"नारदपुराणम्- पूर्वार्धः/अध्यायः ४०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं मुने ।।
यां श्रृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत् ।। ४०-१ ।।
 
वैवस्वतेंऽतरे पूर्वं शक्रस्य च बृहस्पतेः ।।
संवादः सुमहानासीत्तं वक्ष्यामि निशामय ।। ४०-२ ।।
 
एकदा सर्वभोगाढ्यो विबुधैः परिवारितः ।।
अप्सरोगणसंकीर्णो बृहस्पतिमभाषत ।। ४०-३ ।।
 
इन्द्र उवाच ।।
बृहस्पते महाभाग सर्वतत्त्वार्थकोविद ।।
अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो ।। ४०-४ ।।
 
इन्द्रस्तु कीदृशः प्रोक्तो विवुधाः कीदृशाः स्मृताः ।।
तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि ।। ४०-५ ।।
 
बृहस्पतिरुवाच ।।
न ज्ञायते मया शक्र पूर्वेद्युश्चरितं विधेः ।।
वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे ।। ४०-६ ।।
 
मनवः समतीताश्च तान्वक्तुमपि न क्षमः ।।
यो विजानाति तं तेऽद्य कथयामि निशामय ।। ४०-७ ।।
 
सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव ।।
भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः ।। ४०-८ ।।
 
स वा एत द्विजानाति कथयामि निशामय ।।
एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः ।। ४०-९ ।।
 
देवतागणसंकीर्णः सुधर्मनिलयं ययौ ।। ४०-१० ।।
 
समागतं देवपतिं बृहस्पतिसमन्वितम् ।।
दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् ।। ४०-११ ।।
 
सुधर्मेणार्चितः शंक्रो दृष्ट्वा तच्छ्रियमुत्तमाम् ।।
मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः ।। ४०-१२ ।।
 
इंद्र उवाच ।।
अतीतब्रह्मकल्पस्य वृत्तांतं वेत्सि चेद्बुध ।।
तदाख्याहि समायात एतत्प्रष्टुं सयाजकः ।। ४०-१३ ।।
 
गतनिद्रांश्च देवांश्च येन जानासि सुव्रत ।।
तद्वदस्वाधिकः कस्मादस्मद्भ्योऽपि दिवि स्थितः ।। ४०-१४ ।।
 
तेजसायशसा कीर्त्या ज्ञानेन च परंतप ।।
दानेन वा तपोभिर्वा कथमेतादृशः प्रभो ।। ४०-१५ ।।
 
इत्युक्तो देवराजेन सुधर्मा प्रहसंस्तदा ।।
प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि ।। ४०-१६ ।।
 
सुधर्म उवाच ।।
चतुर्युगसहस्त्राणि ब्रह्मणो दिनमुच्यते ।।
एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश ।। ४०-१७ ।।
 
इंद्राश्चतुर्दश प्रोक्ता देवाश्च विविधाः पृथक् ।।
इंद्राणां चैव सर्वेषां मन्वादीनां च वासव ।। ४०-१८ ।।
 
तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च ।।
तेषां नामानि वक्ष्यामि श्रृणुष्व सुसमाहितः ।। ४०-१९ ।।
 
स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषस्तथा ।।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।। ४०-२० ।।
 
वैवस्वतो मनुश्चैव सूर्यसावर्णिरष्टमः ।।
नवमो दक्षसावर्णिः सर्वदेवहिते रतः ।। ४०-२१ ।।
 
दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः ।।
ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः ।। ४०-२२ ।।
 
भौत्यश्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः ।।
देवानिंद्रांश्च वक्ष्यामि श्रृणुष्व विबुधर्षभ ।। ४०-२३ ।।
 
यामा इति समाख्याता देवाः स्वायंभुवेंऽतरे ।।
शचीपतिः समाख्यातस्तेषामिंद्रो महापतिः ।। ४०-२४ ।।
 
पारावताश्च तुषिता देवाः स्वारोचिषेंऽतरे ।।
विपश्चिन्नाम देवेन्द्रं सर्वसंपत्समन्वितः ।। ४०-२५ ।।
 
सुधामानस्तथा सत्याः शिवाश्चाय प्रर्तदनाः ।।
तेषामिंद्रः सुशांतिश्च तृतीये परिकीर्तितः ।। ४०-२६ ।।
 
सुताः पाराहराश्चैव सुत्याश्चासुधियस्तथा ।।
तेषामिंद्रः शिवः प्रोक्तः शक्रस्तामसकेंऽतरे ।।
 
विभानामा देवपतिः पञ्चमः परिकीर्तितः ।। ४०-२७ ।।
अमिताभादयो देवाः षष्ठेऽपि च तथा श्रृणु ।।
 
आर्याद्या विबुधाः प्रोक्तास्तेषामिंद्रो मनोजवः ।। ४०-२८ ।।
 
आदित्यवसुरुद्राद्या देवा वैवस्वतंऽतरे ।।
इन्द्रः पुरंदरः प्रोक्तः सर्वकामसमन्वितः ।। ४०-२९ ।।
 
