"नारदपुराणम्- पूर्वार्धः/अध्यायः ४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
श्रद्धापूर्वाः सर्वधर्मा मनोरथफलप्रदाः ।।
श्रद्धयासाध्यते सर्वं श्रद्धया तुष्यते हरिः ।। ४-१ ।।
 
भक्तिर्भक्त्यैव कर्त्तव्यातथा कर्माणि भक्तितः ।।
कर्मश्चद्धाविहीनानि न सिध्यन्तिं द्विजोत्तमाः ।। ४-२ ।।
 
यथाऽऽलोको हि जन्तूनां चेष्टाकारणतां गतः ।।
तथैव सर्वसिद्धीनां भक्तिः परमकारणम् ।। ४-३ ।।
 
यथा समस्त लोकानां जीवनं सलिलं स्मृतम् ।।
तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ।। ४-४ ।।
 
यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः ।।
तथा भक्तिं समाश्रित्य सर्वकार्य्याणि साधयेत् ।। ४-५ ।।
 
श्रद्धाबँल्लभते धर्म्मं श्रद्धावानर्थमाप्नुयात् ।।
श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमान्पुयात् ।। ४-६ ।।
 
न दानैर्न तपोभिर्वा यज्ञैर्वा बहुदक्षिणैः ।।
भक्तिहीनेर्मुनिश्चेष्ठ तुष्यते भगवान्हरिः ।। ४-७ ।।
 
मेरुमात्रसुवर्णानां कोटिकोटिसहस्रशः ।।
दत्ता चाप्यर्थनाशाय यतोभक्तिविवर्जिता ।। ४-८ ।।
 
अभक्त्या यत्तपस्तप्तैः केवलं कायशोषणम् ।।
अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत् ।। ४-९ ।।
 
यत्किञ्चित्कुरुते कर्म्मश्रद्धयाऽप्यणुमात्रकम् ।.
तन्नाम जायते पुंसां शाश्वतं प्रतीदायकम् ।। ४-१० ।।
 
अश्वमेघसहस्त्रं वा कर्म्म वेदोदितं कृतम् ।।
तत्सर्वं निष्फलं ब्रह्मन्यदि भक्तिविवर्जितम् ।। ४-११ ।।
 
हरिभक्तिः परा नॄणां कामधेनूपमा स्मृता ।।
तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो ।। ४-१२ ।।
 
असारभूते संसारे सारमेतदजात्मज ।।
भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता ।। ४-१३ ।।
 
असूयोपेतमनसां भक्तिदानादिकर्म्म यत् ।।
अवेहि निष्फलं ब्रहंस्तेषां दूरतरो हरिः ।। ४-१४ ।।
 
परिश्रियाभितत्पानां दम्भाचाररतात्मनाम् ।।
मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः ।। ४-१५ ।।
 
पृच्छतां च महाधर्म्मान्वदतां वै मृषा च तान् ।।
धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः ।। ४-१६ ।।
 
वेदप्रणिहितो धर्म्मो धर्म्मो वेदो नारायणः परः ।।
तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः ।। ४-१७ ।।
 
यस्य धर्म्मविहीनानि दिनान्यायान्ति यान्ति च ।।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ।। ४-१८ ।।
 
धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः ।।
श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दन ।। ४-१९ ।।
 
स्वाचारमनतिक्रम्य हरिभक्तिपरो हि यः ।।
स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः ।। ४-२० ।।
 
कुर्वन्वेदोदितान्धर्म्मान्मुनीन्द्र स्वाश्रमोचितान् ।।
हरिध्यानपरोयस्तु स याति परमं पदम् ।। ४-२१ ।।
 
आचारप्रभवो धर्मः धर्म्मस्य प्रभुरच्युतः ।।
आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः ।। ४-२२ ।।
 
यः स्वाचारपरिभ्रष्टः साङ्गवेदान्तगोऽपि वा ।।
स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः ।। ४-२३ ।।
 
हरिभक्तिपरि वाऽपि हरिध्यानपरोऽपि वा ।।
भ्रष्टो यः स्वाश्रमाचारात्पतितः सोऽभिधीयते ।। ४-२४ ।।
 
वेदो वा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे ।।
आचारात्पतितं मूढं न पुनाति द्विजोत्तम ।। ४-२५ ।।
 
पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् ।।
यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारंन रक्षति ।। ४-२६ ।।
 
आचारात्प्राप्यते स्वर्ग आचारात्प्राप्यते सुखम् ।।
आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते ।। ४-२७ ।।
 
आचाराणांतु सर्वेषां योगानां चैव सत्तम् ।।
हरिभक्तेपरि तथा निदानं भक्तिरिष्यते ।। ४-२८ ।।
 
भक्त्यैव पूज्यते विष्णुर्वाञ्छितार्थफलप्रदः ।।
तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते ।। ४-२९ ।।
 
जीवन्ति जन्तवः सर्वे यथा मातराश्रिताः ।।
तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्म्मिकाः ।। ४-३० ।।
 
स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् ।।
न तस्य त्रिषु लोकेषु सदृशोऽस्त्यजनन्दन ।। ४-३१ ।।
 
भक्त्या सिध्यन्ति कर्म्माणि कर्म्माणि कर्म्माभिस्तुष्यते हरिः ।।
तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते ।। ४-३२ ।।
 
भक्तिस्तु भगवद्भक्तसङ्गेन खलु जायते ।।
सत्सङ्गं प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः ।। ४-३३ ।।
 
वर्णाश्रमाचाररता भगवद्भक्तिलालसाः ।।
कामादिदोष्नि र्मुक्तास्ते सन्तो लोकशिक्षकाः ।। ४-३४ ।।
 
सत्ङ्गः परमो ब्रह्मन्न लभ्येताकृतात्मनाम् ।।
यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम् ।। ४-३५ ।।
 
पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै ।।
सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा ।। ४-३६ ।।
 
रविर्हि रशिमजालेन दिवा हन्तिबहिस्तमः ।।
सन्तः सूक्तिमरीच्योश्चान्तर्ध्वान्तं हि सर्वदा ।। ४-३७ ।।
 
दुर्लभाः पुरुषा लोके भगवद्भक्तिलालसाः ।।
तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती ।। ४-३८ ।।
 
नारद उपाच ।।
किंलक्षणा भागवतास्ते च किं कर्म्म कुर्वते ।।
तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः ।। ४-३९ ।।
 
त्वं हि भक्तो रमेशस्य देवदेवस्य चक्रिणः ।।
एतान्निगदितुं शक्तस्त्वतो नास्त्यधिकोऽपरः ।। ४-४० ।।
 
सनक उवाच ।।
श्रृणु ब्रह्मन्परं गुह्यं मार्कण्डेयस्य धीमनः ।।
यमुवाच जगन्नाथो योगनिद्राविमोचितः ।। ४-४१ ।।
 
योऽसौ विष्णुः परं ज्योतिर्देवदेवः सनातनः ।।
जगदूपी जगत्कर्त्ता शिवब्रह्म स्वरुपवान् ।। ४-४२ ।।
 
युगान्ते रौद्ररुपेण ब्रह्माण्डलसबृंहितः ।।
जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे ।। ४-४३ ।।
 
भगवानेव शेषात्मा शेते वटदले हरिः ।।
असंख्याताब्जजन्माद्यैराभूषिततनूरूहः ।। ४-४४ ।।
 
पादाङ्गुष्टाग्रनिर्यातगङ्गाशीताम्बुपावनः ।।
सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः ।। ४-४५ ।।
 
वटच्छदे शयानोऽभूत्सर्वशक्तिसमन्वितः ।।
तस्मिन्स्थाने महाभागो नारायणपरायणः ।।
मार्कंडेयः स्थिनस्तस्य लीलाः पश्यन्महेशितुः ।। ४-४६ ।।
 
ऋषय ऊचुः ।।
तस्मिन्काले महाघोरे नष्टे स्थावरजङ्गमे ।।
हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम ।। ४-४७ ।।
 
जगत्येकार्णवीभूते नष्टे स्थावरंजगमे ।।
सर्वग्रस्तेन हरिणा किमर्थं सोऽवशेषितः ।। ४-४८ ।।
 
परं कौतूहलं ह्यत्रं वर्त्ततेऽतीव सूत नः ।।
हरिकीर्तिसुधापाने कस्यालस्यं प्रजायते ।। ४-४९ ।।
 
