"नारदपुराणम्- पूर्वार्धः/अध्यायः ६०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनन्दन उवाच ।।
अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् ।।
तूर्ष्णीं ध्यानपरो धीमानेकांते समुपाविशत् ।। ६०-१ ।।
 
तमुवाचाशरीरी वाक् व्यासं पुत्रसमन्वितम् ।।
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ।। ६०-२ ।।
 
एको ध्यानपरस्तूष्णी किमास्से चिंतयन्निव ।।
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ।। ६०-३ ।।
 
तस्मादधीष्व भगवन्सार्द्ध पुत्रेण धीमता ।।
वेदान्वेदविदा चैव सुप्रसन्नमनाः सदा ।। ६०-४ ।।
 
तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् ।।
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ।। ६०-५ ।।
 
तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम ।।
वातोऽतिमात्रं प्रववौ समुद्रानिलवीजितः ।। ६०-६ ।।
 
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ।।
शुको वारितमात्रस्तु कौतूहलसमन्वितः ।। ६०-७ ।।
 
अपृच्छत्पितरं तत्र कुतो वायुरभूदयम् ।।
आख्यातुमर्हति भवान्सर्वं वायोर्विचैष्टितम् ।। ६०-८ ।।
 
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ।।
अनध्यायनिमित्तऽस्मिन्निदं वचनं मब्रवीत् ।। ६०-९ ।।
 
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः ।।
तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः ।। ६०-१० ।।
 
तस्यात्मनि स्वयं वेदान्बुद्ध्वा समनुचिंतय ।।
देवयानचरो विष्णोः पितृयानश्च तामसः ।। ६०-११ ।।
 
द्वावेतौ प्रत्ययं यातौ दिवं चाधश्च गच्छतः ।।
पिथिव्यामंतरिक्षे च यतः संयांति वायवः ।। ६०-१२ ।।
 
सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः ।।
तत्र देवगणाः साध्याः समभूवन्महाबलाः ।। ६०-१३ ।।
 
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ।।
उदानस्तस्य पुत्रोऽभूव्द्यानस्तस्याभवत्सुतः ।। ६०-१४ ।।
 
अपानश्च ततो जज्ञे प्राणश्चापि ततः परम् ।।
अनपत्योऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः ।। ६०-१५ ।।
 
पृथक्क्र्म्माणि तेषां तु प्रवक्ष्यामि यथा तथा ।।
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ।। ६०-१६ ।।
 
प्रीणनाञ्चैव सर्वेषां प्राण इत्यभिधीयते ।।
प्रेषयत्यभ्रसंघातान्धूमजांश्चोष्मजांस्तथा ।। ६०-१७ ।।
 
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ।।
अंबरे स्नेहमात्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ।। ६०-१८ ।।
 
आवहो नाम सोऽभ्येति द्वितीयः श्वसनो नदन् ।।
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ।। ६०-१९ ।।
 
अंतर्देहेषु चोदानं यं वदंति मनीषिणः ।।
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयते जलम् ।। ६०-२० ।।
 
उद्धृत्य ददते चापो जीमूतेभ्यो वनेऽनिलः ।।
योऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छती ।। ६०-२१ ।।
 
उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ।।
संनीयमाना बहुधा येन नीला महाघनाः ।। ६०-२२ ।।
 
वर्षमोक्षकृतारंभास्ते भवंति घनाघनाः ।।
योऽसौ वहति देवानां विमानानि विहायसा ।। ६०-२३ ।।
 
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ।।
येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः ।। ६०-२४ ।।
 
पंचमः स महावेगो विवहो नाम मारुतः ।।
यस्मिन्परिप्लवे दिव्या वहंत्यापो विहायसा ।। ६०-२५ ।।
 
पुण्यं चाकाशगंगायास्तोयं तिष्टति तिष्टति ।।
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ।। ६०-२६ ।।
 
योनिरंशुसहस्रस्य येन याति वसुंधराम् ।।
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ।। ६०-२७ ।।
 
षष्ठः परिवहो नाम स वायुर्जीवतां वरः ।।
सर्वप्राणभृतां प्राणार्न्योऽतकाले निरस्यति ।। ६०-२८ ।।
 
यस्य धर्मेऽनुवर्तेते मृत्युवेवस्वतावुभौ ।।
सम्यगन्वीक्षता बुद्ध्या शांतयाऽध्यात्मनित्यया ।। ६०-२९ ।।
 
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ।।
यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ।। ६०-३० ।।
 
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ।।
येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते ।। ६०-३१ ।।
 
परीवहो नाम वरो वायुः स दुरतिक्रमः ।।
एवमेते दितेः पुत्रा मरुतः परमाद्भुताः ।। ६०-३२ ।।
 
