"नारदपुराणम्- पूर्वार्धः/अध्यायः ३४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
नारद उवाच ।।
समाख्यातानि सर्वाणि योगाङ्गानि महामुने ।।
इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम् ।। ३४-१ ।।
 
योगोभक्तिमतामेव सिध्यतीति त्वयोदितम् ।।
यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम् ।। ३४-२ ।।
 
यथा तुष्यति सर्वेशो देवदेवो जनार्दनः ।।
तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे ।। ३४-३ ।।
 
सनक उवाच ।।
नारायणं परं देवं सच्चिदानन्दविग्रहम् ।।
भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि ।। ३४-४ ।।
 
रिपवस्तं न हिंसन्ति न बाधंते ग्रहाश्चतम् ।।
राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम् ।। ३४-५ ।।
 
भक्तर्दृढा भवेद्यस्य देवदेवे जनार्दने ।।
श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः ।। ३४-६ ।।
 
पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ ।।
तौ करौ सफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ।। ३४-७ ।।
 
ते नेत्रे सुफले पुंसां पश्यतो ये दनार्दनम् ।।
सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या ।। ३४-८ ।।
 
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुत्यते ।।
तत्त्वं गुरुसमं नारित नत देवः केशवात्परः ।। ३४-९ ।।
 
सत्यं वच्मिहितं वाच्मि सारं वच्मि पुनः पुनः ।।
असारेऽस्मिंस्त संसारे सत्यं हरिसमर्चनम् ।। ३४-१० ।।
 
संसारपाशं सुदृढं महामोहप्रदायकम् ।।
हरिभक्तिकुटारेण च्छित्त्वात्यन्तसुखी भव ।। ३४-११ ।।
 
तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा ।।
ते श्रोत्रे तत्कथासारपूरिते लोकवंदिते ।। ३४-१२ ।।
 
आनन्दमक्षरं शून्यमवस्थात्रितयैरपि ।।
आकाशमध्यगं देवं भज नारद संततम् ।। ३४-१३ ।।
 
स्थानं न शक्यते यस्य स्वरुपं वा कदाचन ।।
निर्देष्टुं मुनिशार्दूल द्रष्टुं वाप्यकृतात्मभिः ।। ३४-१४ ।।
 
समस्तैः करणैर्युक्तो वर्त्तेऽसौ यदा तदा ।।
जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ।। ३४-१५ ।।
 
यदान्तः करणैंर्युक्तः स्वेच्छया विचरत्यसौ ।।
स्वपन्निच्युच्यते ह्यात्मा यदा स्वापविवर्जितः ।। ३४-१६ ।।
 
न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा ।।
अस्वरुपो यदात्मासौ पुण्यापुण्यविवर्जितः ।। ३४-१७ ।।
 
सर्वोपाधिविनिर्मुक्तो ह्यानंदो निर्गुणो विभुः ।।
परब्रह्ममयो देवः सुषुप्त इति गीयते ।। ३४-१८ ।।
 
भावनामयमेतद्वै जगत्स्थावरजङ्गमम् ।।
विद्युद्विलोलं विप्रेन्द्र भज तस्माज्जनार्दनम् ।। ३४-१९ ।।
 
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।।
वर्तते यस्य तस्यैव तुष्यते जगतां पतिः ।। ३४-२० ।।
 
सर्वभूतदयायुक्तो विप्रपूजापरायणः ।।
तस्य तुष्टो जगन्नाथो मधुकैटभमर्द्दनः ।। ३४-२१ ।।
 
सत्कथायां च रमते सत्कथां च करोति यः ।।
सत्सङ्गो निरहंकारस्तस्य प्रीतो रमापतिः ।। ३४-२२ ।।
 
नामसंकीर्त्तनं विष्णो क्षुत्तृट्प्रस्खलितादिषु ।।
करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः ।। ३४-२३ ।।
 
यातु नारीपतिप्राणा पतिपूजापरायणा।।
तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने ।। ३४-२४ ।।
 
असूयारहिता ये तु ह्यहंकारविवर्जिताः ।।
देवपूजापराश्चैव तेषां तुष्यति केशवः ।। ३४-२५ ।।
 