सूत उवाच ।।
।। आसीन्मुनिर्महाभागो मृकण्डुरिति विश्रुतः ।।
शालग्रामे महातीर्थे सोऽतप्यत महातपाः ।। ४-५० ।।
 
युगानाम युतं ब्रह्मन्गृणन्ब्रह्म सनातनम् ।।ट
निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः ।। ४-५१ ।।
 
आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ।।
सर्वभूतहितो दान्त स्तताप सुमहत्तपः ।। ४-५२ ।।
 
तत्तापःशङ्किताः सर्वे देवा इन्द्रादयस्तदा ।।
परेशं शरणं जग्मुर्नारायणमनामयम् ।। ४-५३ ।।
 
क्षीराब्धेरुत्तरं तीरं संप्राप्यत्रिदिवौकसः ।।
तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम् ।। ४-५४ ।।
 
देवा ऊचुः ।।
।। नारायणाक्षरानन्त शरणागतपालक ।।
मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान् ।। ४-५५ ।।
जय देवाधिदेवेश जय शङ्खगदाधर ।।
जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे ।। ४-५६ ।।
 
नमस्ते देवदेवेश नमस्ते लोकपावन ।।
नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे ।। ४-५७ ।।
 
नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे ।।
नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे ।। ४-५८ ।।
 
केशिहन्त्रे नमस्तुभ्यं मधुहन्त्रे परात्मने ।।
नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे ।। ४-५९ ।।
 
नमो ज्येष्टाय शुद्धाय निर्गुणाय गुणात्मने ।।
अरुपाय स्वरुपाय बहुरुपाय ते नमः ।। ४-६० ।।
 
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।।
जगद्धिताय कृष्णाय गोविन्दाय नम्नोमः ।। ४-६१ ।।
 
नमो हिरण्यगर्भाय नमो ब्रह्मादिरुपिणे ।।
नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः ।। ४-६२ ।।
 
नमो नित्याय वन्द्याय सदानन्दैकरुपिणे ।।
नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः ।। ४-६३ ।।
 
एवं देवस्तुतिं श्रुत्वा भगवान्कमलापतिः ।।
प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः ।। ४-६४ ।।
 
विकचाम्बुजपत्राक्षं सूर्य्यकोटिसमप्रभम् ।।
सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ।। ४-६५ ।।
 
पीताम्बरधरं सौम्यं स्वर्णयज्ञोपवीतिनम् ।।
स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम् ।। ४-६६ ।।
 
तं दृष्य्वा देवसंघास्ते तत्तेजोहततेजसः ।।
नमश्चक्रुर्मुदा युक्ता अष्टांगौरवनिं गताः ।। ४-६७ ।।
 
ततः प्रसन्नो भगवान्मेघगंभीरनिस्वनः ।।
उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान् ।। ४-६८ ।।
 
श्रीभगवानुवाच ।।
जाने वो मानसं दुःखं मृकण्डुतपसोद्गम् ।।
युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः ।। ४-६९ ।।
 
संपद्भिः संयुता वापि विपद्भिश्चापि सज्जनाः ।।
सर्वथान्यं न बाधन्ते स्वप्नेऽपि सुरसत्तमाः ।। ४-७० ।।
 
सततं बाध्यमानोऽपि विषयाख्यैररातिभिः ।।
अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः ।। ४-७१ ।।
 
तापत्रयाभिधानेन बाध्यमानो हि मानवः ।।
अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः ।। ४-७२ ।।
 
कर्मणा मनसा वाचा बाधते यः सदा परान् ।।
नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः ।। ४-७३ ।।
 
यो लोकहितकृन्मर्त्यो गतासुर्यो विमत्सरः ।।
निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः ।। ४-७४ ।।
 
सशङ्कः सर्वदा दुःखी निःशङ्कः सुखमाप्नुयात् ।।
गच्छध्वं स्वालयं स्वस्थाः क्रीडयिष्यति वो न सः ।। ४-७५ ।।
 
भवतां रक्षकश्चाहं विहरध्वं यथासुखम् ।।
इति दत्वा वरं तेषामतसीकुसुमप्रभः ।। ४-७६ ।।
 
पश्यतामेव देवानां तत्रैवान्तरधीयत ।।
तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम् ।। ४-७७ ।।
 
मृकण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगात् ।।
अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम् ।। ४-७८ ।।
 