अनारमंतः सर्वांगाः सर्वचारिणः ।।
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ।। ६०-३३ ।।
 
कंपितः सहसा तेन पवमानेन वायुना ।।
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः ।। ६०-३४ ।।
 
सहसोदीर्यते तात जगत्प्रव्यथते तदा ।।
तस्माद्ब्रह्मविदो ब्रह्म न पठंत्यतिवायुतः ।। ६०-३५ ।।
 
वायोर्वायुभयं ह्युक्तं ब्रह्य तत्पीडितं भवेत् ।।
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ।। ६०-३६ ।।
 
उक्त्वा पुत्रमधीष्वेति व्योमगंगामगात्तदा ।।
ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः ।। ६०-३७ ।।
 
स्वाध्यायमकरोद्ब्रह्मन्वेदवेदांगपारगः ।।
तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने ।। ६०-३८ ।।
 
सनत्कुमारो भगवानेकांते समुपागतः ।।
उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना ।। ६०-३९ ।।
 
ततः प्रोवाच विप्रेंद्र शुकं विदां वरः ।।
किं करोषि महाभाग व्यासपुत्र महाद्युते ।। ६०-४० ।।
 
शुक उवाच ।।
स्वाध्याये संप्रवृत्तोऽहं ब्रह्मपुत्राधुना स्थितः ।।
त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च ।। ६०-४१ ।।
 
किंचित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् ।।
तद्वदस्व महाभाग यथा तज्ज्ञानमाप्नुयाम् ।। ६०-४२ ।।
 
सनत्कुमार उवाच ।।
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ।।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ।। ६०-४३ ।।
 
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ।।
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ।। ६०-४४ ।।
 
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ।।
नालं स दुःखमोक्षाय संगो वै दुःखलक्षणः ।। ६०-४५ ।।
 
सक्तस्य बुद्धर्भवति मोहजालविवर्द्धिनी ।।
मोहजालावृतो दुःखमिहामुत्र तथाश्नुते ।। ६०-४६ ।।
 
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ।।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ।। ६०-४७ ।।
 
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेञ्च मत्सरात् ।।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ।। ६०-४८ ।।
 
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।।
आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम् ।। ६०-४९ ।।
 
येन सर्वं परित्यक्तं स विद्वान्स च पंडितः ।।
इंद्रियैरिंद्रियार्‌थेभ्यश्चरत्यात्मवशैरिह ।। ६०-५० ।।
 
असज्जमानः शांतात्मा निर्विकारः समाहितः ।।
आत्मभूतैरतद्भूतः सह चैव विनैव च ।। ६०-५१ ।।
 
स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति ।।
अदर्शनमसंस्पर्शस्तथैवाभाषाणं सदा ।। ६०-५२ ।।
 
यस्य भूतैः सह मुने स श्रेयो विंदते महत् ।।
न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत् ।। ६०-५३ ।।
 
नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् ।।
आकिंचन्यं सुसंतोषो निराशिष्ट्वमचापलम् ।। ६०-५४ ।।
 
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ।।
परिग्रहं परित्यज्य भव तातजितेंद्रियः ।। ६०-५५ ।।
 
अशोकं स्थानमातिष्ट इह चामुत्र चाभयम् ।।
निराशिषो न शोचंति त्यजेदाशिषमात्मनः ।। ६०-५६ ।।
 
परित्यज्याशिषं सौम्य दुःखग्रामाद्विमोक्ष्यसे ।।
तपरोनित्येन दांतेन मुनिना संयतात्मना ।। ६०-५७ ।।
 
अजितं जेतुकामेन भाव्यं संगेष्वसंगिना ।।
गुणसंगेष्वेष्वनासक्त एकचर्या रतः सदा ।। ६०-५८ ।।
 
ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् ।।
द्वंद्वारामेषु भूतेषु वराको रमते मुनिः ।। ६०-५९ ।।
 
किंचिन्प्रज्ञानतृप्तोऽसौ ज्ञानतृप्तो न शोचति ।।
शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम् ।। ६०-६० ।।
 
अशुभैश्चाप्यधो जन्म कर्मभिर्लभतेऽवशः ।।
तत्र मृत्युजरादुःखैः सततं समभिद्रुतम् ।। ६०-६१ ।।
 
संसारं पश्यते जंतुस्तत्कथं नावबुध्से ।।
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ।। ६०-६२ ।।
 
अनर्थे वार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ।।
संवेष्ट्यमानं बहुभिर्मोहतंतुभिरात्मजैः ।। ६०-६३ ।।
 
कोशकारवदात्मानं वेष्टितो नावबुध्यसे ।।
अलं परिग्रहेणेह दोषवान् हि परिग्रहः ।। ६०-६४ ।।
 
कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ।।
पुत्रदारकुटुंबेषु सक्ताः सीदंति जंतवः ।। ६०-६५ ।।
 
