"नारदपुराणम्- पूर्वार्धः/अध्यायः ४७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनंदन उवाच ।।
एतदध्यात्ममानाढ्यं वचः केशिध्वजस्य सः ।।
खांडिक्योऽमृतवच्छ्रत्वा पुनराह तमीरयन् ।। ४७-१ ।।
 
खांडिक्य उवाच ।।
तद् ब्रूहि त्वं महाभाग योगं योगविदुत्तम ।।
विज्ञातयो गशास्त्रार्थस्त्वमस्यां निमिसंततौ ।। ४७-२ ।।
 
केशिध्वज उवाच ।।
योगस्वरूपं खांडिक्य श्रूयतां गदतो मम ।।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ।। ४७-३ ।।
 
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।।
बंधस्य विषयासंगि मुक्तेर्निर्विषयं तथा ।। ४७-४ ।।
 
विषयेभ्यः समाहृत्य विज्ञानात्मा बुधो मनः ।।
चिंतयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ।। ४७-५ ।।
 
आत्मभावं नयेत्तेन तद्ब्रीह्यध्यापनं मनः ।।
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ।। ४७-६ ।।
 
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ।। ४७-७ ।।
 
एवमत्यंतवैशिष्ट्ययुक्तधर्मोपलक्षणम् ।।
यस्य योगः स वै योगी मुमुक्षुरमिधीयते ।। ४७-८ ।।
 
योगयुक् प्रथमं योगी युंजमानोऽभिधीयते ।।
विनिष्यन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ।। ४७-९ ।।
 
यद्यंतरायदोषेण दूष्यते नास्य मानसम् ।।
जन्मांतरैरभ्यसनान्मुक्तिः पूर्वस्य जायते ।। ४७-१० ।।
 
विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि ।।
प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ।। ४७-११ ।।
 
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ।।
सेवेत योगी निष्कामो यिगितां स्वमनो नयन् ।। ४७-१२ ।।
 
स्वाध्यायशौचसंतोषतपांसि नियमान्यमान् ।।
कुर्व्वीत ब्रह्मणि तथा परिस्मिन्प्रवणं मनः ।। ४७-१३ ।।
 
एते यमाश्च नियमाः पंच पञ्चप्रकीर्तिताः ।।
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ।। ४७-१४ ।।
 
एवं भद्रासनादीनां समास्थाय गुणैर्युतः ।।
यमाख्यैर्नियमाख्यैश्च युंजीत नियतो यतिः ।। ४७-१५ ।।
 
प्राणाख्यमवलंबस्थमभ्यासात्कुरुते तु यत् ।।
प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ।। ४७-१६ ।।
 
परस्परेणाभिभवं प्राणापानौ यदा निलौ ।।
कुरुतः सद्विधानेन तृतीयः संयमात्तयोः ।। ४७-१७ ।।
 
तस्य चांलबनवत्स्थूलं रूपं द्विषत्पते ।।
आलंबनमनंतस्य योगिनोऽभ्यसतः स्मृतम् ।। ४७-१८ ।।
 
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।।
कुर्य्याञ्चित्तानुकारीणि प्रत्याहारपरायणः ।। ४७-१९ ।।
 
वश्यता परमा तेन जायते निश्चला त्मनाम् ।।
इंद्रियाणामवश्यैस्तैर्न योगी योगसाधकः ।। ४७-२० ।।
 
प्राणायामेन पवनैः प्रत्याहरेण चेंद्रियैः ।।
वशीकृतैस्ततः कुर्यात्स्थिरं चेतः शुभाश्रये ।। ४७-२१ ।।
 
खांडिक्य उवाच ।।
कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः ।।
यदाधारमशेषं तु हंति दोषसमुद्भवम् ।। ४७-२२ ।।
 
केशिध्वज उवाच ।।
आश्रयश्चेतसो ज्ञानिन् द्विधा तञ्च स्वरूपतः ।।
रूपं मूर्तममूर्तं च परं चापरमेव च ।। ४७-२३ ।।
 
त्रिविधा भावना रूपं विश्वमेतत्त्रिधोच्यते ।।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ।। ४७-२४ ।।
 
कर्मभावात्मिका ह्येका ब्रह्मभावात्मिकापरा ।।
उभयात्मिका तथैवान्या त्रिविधा भावभावना ।। ४७-२५ ।।
 