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।।
दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितोऽभवत् ।। ४-७९ ।।
 
ध्यानादुन्मील्य नयनं अपश्यद्धरिमग्रतः ।।
प्रसन्नवदनं शान्तं धातारं विश्वतेजसम् ।। ४-८० ।।
 
रोमाञ्चितशरीरोऽसावानन्दाश्रुविलोचनः ।।
ननाम दण्डवद्भूमौ देवदेव सनातनम् ।। ४-८१ ।।
 
अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसंभवैः ।।
शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे ।। ४-८२ ।।
 
मृकण्डुरुवाच ।।
नमः परेशाय परात्मरुपिणे परात्परस्प्रात्परतः पराय ।।
अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय ।। ४-८३ ।।
 
यो नामजात्यादिविकल्पहीनः शब्दादिदोषव्यतिरेकरुपः ।।
बहुस्वरुपोऽपि निरञ्जनो यस्तमीशमीढ्यं परमं भजामि ।। ४-८४ ।।
 
वेदान्तवेद्यं पुरुषं पुराणं हिरण्यगर्भादिजगत्स्वरुपम् ।।
अनूपमं भक्ति जनानुकम्पिनं भजामि सर्वेश्वरमादिमीड्यम् ।। ४-८५ ।।
 
पश्यन्ति यं वीतसमस्तदोषा ध्यानैकनिष्ठा विगतस्पृहाश्च ।।
निवृत्तमोहाः परमं पवित्रं नतोऽस्मि संसारनिर्वर्त्तकं तम् ।। ४-८६ ।।
 
स्मृतार्तिनाशनं विष्णुं शरणागतपालकम् ।।
जगत्सेव्यं जगाद्धाम परेशं करुणाकरम् ।। ४-८७ ।।
 
एवं स्तुतः स भगवान्विष्णुस्तेन महर्षिणा ।।
अवाप परमां तुष्टिं शङ्खचक्रगदाधरः ।। ४-८८ ।।
 
अयालिङ्ग्य मुनिं देवश्चतुर्भिर्दीर्घबाहुभिः ।।
उवाच परमं प्रीत्या वरं वरय सुव्रत ।। ४-८९ ।।
 
प्रीतोऽस्मि तपसा तेन स्तोत्रेण च तवानघ ।।
मनसा यदभिप्रेतं वरं वरय सुव्रत ।। ४-९० ।।
 
मृकण्डुरूवाच ।।
देवदेव जगन्नाथ कृतार्थोऽस्मि न संशयः ।।
त्वद्दर्शनमपुण्यानां दुर्लभं च यतः स्मृतम् ।। ४-९१ ।।
 
ब्रह्माद्या यं न पश्यन्ति योगिनः संशितव्रताः ।।
धर्मिष्टा दीक्षिताश्वापि वीतरागा विमत्सराः ।। ४-९२ ।।
 
तं पश्यामि परं धाम किमतोऽन्यं वरं वृणे ।।
एतेनैव कृतार्थोऽस्मि जनार्दन जगद्गुरो ।। ४-९३ ।।
 
यत्रामस्मृतिमात्रेण महापातकिनोऽपि ये ।।
तत्पदे परमं यान्नि ते दृष्ट्वा किमुनाच्युत ।। ४-९४ ।।
 
श्रीभगवानुवाच ।।
सत्यत्प्रुक्तं त्वया ब्रह्मान्प्रीतीऽस्मि तव पण्डित ।।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ।। ४-९५ ।।
 
विष्णिर्भक्तकुटुम्बीति वदन्ति विवुधाः सदा ।।
तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ।। ४-९६ ।।
 
तस्मात्त्वत्तपसातुष्टो यास्यामि तव पुत्रताम् ।।
समस्तगुणसंयुक्तो दीर्घजीवी स्वरुपवान् ।। ४-९७ ।।
 
मम जन्म कुले यस्य तत्कुलं मोक्षगामि वै ।।
मयि तुष्टे मुनिश्रेष्ट किमसाध्यं जगत्रये ।। ४-९८ ।।
 
इत्युक्त्वा देवदेवशो मुनेरतस्य समीक्षतः ।।
अंतर्दधे मृकण्डुश्च तपसः समवर्तत ।। ४-९९ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरितारम्भो नाम चतुर्थोऽध्यायः ।। ४ ।।
 
</poem>