"नारदपुराणम्- पूर्वार्धः/अध्यायः ४८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
नारद उवाच ।।
 
श्रुतं मया महामाग तापत्रयचिकित्सितम् ।।
तथापि मे मनो भ्रांतं न स्थितिं लभतेंऽजसा ।। ४८-१ ।।
 
आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् ।।
सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ।। ४८-२ ।।
 
सूत उवाच ।।
तच्छ्रृत्वा नारदेनोक्तं ब्रह्मपुत्रः सनंदनः ।।
उवाच हर्षसंयुक्तः स्मरन्भरतचेष्टितम् ।। ४८-३ ।।
 
सनंदन उवाच ।।
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।।
यं श्रुत्वा त्वन्मनो भ्रांतमास्थानं लभते भृशम् ।। ४८-४ ।।
 
आसीत्पुरा मुनिश्रेष्ट भरतो नाम भूपतिः ।।
आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ।। ४८-५ ।।
 
स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् ।।
पालयामास धर्मेण पितृवद्रंजयन् प्रजाः ।। ४८-६ ।।
 
ईजे च विविधैर्यज्ञैर्भगवंतमधोक्षजम् ।।
सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः ।। ४८-७ ।।
 
ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः ।।
मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम् ।। ४८-८ ।।
 
शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् ।।
तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने ।। ४८-९ ।।
 
चकार भक्तिभावेन यथालब्धसपर्यया ।।
नित्यं प्रातः समाप्लुत्य निर्मलेऽभलि नारद ।। ४८-१० ।।
 
उपतिष्टेद्रविं भक्त्या गृणन्ब्रह्माक्षरं परम् ।।
अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ।। ४८-११ ।।
 
समाहृतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः ।।
फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः ।। ४८-१२ ।।
 
पूजयन्प्रयतो भूत्वा भक्तिप्रसरसंप्लुतः ।।
सचैकदा महाभागः स्नात्वा प्रातः समाहितः ।। ४८-१३ ।।
 
चक्रनद्यां जपंस्तस्थौ मुहुर्तत्रयमंबुनि ।।
अथाजगाम तत्तीरं जलं पातुं पिपासिता ।। ४८-१४ ।।
 
आसन्नप्रसवा ब्रह्मन्नैकैव हिणी वनात् ।।
ततः समभवत्तत्र पीतप्राये जले तया ।। ४८-१५ ।।
 
सिंहस्य नादः सुमहान् सर्वप्राणिभयंकरः ।।
ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम् ।। ४८-१६ ।।
 
अत्युञ्चारोहणेनास्या नद्यां गर्भः पपात ह ।।
तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ।। ४८-१७ ।।
 
जग्राह भरतो गर्भात्पतितं मृगपोतकम् ।।
गर्भप्रच्युतिदुःखेन प्रोत्तुंगाक्रणेन च ।। ४८-१८ ।।
 
मुनीन्द्र सा तु हरिणी निपपात ममार च ।।
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ।। ४८-१९ ।।
 
मृगपोतं समागृह्य स्वमाश्रममुपागतः ।।
चकारानुदिनं चासौ मृगपोतस्य वै नृपः ।। ४८-२० ।।
 
पोषणं पुष्यमाणश्च स तेन ववृधे मुने ।।
चचाराश्रमपर्यंतं तृणानि गहनेषु सः ।। ४८-२१ ।।
 
दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः ।।
प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम् ।। ४८-२२ ।।
 
पुनश्च भरतस्याभूदाश्रमस्योटजांतरे ।।
तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि ।। ४८-२३ ।।
 
आसीञ्चेतः समासक्तं न तथा ह्यच्युते मुने ।।
विमुक्तराज्यतनयः प्रोज्झिताशेषबांधवः ।।. ४८-२४ ।।
 
ममत्व स चकारोञ्चैस्तस्मिन्हरिणपोतके ।।
किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः ।। ४८-२५ ।।
 
चिरायमाणे निष्कांते तस्यासीदिति मानसम् ।।
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ।। ४८-२६ ।।
 
समाधिभंगस्तस्यासीन्ममत्वाकृष्टमानसः ।।
कालेन गच्छता सोऽथ कालं चक्रे महीपतिः ।। ४८-२७ ।।
 
पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ।।
मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ।। ४८-२८ ।।
 
मृगो बभूव स मुने तादृशीं भावनां गतः ।।
जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम ।। ४८-२९ ।।
 
विहाय मातरं भूयः शालग्राममुपाययौ ।।
शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् ।। ४८-३० ।।
 
मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ।।
तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ।। ४८-३१ ।।
 
सदाचारवतां शुद्धे यागिनां प्रवरे कुले ।।
सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित् ।। ४८-३२ ।।
 
