"नारदपुराणम्- पूर्वार्धः/अध्यायः ४२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
श्रीनारद उवाच ।।
कुतः सृष्टमिदं ब्रह्मञ्जगत्स्थावरजंगमम् ।।
प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन ।। ४२-१ ।।
 
ससागरः सगगनः सशैलः सबलाहकः ।।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ।। ४२-२ ।।
 
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।।
शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम् ।। ४२-३ ।।
 
कीदृशो जीवतां जीवः क्व वा गच्छंति ये मृताः ।।
अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान् ।। ४२-४ ।।
 
सनंदन उवाच ।।
श्रृणु नारद वक्ष्यामि चेतिहासं पुरातनम् ।।
भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते ।। ४२-५ ।।
 
कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम् ।।
भृगुमहर्षिमासीनं भरद्वाजोऽन्वपृच्छत ।। ४२-६ ।।
 
भरद्वाज उवाच ।।
कथं जीवो विचरति नानायोनिषु संततम् ।।
कथं मुक्तिश्च संसाराज्जायते तस्य मानद ।। ४२-७ ।।
 
यश्च नारायणः स्रष्टा स्वयंभूर्भगवन्स्वयम् ।।
सेव्यसेवकभावेन वर्तेते इति तौ सदा ।। ४२-८ ।।
 
प्रविशंति लये सर्वे यमीशं सचराचराः ।।
लोकानां रमणः सोऽयं निर्गुणश्च निरंजनः ।। ४२-९ ।।
 
अनीर्दश्योऽप्रतर्क्यश्च कथं ज्ञायेत कैर्मुने ।।
कथमेनं परात्मानं कालशक्तिदुरन्वयम् ।। ४२-१० ।।
 
अतर्क्यचरितं वेदाः स्तुवन्ति कथमादरात् ।।
जीवो जीवत्वमुल्लंघ्य कथं ब्रह्म समन्वयात् ।। ४२-११ ।।
 
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि कृपानिधे ।।
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ।। ४२-१२ ।।
 
महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् ।।
भृगुरुवाच ।।
मानसो नाम यः पूर्वो विश्रुतो वे महर्षिभिः ।। ४२-१३ ।।
 
अनादिनिधनो देवस्तथा तेभ्योऽजरामरः ।।
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ।। ४२-१४ ।।
 
यतः सृष्टानि भूतानि जायंते च म्रियंति च ।।
सोऽमृजत्प्रथमं देवो महांतं नाम नामतः ।। ४२-१५ ।।
 
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ।।
आकाशादभवद्वारि सलिलादग्निमारुतौ ।। ४२-१६ ।।
 
अग्निमारुतसंयोगात्ततः समभवन्मही ।।
ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयंभुवा ।। ४२-१७ ।।
 
तस्मात्पद्मात्समभवद्व्रह्मा वेदमयो विधिः ।।
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् ।। ४२-१८ ।।
 
ब्रह्मा वै स महातेजा य एते पंच धातवः ।।
शैलास्तस्यास्थिसंधास्तु मेदो मसिं च मेदिनी ।। ४२-१९ ।।
 
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ।।
पवनश्चैव निश्वासस्तेजोऽग्निर्निम्नगाः शिराः ।। ४२-२० ।।
 
अग्नीषोमौ च चंद्रार्कौ नयने तस्य विश्रुते ।।
नभश्चोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः ।। ४२-२१ ।।
 
दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः ।।
स एष भगवान्विष्णुरनन्त इति विश्रुतः ।। ४२-२२ ।।
 
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ।।
अहंकारस्य यः स्रष्टा सर्वभूतभवायवै ।।
ततः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ।। ४२-२३ ।।
 
भग्द्वाज उवाच ।।
गगनस्य दिशां चैव भूतलस्वानिलस्य च ।।
कान्यत्र परिमाणानि संशयं छिंधि तत्त्वतः ।। ४२-२४ ।।
 
भृगुरुवाच ।।
अनंतमेतदाकाशं सिद्धदैवतसोवितम् ।।
रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते ।। ४२-२५ ।।
 
ऊर्ध्वं गतेरधस्तात्तु चंद्रादित्यौ न पश्यतः ।।
तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः ।। ४२-२६ ।।
 
ते चाप्यन्तं न पश्यंति नभसः प्रथितौजसः ।।
दुर्गमत्वादनंतत्वादिति मे वद मानद ।। ४२-२७ ।।
 
उपरिष्टोपरिष्टात्तु प्ज्वलद्भिः स्वयंप्रभघैः ।।
निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि ।। ४२-२८ ।।
 
