"नारदपुराणम्- पूर्वार्धः/अध्यायः ५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
नारद उवाच ।।
ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः ।।
किं चकार च तद्ब्रुहि हरिर्भार्गववंशजः ।। ५-१ ।।
 
श्रूयते च्पुराणेषु मार्कण्डेयो महामुनिः ।।
अपश्यद्वैष्णवीं मायां चिरंजीव्यस्य संप्लवे ।। ५-२ ।।
 
सनक उवाच ।।
श्रुणु नारद वक्षअयामि कथामेतां सनातनीम् ।।
विष्णुभक्तिसमायुक्तां मार्कुण्डेयमुनिं प्रति ।। ५-३ ।।
 
तपसोऽन्ते मृकण्डुस्ते मृकण्डुस्तु भार्यामुदूह्य सत्तमः ।।
गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ।। ५-४ ।।
 
तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा ।।
मनसा वचसा चापि देहेन च पतिव्रता ।। ५-५ ।।
 
काले दधार सा गर्भं हरितेजोंशसंभवम् ।।
रुषुवे दशमासान्ते पुत्रं तेजस्विनां परम् ।। ५-६ ।।
 
स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् ।।
जातकं कारयामास मङ्गलं विधिपूर्वकम् ।। ५-७ ।।
 
स बालो ववृधे तत्र शुक्लपक्ष इवोडुपः ।।
ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ।। ५-८ ।।
 
शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम् ।।
नमस्कार्या द्विजाः पुत्र सदादृष्टा विधानतः ।। ५-९ ।।
 
त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्चलिदानतः ।।
वैदिकं कर्म तर्तव्यं वेदाध्ययनपूर्वकम् ।। ५-१० ।।
 
ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा ।।
निषिद्धं वर्जनीयं स्यादृष्टसंभाषणादिकम् ।। ५-११ ।।
 
साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा ।।
न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत् ।। ५-१२ ।।
 
इज्याध्यंयनदानानि सदा कार्याणि ते सुत ।।
एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ।। ५-१३ ।।
 
चचार धर्मं सततं सदा संचिन्तयन्हरिम् ।।
मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ।। ५-१४ ।।
 
आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः ।।
वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ।। ५-१५ ।।
 
तपश्चचारं परममच्युतप्रीतिकारणम् ।।
आराधितो जगन्नाथो माक्रण्डेयेन धीमता ।। ५-१६ ।।
 
पुराणसंहितां कर्त्तुदत्तवान्वरमच्युतः ।।
मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः ।। ५-१७ ।।
 
चिरजीवी महाभक्तो देवदेवस्य चक्रिणः ।।
जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ।। ५-१८ ।।
 
तस्य दर्शयितुं विग्रास्तं न संहृतवान्हरिः ।।
मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ।। ५-१९ ।।
 
तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् ।।
मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ।। ५-२० ।।
 
तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श्रुणु ।।
दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता ।। ५-२१ ।।
 
काष्टातत्रिंशतो ज्ञेया कला पह्मजनन्दन ।।
तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता ।। ५-२२ ।।
 
तद्वयेन मुहूर्त्तं स्याद्दिनं तत्रिंशता भवेत् ।।
त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः ।। ५-२३ ।।
 
ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् ।।
तद्दयेन भवेदब्दः स देवानां दिनं भवेत् ।। ५-२४ ।।
 
उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् ।।
मानुषेणैव मासेन पितॄणां दिनमुच्यते ।। ५-२५ ।।
 
तस्मात्सुर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् ।।
दिव्यैर्वर्षसहस्त्रैर्द्वादशभिर्दैवतं युगम् ।। ५-२६ ।।
 
दैवे युगसहस्त्रे द्वे ब्राह्यः कल्पौ तु तौ नृणाम् ।।
एकसत्पतिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः ।। ५-२७ ।।
 
चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसंमुने ।।
यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता ।। ५-२८ ।।
 
