति मत्वा तामरंसीत्। तस्यां मनुर्नाम राजर्षिरजायत । ततो विवस्वानेषा सरण्यूर्न भवतीति विज्ञाय स्वयमप्यश्वो भूत्वा तामश्वरूपिणीं प्रत्यासीत् । ततः संक्रीडमानयोस्तयोः स्वभूतं रेत पृथिव्यां पपात । अथ सा गर्भकामनया तत् पतितं रेत आजघ्रौ । ततस्तस्याः सकाशान्नासत्यो दस्रश्चेत्युभावश्विनावजायेतामिति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्