सरःपंकार्णवे मग्ना जीर्णा वनगजा इव ।।
मोहजालसमाकृष्टान्पश्यजंतून्सुदुःखितान् ।। ६०-६६ ।।
 
कुटुंबं पुत्रदारं च शरीरं द्रव्यसंचयम् ।।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते ।। ६०-६७ ।।
 
यदा सर्वं परित्यज्य गंतव्यमवशेन वै ।।
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि ।। ६०-६८ ।।
 
अविश्रांतमनालंबमपाथेयमदैशिकम् ।।
तमः कर्त्तारमध्वानं कथमेको गमिष्यसि ।। ६०-६९ ।।
 
नहि त्वां प्रस्थितं कश्चित्पृष्टतोऽनुगमिष्यति ।।
सुकृतं दुष्कृतं च त्वां गच्छंतमनुयास्यतः ।। ६०-७० ।।
 
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ।।
अर्थार्थमनुशीर्यंते सिद्धार्थस्तु विमुच्यते ।। ६०-७१ ।।
 
निबंधिनी रज्जुरेषा या ग्रामे वसतो रतिः ।।
छित्वैनां सुकृतो यांति नैनां छिंदंति दुष्कृतः ।। ६०-७२ ।।
 
तुल्यजातिवयोरूपान् हृतान्पस्यसि मृत्युना ।।
न च नामास्ति निर्वेदो लोहं हि हृदयं तव ।। ६०-७३ ।।
 
रूपकूलां मनः स्रोतां स्पर्शद्वीपां रसावहाम् ।।
गंधपंकां शब्दजलां स्वर्गमार्गदुरारुहाम् ।। ६०-७४ ।।
 
क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् ।।
त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत् ।। ६०-७५ ।।
 
त्यक्त्वा धर्ममधर्मं च ह्युभे सत्यानृते त्यज ।।
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया ।। ६०-७६ ।।
 
उभे सत्यानृते बुद्धिं परमनिश्चयात् ।।
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।। ६०-७७ ।।
 
धर्मावनद्धं दुर्गंधिं पूर्णं मूत्रपुरीषयोः ।।
जराशोकसमाविष्टं रोगायतनमस्थिरम् ।। ६०-७८ ।।
 
रजस्वलमनित्यं च भूतावासं समुत्सृज ।।
इदं विश्वं जगत्सर्वमजगञ्चापि यद्भवेत् ।। ६०-७९ ।।
 
महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् ।।
इंद्रियाणि च पंचैव तमः सत्त्वं रजस्तथा ।। ६०-८० ।।
 
इत्येष सप्तदशको राशिख्यक्तसंज्ञकः ।।
सर्वैरिहेंद्रियार्थैश्च व्यक्ताव्यक्तैर्हि हितम् ।। ६०-८१ ।।
 
पंचविंशक इत्येष व्यक्ताव्यक्तमयो गणः ।।
एतैः सर्वैः समायुक्तमनित्यमभिधीयते ।। ६०-८२ ।।
 
त्रिवर्गोऽत्र सुखं दुःख जीवितं मरणं तथा ।।
य इदं वेद तत्त्वेन सस वेद प्रभवाप्ययौ ।। ६०-८३ ।।
 
इन्द्रियैर्गृह्यते यद्यत्तद्व्यक्तमभिधीयते ।।
अव्यक्तमथ तज्ज्ञेयं लिंगग्राह्यमतींद्रियम् ।। ६०-८४ ।।
 
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।।
लोके विहितमात्मानं लोकं चात्मनि पश्यति ।। ६०-८५ ।।
 
परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति ।।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ।। ६०-८६ ।।
 
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।।
ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्च देहजात् ।। ६०-८७ ।।
 
लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति ।।
अनादिनिधनं जंतुमात्मनि स्थितमव्ययम् ।। ६०-८८ ।।
 
अकर्तारममूढं च भगवानाह तीर्तवित् ।।
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ।। ६०-८९ ।।
 
स्वदुःखप्रतिघातार्थं हंति जंतुरनेकधा ।।
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।। ६०-९० ।।
 
तप्यतेऽथ पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ।।
अजस्रमेव मोहांतो दुःखेषु सुखसंज्ञितः ।। ६०-९१ ।।
 
वध्यते तप्यते चैव भयवत्यर्मभिः सदा ।।
ततो निवृत्तो बंधात्स्वात्कर्मणामुदयादिह ।। ६०-९२ ।।
 
परिभ्रमति संसारे चक्रवद्बाहुवर्जितः ।।
संयमेन च संबंधान्निवृत्त्या तपसो बलात् ।। ६०-९३ ।।
 
सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ।। ६०-९४ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमोऽध्यायः ।।
 
</poem>