नाशमायाति विप्रेन्द्र तस्मिन्काले जगन्नयम् ।।
मानुषेण सहस्त्रेण यत्प्रमाणं भवेच्छृणु ।। ५-२९ ।।
 
चतुर्युगसहस्त्राणि ब्रह्मणो दिवसं मुने ।।
तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ।। ५-३० ।।
 
परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः ।।
विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता ।। ५-३१ ।।
 
मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् ।।
तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः ।।
 
आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ ।। ५-३२ ।।
 
 
अथ काले समायाते योगनिद्राविमोचितः ।।
सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम् ।। ५-३३ ।।
 
संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः ।।
विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ।। ५-३४ ।।
 
शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः ।।
तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ।। ५-३५ ।।
 
मार्कण्डेय उवाच ।।
सहस्त्रशिरसं देवं नारायणमनामयम् ।।
वासुदेवमनाधारं प्रणतोऽस्मिजनार्दनम् ।। ५-३६ ।।
 
अमेयमजरं नित्यं सदानन्दैकविग्रहम् ।।
अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्द्दनम् ।। ५-३७ ।।
 
अक्षरं परमं नित्यं विशाक्षं विश्वसम्भवम् ।।
सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्द्दनम् ।। ५-३८ ।।
 
पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् ।।
परात्परतरं रुपं प्रणतोऽस्मि जनार्द्दनम् ।। ५-३९ ।।
 
परंज्योतिः परं धाम पवित्रं परमं पदम् ।।
सर्वैकरुपं परमं प्रणतोऽस्मि जनार्द्दनमम् ।। ५-४० ।।
 
तं सदानन्दचिन्मात्रं पराणां परमं पदम् ।।
सर्वं सनातनं श्रेष्टं प्रणतोऽस्मि जनार्द्दनम् ।। ५-४१ ।।
 
सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम् ।।
अरुपं बहुरुपं तं प्रणतोऽस्मि जनार्द्दनम् ।। ५-४२ ।।
 
यत्रतद्भगवान्विश्वं सृजत्यवत्ति हन्ति च ।।
तमादिदेवमीशानं प्रणतोऽस्मि जनार्द्दनम् ।। ५-४३ ।।
 
परेश परमानन्द शरणागतवत्सल ।।
त्राहि मां करुणासिन्धो मनोतीति नमोऽस्तुते ।। ५-४४ ।।
 
एवं स्तवन्तं विप्रेन्द्रं मार्कण्डेयजगद्गुरुम् ।।
उवाच परया प्रीत्या शङ्खचक्रगदाधरः ।। ५-४५ ।।
 
श्रीभगवानुवाच ।।
लोके भागवता ये च भगवद्भक्तमानसाः ।।
तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ।। ५-४६ ।।
 
अहमेव द्विजश्रेष्ट नित्यं प्रच्छन्नविग्रहः ।।
भगवद्भक्तरुपेण लोकान्रक्षामि सर्वदा ।। ५-४७ ।।
 
मार्कण्डेय उवाच ।।
किंलक्षणा भागवता जायन्ते केन कर्म्मणा ।।
 
एतदिच्छाम्यदं श्रोतुं कौतुहलपरो यतः ।। ५-४८ ।।
 
श्रीभगवानुवाचा ।।
लक्षणं भागवतानां श्रुणुष्व मुनिसत्तम् ।।
वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ।। ५-४९ ।।
 
ये हिताः सर्वजन्तूनां गतासूया अमत्सरा ।।
वशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः ।। ५-५० ।।
 
कर्म्मणा मनसा वाचा परपीडां न कुर्वते ।।
अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ।। ५-५१ ।।
 
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ।।
तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ।। ५-५२ ।।
 
मातापित्रोश्च शुश्रुषां कुर्वन्ति ये नरोत्तमाः ।।
गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ।। ५-५३ ।।
 
ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः ।।
पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ।। ५-५४ ।।
 