प्रथिव्यंते समुद्रास्तु समुद्रांते तमः स्मृतम् ।।
तमसोंऽते जलं प्राहुर्जलस्यांतेऽग्निरेव च ।। ४२-२९ ।।
 
रसातलांते सलिलं जलांते पन्नगाधिपाः ।।
तदंते पुनराकाशमाकाशांते पुनर्जलम् ।। ४२-३० ।।
 
एवमंतं भगवतः प्रमाणं सलिलस्य च ।।
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ।। ४२-३१ ।।
 
अग्निमारुततोयानां वर्णा क्षितितलस्य च ।।
आकाशसदृशा ह्येते भिद्यंते तत्त्वदशनात् ।। ४२-३२ ।।
 
पठंति चैव मुनयः शास्त्रेषु विविधेषु च ।।
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ।। ४२-३३ ।।
 
अदृश्यो यस्त्वगम्यो यः कः प्रमाण मुदीरयेत् ।।
सिद्धानां देवतानां च परिमीता यदा गतिः ।। ४२-३४ ।।
 
तदागण्यमनंतस्य नामानंतेति विश्रुतम् ।।
नामधेयानुरुपस्य मानसस्य महात्मनः ।। ४२-३५ ।।
 
यदा तु दिव्यं यद्रूपं ह्रसते वर्द्धते पुनः ।।
कोऽन्यस्तद्वेदितुं शक्यो योऽपि स्यात्तद्विधोऽपरः ।। ४२-३६ ।।
 
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ।। ४२-३७ ।।
 
भरद्वाज उवाच ।।
पुष्करो यदि संभूतो ज्येष्टं भवति पुष्करम् ।।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ।। ४२-३८ ।।
 
भृगुरुवाच ।।
मानसस्येह या मूर्तिर्ब्रह्यत्वं समुपागता ।।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ।। ४२-३९ ।।
 
कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः ।।
तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः ।। ४२-४० ।।
 
भरद्वाज उवाच ।।
प्रजाविसर्गं विविधं कथं स सृजति प्रभुः ।।
मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम ।। ४२-४१ ।।
 
भृगुरुवाच ।।
प्रजाविसर्गं विविधं मानसो मनसाऽसृजत् ।।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ।। ४२-४२ ।।
 
यत्प्राणाः सर्वभूतानां सृष्टं प्रथमतो जलम् ।।
यत्प्राणाः सर्वभूतानां वर्द्धंते येन च प्रजाः ।। ४२-४३ ।।
 
परित्यक्ताश्च न श्यंति तेनदं सर्वमावृत्तम् ।।
पृथिवी पर्वता मेघा मूर्तिमंतश्च ये परे ।।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः ।। ४२-४४ ।।
 
भरद्वाज उवाच ।।
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ।।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ।। ४२-४५ ।।
 
भृगुरुवाच ।।
ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे ।।
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् ।। ४२-४६ ।।
 
तेऽतिष्टन्ध्यानमालंब्य मौनमास्थाय निश्चलाः ।।
त्यक्ताहाराः स्पर्द्धमाना दिव्यं विर्षशतं द्विजाः ।। ४२-४७ ।।
 
तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ।।
दिव्या सरस्वती तत्र संबभूव नभस्तलात् ।। ४२-४८ ।।
 
पुरास्तिमितमाकाशमनंतमचलोपमम् ।।
नष्टचंद्रार्कपवनं प्रसुप्तमिव संबभौ ।। ४२-४९ ।।
 
ततः सलिलमुत्पन्नं तमसीव तमः परम् ।।
तस्माञ्च सलिलोत्पीडादुदतिष्टत मारुतः ।। ४२-५० ।।
 
यथाभवनमच्छिद्रं निःशब्दमिव लक्ष्यते ।।
तञ्चाभसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ।। ४२-५१ ।।
 
तथा सलिलसंरुद्धे नभसोंऽतं निरंतरे ।।
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ।। ४२-५२ ।।
 
एषु वा चरते वायुरर्णवोत्पीडसंभवः ।।
आकाशस्थानमासाद्य प्रशांतिं नाधिगच्छति ।। ४२-५३ ।।
 
तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः ।।
प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः ।। ४२-५४ ।।
 
अग्निः पवनसंयुक्तः खं समाक्षिपते जलम् ।।
तदग्निवायुसंपर्काद्धनत्वमुपपद्यते ।। ४२-५५ ।।
 
तस्याकाशं निपतितः स्नेहात्तिष्टति योऽपरः ।।
स संघातत्वमापन्नो भूमित्वमनुगच्छति ।। ४२-५६ ।।
 