अपश्यत्स मुनिश्रेष्टः स्वात्मानं प्रकृतेः परम् ।।
आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने ।। ४८-३३ ।।
 
सर्वभूतान्यभे देन ददर्श स महामतिः ।।
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ।। ४८-३४ ।।
 
न ददर्श च कर्माणि शास्त्राणि जगृहे न च ।।
उक्तोऽपि बहुशः किंचिज्जंड वाक्यमभाषत ।। ४८-३५ ।।
 
तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् ।।
अपद्धस्तवपुः सोऽपि मलिनांबरधृङ् मुने ।। ४८-३६ ।।
 
क्लिन्नदंतांतरः सर्वैः परिभूतः स नागरैः ।।
संमानेन परां हानिं योगर्द्धेः कुरुते यतः ।। ४८-३७ ।।
 
जनेनावमतो योगी योगसिद्धिं च विंदति ।।
तस्माञ्चरेत वै योगी सतां धर्ममदूषयन् ।। ४८-३८ ।।
 
जना यथावमन्येयुर्गच्छेयुर्नैव संगतिम् ।।
हिरण्यगर्भवचनं विचिंत्येत्थं महामतिः ।। ४८-३९ ।।
 
आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ।।
भुंक्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान् ।। ४८-४० ।।
 
यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् ।।
पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबांधवैः ।। ४८-४१ ।।
 
कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ।।
सरूक्षपीनावयवो जडकारी च कर्मणि ।। ४८-४२ ।।
 
सर्वलोकोपकरणं बभूवाहारवेतनः ।।
तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ।। ४८-४३ ।।
 
क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत ।।
स राजा शिबिकारूढो गंतुं कृतमतिर्द्विज ।। ४८-४४ ।।
 
बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ।।
श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ।। ४८-४५ ।।
 
प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ।।
उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः ।। ४८-४६ ।।
 
नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ।।
गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ।। ४८-४७ ।।
 
जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् ।।
ययौ जडगतिस्तत्र युगमात्रावलोकनम् ।। ४८-४८ ।।
 
कुर्वन्मतिमतां श्रेष्टस्ते त्वन्ये त्वरितं ययुः ।।
विलोक्य नृपतिः सोऽथ विषमं शिबिकागतम् ।। ४८-४९ ।।
 
किमेतदित्याह समं गम्यतां शिबिकावहाः ।।
पुनस्तथैव शिबिकां विलोक्य विषमां हसन् ।। ४८-५० ।।
 
नृपः किमेऽतदित्याह भवद्भिर्गम्यतेऽन्यथा ।।
भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः ।।
शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ।। ४८-५१ ।।
 
राजोवाच ।।
किं श्रांतोऽस्यल्पमध्वानं त्वयोढा शिबिका मम ।।
किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ।। ४८-५२ ।।
 
ब्राह्मण उवाच ।।
नाहं पीवा न चैवोढा शिबिका भवतो मया ।।
न श्रांतोऽस्मि न चायासो वोढान्योऽस्ति महीपते ।। ४८-५३ ।।
 
राजोवाच ।।
प्रत्यक्षं दृश्यते पीवात्वद्यापि शिबिका त्वयि ।।
श्रमश्च भारो द्वहने भवत्येव हि देहिनाम् ।। ४८-५४ ।।
 
ब्राह्मण उवाच ।।
प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद ।।
बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ।। ४८-५५ ।।
 
त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता ।।
मिथ्या तदप्यत्र भवान् श्रृणोतु वचनं मम ।। ४८-५६ ।।
 
भूमौ पादयुगं चाथ जंघे पादद्वये स्थिते ।।
ऊरु जंघाद्वयावस्थौ तदाधारं तथोदरम् ।। ४८-५७ ।।
 
वक्षस्थलं तथा बाहू स्कंधौ चोदरसंस्थितौ ।।
स्कंधाश्रितयें शिबिका ममाधारोऽत्र किंकृतः ।। ४८-५८ ।।
 
शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् ।।
तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ।। ४८-५९ ।।
 
अहं त्वं च तथान्ये च भूतैरुह्याश्च पार्थिव ।।
गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ।। ४८-६० ।।
 
कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते ।।
अविद्यासंचितं कर्मतश्चाशेषेषु जंतुषु ।। ४८-६१ ।।
 
आत्मा शुद्धोऽक्षरः शांतो निर्गुणः प्रकृते परः ।।
प्रवृद्ध्यपचयौ न स्त एकस्याखिलजंतुषु ।। ४८-६२ ।।
 
यदा नोपचयस्तस्य नचैवापचयो नृप ।।
तदापि बालिशोऽसि त्वं कया युक्त्या त्वयेरितम् ।। ४८-६३ ।
 