व्रतिनां च यतीनां च परिचर्यापराश्च ये ।।
वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः ।। ५-५५ ।।
 
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ।।
ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः ।। ५-५६ ।।
 
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ।।
तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ।। ५-५७ ।।
 
धर्म्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ।।
सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ।। ५-५८ ।।
 
व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा ।।
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ।। ५-५९ ।।
 
ये गोब्राह्मणशुश्रूषां कुर्वते सततं नराः ।।
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ।। ५-६० ।।
 
अन्येषामुदयं दृष्ट्वा येऽभिनवन्दन्ति मानवाः ।।
हरिनामपरा ये च ते वै भागवतोत्तमाः ।। ५-६१ ।।
 
आरामारोपणरतास्तडापरिरक्षकाः ।।
कासारकूपकर्त्तारस्ते वै भागवतोत्तमाः ।। ५-६२ ।।
 
ये वै तडागकर्त्तारो देवसह्मानि कुर्वते ।।
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ।। ५-६३ ।।
 
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः ।।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ।। ५-६४ ।।
 
तुलसीकावनं दृष्ट्वा ये नमस्कुर्वते नराः ।।
तत्काष्टाङ्कितकर्णा ये ते वै भागवतोत्तमाः ।। ५-६५ ।।
 
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ।।
तन्मूलमृत्तिकां ये च ते वै भागवतोत्तमाः ।। ५-६६ ।।
 
आश्रमाचाचरनिरतास्तथैवातिथिपूजकाः ।।
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ।। ५-६७ ।।
 
शिवाप्रियाः शिवासक्ताः शिवपादार्च्चने रताः ।।
त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ।। ५-६८ ।।
 
व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः ।।
रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ।। ५-६९ ।।
 
ये यजन्ति महादेवं ऋतुभिर्बहुदक्षिणैः ।।
हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ।। ५-७० ।।
 
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये ।।
सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ।। ५-७१ ।।
 
शिवे च परमेशे च विष्णौ च परमात्मनि ।।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ।। ५-७२ ।।
 
शिवाग्रिकार्यनिरताः पञ्चाक्षरजपे रताः ।।
शिवध्यानरता ये च ते वै भागवतोत्तमाः ।। ५-७३ ।।
 
पानीयदाननिरता येऽन्नदानरतास्तथा ।।
एकादर्शीव्रतरता वै भागवतोत्तमाः ।। ५-७४ ।।
 
गोदाननिरता ये च कन्यादानरताश्च ये ।।
मदर्थं कर्म्मकर्त्तारस्ते वै भागवतोत्तमाः ।। ५-७५ ।।
 
एते भागवता विप्र केचिदत्र प्रकीर्तिताः ।।
मयाऽपि गदितुं शक्या नाब्दकोटिशतैरपि ।। ५-७६ ।।
 
तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा ।।
सर्वभूताश्रयो दान्तो मेत्रो धर्म्मपरायणः ।। ५-७७ ।।
 
पुनर्युगान्तपर्य्यन्तं धर्म्मं सर्वं समाचरन् ।।
मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि ।। ५-७८ ।।
 
एवं मृकंडुपुत्रस्य स्वभक्तस्य कृपानिधिः ।।
दत्त्वा वरं स देवेशस्तत्रैवांतरधीयत ।। ५-७९ ।।
 
मार्कण्डेयो महाभागो हरिभक्तिरतः सदा ।।
चचार परमं धर्ममीजे च विधिवन्मखैः ।। ५-८० ।।
 
शालप्रामे महाक्षेत्रे तताप परमं तपः ।।
ध्यानक्षपितकर्मा तु परं निर्वाणमात्पवान् ।। ५-८१ ।।
 
तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः ।।
ईप्सिवं मनसा यद्यनत्तदान्प्रोत्यसंशयम् ।। ५-८२ ।।
 
सनक उवाच ।।
एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम ।।
भगवद्भक्ति माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ।। ५-८३ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ।। ५ ।।
 
</poem>