रसानां सर्वगंधानां स्नेहानां प्राणिनां तथा ।।
भूमिर्यो निरियं ज्ञेया यस्याः सर्वं प्रसूयते ।। ४२-५७ ।।
 
भरद्वाज उवाच ।।
य एते धातवः पंच रक्ष्या यानसृजत्प्रभुः ।।
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः ।। ४२-५८ ।।
 
यदाऽसृजत्सहस्त्राणि भूतानां स महामतिः ।।
पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते ।। ४२-५९ ।।
 
भृगुरुवाच ।।
अमितानि महाष्टानि यांति भूतानि संभवम् ।।
अतस्तेषां महाभूतशब्दोऽयमुपपद्यते ।। ४२-६० ।।
 
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः ।।
पृथिवी चात्र संघातः शरीरं पांचभौतिकम् ।। ४२-६१ ।।
 
इत्यतः पंचभिर्युक्तैर्युक्तं स्थावरजंगमम् ।।
श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेंद्रियसंज्ञिताः ।। ४२-६२ ।।
 
भरद्वाज उवाच ।।
पंचभिर्यदि भूतैस्तु युक्ताः स्थावरजंगमाः ।।
स्थावराणां न दृश्यंते शरीरे पंच धातवः ।। ४२-६३ ।।
 
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।।
वृक्षाणां नोपलभ्यंते शरीरे पंच धातवः ।। ४२-६४ ।।
 
व श्रृण्वंति न पश्यंति न गंधरसवेदिनः ।।
न च स्पर्शं हि जानंति ते कथं पंच धातवः ।। ४२-६५ ।।
 
अद्रवत्वादनिग्नित्वादभूमित्वादवायुतः ।।
आकाशस्याप्रमेयत्वादृक्षाणां नास्ति भौतिकम् ।। ४२-६६ ।।
 
भृगुरुवाच ।।
घनानामपि वृक्षणामाकाशोऽस्ति न संशयः ।।
तेषां पुष्पपलव्यक्तिर्नित्यं समुपपद्यते ।। ४२-६७ ।।
 
ऊष्मतो म्लायते पर्णं त्वक्फलं पुष्पमेव च ।।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ।। ४२-६८ ।।
 
वाय्यग्न्यशनिनिर्धोषैः फलं पुष्पं विशीर्यते ।।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वंति पादपाः ।। ४२-६९ ।।
 
वल्ली वेष्टयते वृक्षान्सर्वतश्चैव गच्छति ।।
नह्यदृष्टश्च मार्गोऽस्ति तस्मात्पश्यंति पादपाः ।। ४२-७० ।।
 
पुण्यापुण्यैस्तथा गधैर्धूपैश्च विविधैरपि ।।
अरोगाः पुष्पिताः संति तस्माज्जिघ्रंति पादपाः ।। ४२-७१ ।।
 
सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणात् ।।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ।। ४२-७२ ।।
 
तेन तज्जलमादत्ते जरयत्यग्निमारुतौ ।।
आहारपरिणामाञ्च स्नहो वृद्धिश्च जायते ।। ४२-७३ ।।
 
जंगमानां च सर्वेषां शरीरे पंञ्च धातवः ।।
प्रत्येकशः प्रभिद्यंते यैः शरीरं विचेष्टते ।। ४२-७४ ।।
 
त्वक् च मांसं तथास्थीनि मज्जा स्नायुश्च पंचमः ।।
इत्येतदिह संघातं शरीरे पृथिवीमये ।। ४२-७५ ।।
 
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च ।।
अग्निर्जनयते यञ्च पंचाग्नेयाः शरीरिणः ।। ४२-७६ ।।
 
श्रोत्रं घ्राणं तथास्यं च हृदयं कोष्टमेव च ।।
आकाशात्प्राणिनामेते शरीरे पंच धातवः ।। ४२-७७ ।।
 
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।।
इत्यापः पंचधा देहे भवंति प्राणिनां सदा ।। ४२-७८ ।।
 
प्राणात्प्रीणयते प्राणी व्यानाव्द्यायच्छते तथा ।। ४२-७९ ।।
गच्छत्यपानोऽधश्चैव समानो ह्यद्यवस्थितः ।।
 
उदानादुच्छ्वसितीति पञ्च (प्रति)भदाञ्च भाषते ।।
इत्येते वायवः पंच वेष्टयंतीहदेहिनम् ।। ४२-८० ।।
 
भूमेर्गंधगुणान्वेत्ति रसं चादूभ्यः शरीरवान् ।।
तस्य गंधस्य वक्ष्यामि विस्तराभिहितान्गुणान् ।। ४२-८१ ।।
 