सनकाद्या सदा ज्ञानिन् ब्रह्मभावनया युताः ।।
कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः ।। ४७-२६ ।।
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा ।।
 
अधिकारबोधयुक्तेषु विद्यते भावभावना ।। ४७-२७ ।।
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।।
 
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृप ।। ४७-२८ ।।
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।।
 
वचसामात्मसंतोद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ।। ४७-२९ ।।
तच्च विष्णोः परं रूपमरूपस्याजनस्य च ।।
विश्वस्वरूपं वैरूप्यलक्षणं परमात्मनः ।। ४७-३० ।।
 
न तद्योगयुजा शक्यं नृप चिंतयितुं यतः ।।
ततः स्थूलं हरे रूपं चिंत्यं यञ्चक्षुगोचरम् ।। ४७-३१ ।।
 
हिरण्यगर्भो भगवान्वासवोऽथ प्रजापतिः ।।
मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहाः ।। ४७-३२ ।।
 
गन्धर्वा यक्षदैत्याश्च सकला देवयोतयः ।।
मनुष्याः पशवः शैलासमुद्राः सरितो द्रुमाः ।। ४७-३३ ।।
 
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।।
प्रधानादिविशेषांताश्चेतनाञ्चेतनात्मकम् ।। ४७-३४ ।।
 
एकपादं द्विपादं च बहुपादमपादकम् ।।
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ।। ४७-३५ ।।
 
एतत्सर्वमिदं विंश्वं जगदेतञ्चराचरम् ।।
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ।। ४७-३६ ।।
 
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ।। ४७-३७ ।।
 
येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा ।।
असारभूते संसारे प्रोक्ता तत्र महामते ।। ४७-३८ ।।
 
संसारतापानखिलानवाप्नोत्यनुसंज्ञितान् ।।
तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ संज्ञिता ।। ४७-३९ ।।
 
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ।।
अप्राणवत्सु खल्वल्पा स्थावरेषु ततोऽधिका ।। ४७-४० ।।
 
सरीसृपेषु तेभ्योऽन्याप्यतिशक्त्या पतत्रिशु ।।
पतत्र्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवोऽधिकाः ।। ४७-४१ ।।
 
पशुभ्यो मनुजाश्चातिशक्त्या पुंसःप्रभाविताः ।।
तेभ्योऽपि नागगंधर्वयक्षाद्या देवता नृप ।। ४७-४२ ।।
 
शक्रः समस्तदेवेभ्यस्ततश्चातिप्रजापतिः ।।
हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ।। ४७-४३ ।।
 
एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ।।
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ।। ४७-४४ ।।
 
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ।।
अमृर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ।। ४७-४५ ।।
 
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्टिताः ।।
नहि स्वरूपरूपं वै रूपमन्यद्धरेर्महत् ।। ४७-४६ ।।
 
समस्तशक्तिरूपाणि तत्करोति जनेश्वर ।।
देवतिर्यङ्मनुष्यादिचेष्टावंति स्वलीलया ।। ४७-४७ ।।
 
जगतामुपकाराय तस्य कर्मनिमित्तजा ।।
चेष्टा तस्याप्रमेयस्य व्यापिन्यविहितात्मिका।। ४७-४८ ।।
 
तद्रूपं विश्वरूपरय चिंत्यं योग युजा नृप ।।
तस्य ह्यात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ।। ४७-४९ ।।
 
यथाग्निरूद्धतशिखः कक्षं दहति सानिलः ।।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ।। ४७-५० ।।
 
तस्मात्समस्तशक्तीनामांद्यांते तत्र चेतसः ।।
कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा ।। ४७-५१ ।।
 
शुभांश्रयः सचित्तस्य सर्वगस्य तथात्मनः ।।
त्रिभावभावनातीतो मुक्तये योगिनां नृप ।। ४७-५२ ।।
 
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः ।।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ।। ४७-५३ ।।
 
मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहः ।।
एषा वै धारणा ज्ञेया यञ्चितं तत्र धार्यते ।। ४७-५४ ।।
 
तत्र मूर्त्तं हरे रूपं यादृक् चिंत्यं नराधिप ।।
तच्छ्रूयता मनाधारे धारणा नोपपद्यते ।। ४७-५५ ।।
 