तस्माच्छृणुष्व देवर्शे भजस्वं सततं हरिम् ।।
मा कुरुष्व ह्यहंकारं विद्युल्लोलश्रिया वृथा ।। ३४-२६ ।।
 
शरीरं मृत्युसंयुक्तं जीवितं चाति चञ्चलम् ।।
राजादिभिर्धनं बाध्यं सम्पदः क्षणभंगुराः ।। ३४-२७ ।।
 
किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्रया ।।
हतं च भोजनाद्यैश्च कियदायुः समाहृतम् ।। ३४-२८ ।।
 
कियदायुर्बालभावात्कियद्वृथा ।।
कियद्विषयभोगैश्च कदा धर्मान्करिष्यति ।। ३४-२९ ।।
 
बालभावे च वार्द्धक्येन घटेताच्युतार्चनम् ।।
वयस्येव ततो धर्मान्कुरु त्वमनहंकृतः ।। ३४-३० ।।
 
मा विनाशं व्रज मुने मग्नः संसारगह्वरे ।।
वरुर्विनाशनिलयमापदां परमं पदम् ।। ३४-३१ ।।
 
शरीरं भोगनिलयं मलाद्यैः परिदूषितम् ।।
किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा ।। ३४-३२ ।।
 
आसारभूते संसारे नानादुःखसमन्विते ।।
विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसंकुले ।। ३४-३३ ।।
 
तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद्व्रवीम्यहम् ।।
देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम् ।। ३४-३४ ।।
 
मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः ।।
भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम् ।। ३४-३५ ।।
 
कोटिजन्मसहस्त्रेषु स्थावरादिषु सत्तम ।।
संभ्रांतस्य तु मानुष्यं कथंचित्परिलभ्यते ।। ३४-३६ ।।
 
तत्रापि देवताबुद्धिर्दानबुद्धिश्च सत्तम ।।
भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम् ।। ३४-३७ ।।
 
मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् ।।
मूर्खः कोऽस्ति परस्तस्माज्जडबुद्धिरचेतनः ।। ३४-३८ ।।
 
दुर्लभं प्राप्य मानुष्यं नार्चयन्ति च ये हरिम् ।।
तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति ।। ३४-३९ ।।
 
आराधितो जगन्नाथो ददात्यभिमतं फलम् ।।
कस्तं न पूजयेद्विप्रसंसाराप्रिप्रदीपितः ।। ३४-४० ।।
 
चंडालोऽपि मुनिश्रेष्ट विष्णुभक्तो द्विजाधिकः ।।
विष्णुभक्तिविहीनश्च द्विजोऽपि श्वपचाधमः ।। ३४-४१ ।।
 
तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम् ।।
यस्मिंस्तुष्टेऽखिलं तुष्येद्यतः सर्वगतो हरिः ।। ३४-४२ ।।
 
यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते ।।
तथा चराचरं विश्वं विष्णाविव प्रलीयते ।। ३४-४३ ।।
 
आकाशेन यथा व्याप्तं जगत्स्थावरजंगमम् ।।
तथैव हरिणा व्याप्तं विश्वमेतच्चराचरम् ।। ३४-४४ ।।
 
जन्मनो मरणं नॄणां जन्म वै मृत्युसाधनम् ।।
उभे ते निकटे विद्धि तन्नाशो हरिसेवया ।। ३४-४५ ।।
 
ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः ।।
संसारपाशविच्छेदीकस्तं न प्रतिपूजयेत् ।। ३४-४६ ।।
 
यन्नामोच्चांरणादेव महापातकनाशनम् ।।
यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ।। ३४-४७ ।।
 
 
अहो चित्रमहो चित्रमहो चित्रमिदं द्विज ।।
हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते ।। ३४-४८ ।।
 
भूयोभूयोऽपि वक्ष्यामि सत्यमेतत्तपोधन ।।
नीयमानो यमभटैरशक्तो धर्मसाधनैः ।। ३४-४९ ।।
 
यावन्नेन्द्रियवैकल्यं यावद्व्याधिर्न बाधते ।।
तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति ।। ३४-५० ।।
 
</poem>