भूपादजंघाकट्यूरुजठरादिषु संस्थिता ।।
शिबिकेयं यदा स्कंधे तदा भारः समस्त्वया ।। ४८-६४ ।।
 
तथान्यजंतुभिर्भूप शिबिकोढान केवलम् ।।
शैलद्रुमगृहोत्थोऽपि पृथिवीसंभवोऽपि च ।। ४८-६५ ।।
 
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ।।
सोढव्यः सुमहान्भारः कतमो नृप ते मया ।। ४८-६६ ।।
 
यद्द्रव्यो शिबिका चेयं तद्द्रव्यो भूतसंग्रहः ।।
भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ।। ४८-६७ ।।
 
सनंदन उवाच ।।
एवमुक्त्वाऽभवंन्मौनी स वहञ्शिबिकां द्विजः ।।
सोऽपि राजाऽवतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ।। ४८-६८ ।।
 
राजोवाच ।।
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज ।।
कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ।। ४८-६९ ।।
 
यो भवान्यदपत्यं वा यदागमनकारणम् ।।
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ।। ४८-७० ।।
 
ब्राह्मण उवाच ।।
श्रूयतां कोऽहमित्येतद्वक्तुं भूप न शक्यते ।।
उपयोगनिमित्तं च सर्वत्रागमनक्रिया ।। ४८-७१ ।।
 
सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ।।
धर्माधर्मोद्भवौ भोक्तुं जंतुर्देहादिमृच्छति ।। ४८-७२ ।।
 
सर्वस्यैव हि भूपाल जंतोः सर्वत्र कारणम् ।।
धर्माधर्मौ यतस्तस्मात्कारणं पृच्छ्यते कुतः ।। ४८-७३ ।।
 
राजोवाच ।।
धर्माधर्मौ न संदेहः सर्वकार्येषु कारणम् ।।
उपभोगनिमित्तं च देहाद्देहांतरागमः ।। ४८-७४ ।।
 
यत्त्वेतद्भवता प्रोक्तं कोऽहमित्येतदात्मनः ।।
वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते ।। ४८-७५ ।।
 
योऽस्ति योऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते ।।
आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विजा ।। ४८-७६ ।।
 
ब्राह्मण उवाच ।।
शब्दोऽहमिति दोषाय नात्मन्येवं तथैव तत् ।।
अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ।। ४८-७७ ।।
 
जिह्वा ब्रवीत्यहमिति दंतौष्टतालुक नृप ।।
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ।। ४८-७८ ।।
 
किं हेतुभिर्वदूत्येषा वागेवाहमिति स्वयम् ।।
तथापि वागहमेद्वक्तुमित्थं न युज्यते ।। ४८-७९ ।।
पिंडः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः ।।
ततोऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम् ।। ४८-८० ।।
 
यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम् ।।
न देहोऽहमयं चान्ये वक्तुमेवमपीष्यते ।। ४८-८१ ।।
 
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।।
तददा हि को भवान्कोऽहमित्येतद्विफलं वचः ।। ४८-८२ ।।
 
त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः ।।
अयं च भवतो लोको न सदेतन्नृपोच्यते ।। ४८-८३ ।।
 
वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्टिता ।।
क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप ।। ४८-८४ ।।
 
वृक्षारूढो महाराजो नायं वदति ते जनः ।।
न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ।। ४८-८५ ।।
 
शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः ।।
अन्विष्यतां नृपश्रेष्टानन्ददाशिबिका त्वया ।। ४८-८६ ।।
 
एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् ।।
क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ।। ४८-८७ ।।
 
पुमान्स्त्री गौरजा बाजी कुंजरो विहगस्तरुः ।।
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ।। ४८-८८ ।।
 
पुमान्न देवो न नरो न पशुर्न च पादपः ।।
शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ।। ४८-८९ ।।
 
वस्तु राजेति यल्लेके यञ्च राजभटात्मकम् ।।
।। तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम् ।। ४८-९० ।।
 
यस्तु कालांतरेणापि नाशसंज्ञामुपैति वै ।।
परिणामादिसंभूतं तद्वस्तु नृप तञ्च किम् ।। ४८-९१ ।।
 
त्वं राजा सर्वसोकस्य पितुः पुत्रो रिपो रिपुः ।।
पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ।। ४८-९२ ।।
 
त्वं किमेतच्चिरः किं तु शिरस्तव तथो दरम् ।।
किमु पादादिकं त्वेतन्नैव किं ते महीपते ।। ४८-९३ ।।
 
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।।
कोऽहमित्यत्र निपुणं भूत्वा चिंतय पार्थिव ।। ४८-९४ ।।
 
एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् ।।
पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम् ।। ४८-९५ ।।
 
इति श्रृबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.ष्टचत्वारिंशोऽध्यायः ।।
 
</poem>