इष्टश्चानुष्टगंधश्च मधुरः कटुरेव च ।।
निर्हारी संहतः स्निग्धो रुक्षो विशद एव च ।। ४२-८२ ।।
 
एवं नवविधो ज्ञेयः पार्थिवो गंधविस्तरः ।।
ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना ।। ४२-८३ ।।
 
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ।।
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः श्रृणु ।। ४२-८४ ।।
 
रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः ।।
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।। ४२-८५ ।।
 
एष षडिधविस्तारो रसो वारिमयः स्मृतः ।।
शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते ।। ४२-८६ ।।
 
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ।।
ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ।। ४२-८७ ।।
 
शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ।।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः ।। ४२-८८ ।।
 
एवं षोडशविस्तारो ज्योतीरुपगुणः स्मृतः ।।
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ।। ४२-८९ ।।
 
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ।।
षड्जो ऋषभगांधारौ मध्यमोधैवतस्तथा ।। ४२-९० ।।
 
पंचमश्चापि विज्ञेयस्तथा चापि निषादवान् ।।
एष सप्तविधः प्रोक्तो गुण आकाशसंभवः ।। ४२-९१ ।।
 
ऐश्वर्य्येण तु सर्वत्र स्थितोऽपि पयहादिषु ।।
मृदंगभेरीशंखानां स्तनयित्नो रथस्य च ।। ४२-९२ ।।
 
एवं बहुविधाकारः शब्द आकाशसंभवः ।।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ।। ४२-९३ ।।
 
उष्णः शीतः सुखं दुःखं स्निग्धो विशद एव च ।।
तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरोऽपि च ।। ४२-९४ ।।
 
शब्दस्पर्शौ तु विज्ञेयौ द्विगुणौ वायुरित्युत ।।
एवमेकादशविधो वायव्यो गुण उच्यते ।। ४२-९५ ।।
 
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ।।
अव्याहतैश्चेतयते नवेति विषमा गतिः ।। ४२-९६ ।।
 
आप्यायंते च ते नित्यं धातवस्तैस्तु धातुभिः ।।
आपोऽग्निर्मारुस्चैव नित्यं जाग्रति देहिषु ।। ४२-९७ ।।
 
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः ।।
पार्थिवं धातुमासाद्य यथा चेष्टयते बली ।। ४२-९८ ।।
 
श्रितो मूर्द्धानमग्निस्तु शरीरं परिपालयेत् ।।
प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते ।। ४२-९९ ।।
 
स जंतुः सर्वभूतात्मा पुरुषः स सनातनः ।।
मनो बुद्धिरहंकारो भूतानि विषयश्च सः ।। ४२-१०० ।।
 
एवं त्विह स सर्वत्र प्राणैस्तु परिपाल्यते ।।
पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ।। ४२-१०१ ।।
 
वस्तिमूलं गुदं चैव पावकं समुपाश्रितः ।।
वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते ।। ४२-१०२ ।।
 
प्रयत्ने कर्मनियमे यच एकस्त्रिषु वर्तते ।।
उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः ।। ४२-१०३ ।।
 
संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः ।।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ।। ४२-१०४ ।।
 
बाहुष्वग्निस्तु विततः समानेन समीरितः ।।
रसान्वारु दोषांश्च वर्तयन्नति चेष्टते ।। ४२-१०५ ।।
 
अपानप्राणयोर्मध्ये प्राणापानसमीहितः ।।
समन्वितस्त्वधिष्टानं सम्यक् पचति पावकः ।। ४२-१०६ ।।
 
आस्पंहि पायुपर्यंतमंते स्याद्गुदसंज्ञिते ।।
रेतस्तस्मात्प्रजायंते सर्वस्रोतांसि देहिनाम् ।। ४२-१०७ ।।
 
प्राणानां सन्निपाताश्च सन्निपातः प्रजायते ।।
ऊष्मा चाग्निरीति ज्ञेयो योऽन्नं पचति देहिनाम् ।। ४२-१०८ ।।
 
अग्निवेगवहः प्राणो गुदांते प्रतिहन्यते ।।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ।। ४२-१०९ ।।
 
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः ।।
नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः ।। ४२-११० ।।
 
प्रस्थिता हृदयात्सर्वे तिर्यगूर्ध्दमधस्तथा ।।
वहंत्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ।। ४२-१११ ।।
 
एष मार्गोऽपि योगानां येन गच्छंति तत्पदम् ।।
जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन् ।। ४२-११२ ।।
 
एवं सर्वेषु विहितप्राणापानेषु देहिनाम् ।।
तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः ।। ४२-११३ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।।
 
</poem>