प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम् ।।
सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम् ।। ४७-५६ ।।
 
समकर्णांसविन्य स्तचारुकर्णोपभूषणम् ।।
कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ।। ४७-५७ ।।
 
बलित्रिंभागिना भुग्ननाभिना चोदरेण वै ।।
प्रलंबाष्टभुजं विष्णुमथ वापि चतुर्भुजम् ।। ४७-५८ ।।
 
समस्थितोरुजघनं सुस्थिरांघ्रिकरांबुजंम् ।।
चिंतयेद्बूह्यभूतं तं पीतनिर्मलवाससम् ।। ४७-५९ ।।
 
किरीटचारुकेयूरकटकादिविभूषितम् ।।
शार्ङ्गशंखगदाखङ्गप्रकाशवलयांचितम् ।। ४७-६० ।।
 
चिंतयेत्तन्मयो योगी समाधायात्ममानसम् ।।
तावद्यावद् दृढीभूता तत्रैव नृप धारणा ।। ४७-६१ ।।
 
वदतस्तिष्टतो यद्वा स्वेच्छया कर्म कुर्वतः ।।
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ।। ४७-६२ ।।
 
ततः शंखगदाचक्रशार्ङ्गादि रहितं बुधः ।।
चिंतयेद्भगवद्रूपं प्रशांतं साक्षसूत्रकम् ।। ४७-६३ ।।
 
सा यदा धारणा तद्वदवस्थानवती ततः ।।
किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ।। ४७-६४ ।।
 
तदेकावयवं चैवं चेतसा हि पुनर्बुधः ।।
कुर्यात्ततोऽवयविनि प्राणिधानपरो भवेत् ।। ४७-६५ ।।
 
तद्रूपप्रत्यये चैकसंनतिश्चान्यनिःस्पृहा ।।
तद्ध्यानं प्रथमैरंगैः षङ्भिर्निष्पाद्यते नृप ।। ४७-६६ ।।
 
तस्यैवं कल्पनाहीनं स्वरूपग्रहणं हि यत् ।।
मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ।। ४७-६७ ।।
 
विज्ञानं प्रापकं प्राप्ये परं ब्रह्मणि पार्थिव ।।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ।। ४७-६८ ।।
 
क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत् ।।
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ।। ४७-६९ ।।
 
तद्भावभावनापन्नस्ततोऽसौ परमात्मनः ।।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ।। ४७-७० ।।
 
विभेदजनके ज्ञाने नाशमात्यंतिकं गते ।।
आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति ।। ४७-७१ ।।
 
इत्युक्तस्ते मया योगः खांडिक्य परिपृच्छतः ।।
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ।। ४७-७२ ।।
 
खांडिक्य उवाच ।।
कथितो योगसद्भावः सर्वमेव कृतं मम ।।
तवोपदेशात्सकलो नष्टश्चित्तमलो मम ।। ४७-७३ ।।
 
ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा ।।
नरेद्रं गदितुं शक्यमपि विज्ञेयवेदभिः ।। ४७-७४ ।।
 
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ।।
परमार्थस्त्व संलाप्यो वचसां गोचरो न यः ।। ४७-७५ ।।
 
तद्गुच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ।।
यद्विमुक्तिपरो योगः प्रोक्तः केशिद्वजाव्ययः ।। ४७-७६ ।।
 
सनंदन उवाच ।।
यथार्हपूजया तेन खांडिक्येन स पूजितः ।।
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ।। ४७-७७ ।।
 
खांडिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये ।।
विशालामगमत्कृष्णे समावेशितमानसः ।। ४७-७८ ।।
 
स तत्रैकांतिको भूत्वा यमादिगुणसंयुतः ।।
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ।। ४७-७९ ।।
 
केशिध्वजोऽपि मुक्तयर्थं स्वकर्मक्षपणोन्मुखः ।।
बुभुजे विषयान्कर्म चक्रे चानभिसंधितम् ।। ४७-८० ।।
 
स कल्याणोपभोगैश्च क्षीणपापोऽमलस्ततः ।।
अवाप सिद्धिमत्यंतत्रितापक्षपणीं मुने ।। ४७-८१ ।।
 
एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान् ।।
तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते ।। ४७-८२ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमोऽध्यायः ।।
 
</poem>