अप्रमेयाश्च विबुधाः सुतपाद्याः प्रकीर्तिताः ।।
विष्णुपूजाप्रभावेण तेषामिंद्रो बलिः स्मृतः ।। ४०-३० ।।
 
पाराद्या नवमे देवा इन्द्रश्चाद्भुत उच्यते ।।
सुवासनाद्या विबुधा दशमे परिकीर्तिताः ।। ४०-३१ ।।
 
शांतिर्नाम च तत्रेंद्रः सर्वभोगसमन्वितः ।।
विहंगॄमाद्या देवाश्च तेषामिंद्रो वृषः स्मृतः ।। ४०-३२ ।।
 
एकादशे द्वादशे तु निबोधकथायामि ते ।।
क्रभुवनामा च देवेंद्रो हरिनाभास्तथा सुराः ।। ४०-३३ ।।
 
सुत्रामाद्यास्तथा देवास्त्रयोदशतमेऽन्तरे ।।
दिवस्पतिर्महावीर्यस्तेषामिंद्रः प्रकीर्तितः ।। ४०-३४ ।।
 
चतुर्दशे चाक्षुपाद्या देवा इन्द्रः शुचिः स्मृतः ।।
एवं ते मनवः प्रोक्ता इंद्रा देवाश्च तत्त्वतः ।। ४०-३५ ।।
 
एकस्मिन्ब्रह्यदिवसे स्वाधिकारं प्रभुंजते ।। ४०-३६ ।।
 
लेकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता ।।
कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः ।। ४०-३७ ।।
 
मयि स्थिते ब्रह्मलोके ब्रह्माणां बहवो गताः ।।
तेषां संख्या न संख्यातु शक्तोऽस्म्यद्य द्विजोत्तम ।। ४०-३८ ।।
 
स्वर्गलोकमपि प्राप्य यावत्कालं श्रृणुष्व मे ।।
चत्वारो मनवोऽतीता मम श्रीश्चातिविस्तरा ।। ४०-३९ ।।
 
स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो ।।
ततः परं गमिष्यामि कर्मभूमिं श्रृणुष्व मे ।। ४०-४० ।।
 
मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत ।।
वदतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ।। ४०-४१ ।।
 
अहमांस पुरा शक्र गृध्रः पापो विशेषतः ।।
स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ।। ४०-४२ ।।
 
एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो ।।
पतितो व्याधशस्त्रेण सायं विष्णोर्गृहांगणे ।। ४०-४३ ।।
 
मयि कंठगतप्राणे भषणो मांसलोलुपः ।।
जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः ।। ४०-४४ ।।
 
वहन्मां स्वमुखेनैव भीतोऽन्यैर्भषणैस्तथा ।।
गतः प्रदक्षिणा कारं विष्णोस्तन्मंदिरं प्रभो ।। ४०-४५ ।।
 
तेनैव तुष्टिमापन्नो ह्यंतरात्मा जगन्मयः ।।
मम चापि शुनश्चापि दत्तावन्परमं पदम् ।। ४०-४६ ।।
 
प्रदक्षिणा कारतया गतस्यापीदृशं फलम् ।।
संप्राप्तं विबुधश्रेष्ट किं पुनः सम्यगर्चनात् ।।४०-४७ ।।
 
इत्युक्तो देवराजस्तु सुधर्मेण महात्मना ।।
मनसा प्रीतिमापन्नो हरिपूजा रतोऽभवत् ।। ४०-४८ ।।
 
तथापि निर्जराः सर्वे भारते जन्मलिप्सवः ।।
समर्चयंति देवेशं नारायणमनामयम् ।।
तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ।। ४०-४९ ।।
 
नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् ।।
कथं भवत्युग्रभवस्य बंधस्तत्सङ्गलुब्धा यदि मुक्तिभाजः ।। ४०-५० ।।
 
ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयंति ।।
ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियांति हृष्टाः ।। ४०-५१ ।।
 
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरंति ।।
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबंति ।। ४०-५२ ।।
 
ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णांघ्रपद्मभजने रतचेतनास्च ।।
ते वै पुंनति च जगंति शरीरसंगात् संभाषणादपि ततो हरिरेव पूज्यः ।। ४०-५३ ।।
 
हरिपूजापरा यत्र महांतः शुद्धबुद्धयः ।।
तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज ।। ४०-५४ ।।
 
हरिरेव परो बन्धुर्हरिरेव परा गतिः ।।
हरिरेव ततः पूज्यो यतश्चेतन्यकारणम् ।। ४०-५५ ।।
 
स्वर्गापवर्गफलदं सदानंदं निरामयम् ।।
पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति ।। ४०-५६ ।।
 
पूजयंति हरिं ये तु निष्कामाः शुद्धमानसाः ।।
तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति ।। ४०-५७ ।।
 
यस्त्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः ।।
स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम ।। ४०-५८ ।।
 
इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज ।।
संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते ।। ४०-५९ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशोऽध्यायः ।।
 
</poem>