"विष्णुपुराणम्/प्रथमांशः/अध्यायः ५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
मैत्रेय उवाच ।
यथा ससर्ज्ज देवोऽसौ देवर्षिपितृदानवान् ।
मनुष्यतिर्य्यगूवृक्षदीन् भूव्योमसलिलौकसः ।। १ ।।
 
यदुगुणां यत्स्वरूपञ्च यत्स्वभावं जगंदूद्रिज ।
सर्गादौ सृष्टवान् ब्रह्मा तन्ममाचक्ष्व तत्त्वतः ।। २ ।।
 
पराशर उवाच ।
मैत्रेय कथयाम्येष श्वृणुष्व सुसमाहितः ।
यथा ससर्ज्ज देवोऽसौ देवादीनखिलान् प्रभुः ।। ३ ।।
 
सृष्टि चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्व्वकः सर्गः प्रादुर्भूतस्तमोमयः ।। ४ ।।
 
तमो मोहो महामोहस्तामिस्त्रो ह्मन्धसंज्ञितः ।
अविद्या पंचपर्व्वैषा प्रादुर्भूता महात्मनः ।। ५ ।।
 
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ।। ६ ।।
 
मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ।
तं दृष्टूवाऽसाध कं सर्गममन्यदपरं पुनः ।। ७ ।।
 
तस्याभिध्यायतः सर्गस्तिर्य्यकूस्त्रोताभ्यवर्त्तते ।
यस्मात् तिर्य्यक् प्रवृत्तः स तिर्य्यकूस्त्रोतास्ततः स्मृतः ।। ८ ।।
 
पश्वादयस्ते विख्यातास्तमः प्राया ह्मवेदिनः ।
उत्पथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः ।। ९ ।।
 
अहङ्कृता अहम्माना अष्टाविशदूधात्मकाः ।
अन्तः प्रकाशास्ते सर्व्वे आवृताश्व परस्परम् ।। १० ।।
 
तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत् ।
उदूर्ध्वस्त्रोतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्त्तत ।। ११ ।।
 
ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः ।
प्रकाशा बहिरन्तश्व ऊर्ध्वस्त्रोतोद्भवाः समृताः ।। १२ ।।
 
तुष्टात्मनस्तुतीयस्तु देवसर्गस्तु स स्मृतः ।
तस्मिन् सर्गेऽभवत् प्रीतिर्निष्पन्न ब्रह्मणस्तदा ।। १३ ।।
 
ततोऽन्य स तदा दध्यौ साधकं सर्गमुत्तमम् ।
असाधसकांस्तु तान् ज्ञात्वा मुख्यसर्गादिसम्भवान् ।। १४ ।।
 
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः ।
प्रादुर्बभूव चाव्यक्तादर्व्वाक् स्त्रोतस्तु साधकम् ।। १५ ।।
 
यस्मादर्वाक् प्रवर्त्तन्ते ततोऽर्व्वाकूसोतसस्तु ते ।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोऽधिकाः ।। १६ ।।
 
तस्मात् ते दुः खबहुला भूयोभूयश्व कारिणः ।
प्रकाशा बहिरन्तश्व मनुष्याः साधकाश्व ते ।। १७ ।।
 
इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम ।
प्रथमो महतः सर्गो विज्ञोयो ब्रह्मणस्तु सः ।। १८ ।।
 
तन्मत्राणां द्रितीयश्च भूतसर्गस्तु स स्मृतः ।
वैकारिकस्तृतीयस्तु सर्ग ऐन्दियकः स्मृतः ।। १९ ।।
 
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्व्वकः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।। २० ।।
 
तिर्य्यकूसोतास्तु यः प्रोक्तस्तैर्य्यग्योन्यः स उच्यते ।
ऊर्ध्वसोतास्तत्तः षष्ठो देवसर्गस्तु स स्मृतः ।। २१ ।।
 
ततोऽर्व्वकूसोतसः सर्गः सप्तमः स तु मानुषः ।
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।। २२ ।।
 
पंचैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।
प्राकृतो वैकृताश्चैव कौमारो नवमः स्मृतः ।। २३ ।।
 
इत्येतै वै समाख्याता नव सर्गाः प्रजापतेः
प्राकृता वैकृताश्चैव जगतो पूलहेतवः ।
सृजतो जगदीशस्य किमन्यत् श्रोतुमिच्छसि ।। २४ ।।
 
मैत्रेय उवाच ।
संक्षेपात् कथितः सर्गो देवादीनां मुने त्वया ।
विस्तराचूछ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम ।। २५ ।।
 
पराशर उवाच ।
कर्म्मभिर्भाविताः पूर्व्वैः कुशलाकुशलैस्तु ताः ।
ख्यात्या तया हयनिर्मुक्ताः संहारे हयु पसंह्टताः ।। २६ ।।
 
स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्म श्चतुर्विंधाः ।
ब्रह्मणः कुर्व्वतः सृष्टिं जज्ञिरे मानसास्तु ताः ।। २७ ।।
 
ततो देवासुरपितॄ न् मानुषांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयवुजत् ।। २८ ।।
 
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
सिसृक्षोर्ज्जघनात् पूर्व्वमसुरा जज्ञिरे ततः ।। २९ ।।
 
उत्ससर्ज्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् ।
सा तु त्यक्ता ततस्तेन मैत्रेयाभूदू विभावरी ।। ३० ।।
 
सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः ।
सत्त्वोद्रिक्ताः समुदूभूता मुखतो ब्रह्मणो द्रितज ।। ३१ ।।
 
त्यक्ता सा तु तनुस्तेन सत्त्वप्रायमभूदू दिनम् ।
ततो हि बलिनो रात्रावसुरा देवता दिवा ।। ३२ ।।
 
सत्त्वमात्रत्मिकामेव ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ।। ३३ ।।
 
उत्ससर्ज्ज पितन् सृष्ट्वा ततस्तामपि स प्रभुः ।
सचोत्सृष्टाऽभवत् सन्ध्या दिननक्तान्तरस्थितिः ।। ३४ ।।
 
रजोमात्रात्मिकामन्यां जगृहे सतनुं ततः ।
रजोमात्रोतूकटा कजाता मनुष्या द्रिजसत्तम ।। ३५ ।।
 
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योतस्त्रा समभवत् सापि प्राकूसन्ध्या याभिधीयते ।। ३६ ।।
 
ज्योतूस्त्रायामेव बलिनो मनुष्याः पितरस्तथा ।
मैत्रेय सन्ध्यासमये तस्मादेते भवन्ति वै ।। ३७ ।।
 
ज्योत्स्ना राव्यहनी सन्धाय चत्वार्य्येतानि वै प्रभोः ।
ब्रहणस्तु शरीराणि त्रिगुणोपाश्वयाणि तु ।। ३८ ।।
 
रजोमात्रात्मिकामवे ततोऽन्यां जगृहे तनुम् ।
ततः क्षुद् ब्रह्मणो जाता जज्ञे कोपस्तया ततः ।। ३९ ।।
 
क्षुतूक्षामानन्धकारेऽथ सोऽसृजद् भगवांस्ततः ।
विरूपाः श्मश्वुला (छ) जातास्तेऽभ्यधावंस्ततः प्रभुम् । ४० ।।
 
मैवं भो रक्ष्यतामेष यैरुक्तम् राक्षसास्तु ते ।
ऊचुः खादाम् इत्येन्ये ये ते यक्षास्तु जक्षणात् ।। ४१ ।।
 
अप्रियानथ तान् दृष्ट्वा केशाः शीर्य्यान्त वेधसः ।
हीनाश्व शिरसो भूयः समारोहन्त तच्छिरः ।। ४२ ।।
 
सर्पणात् तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
ततः क्रु द्धो जगतूस्रष्टा क्रोधात्मनो विनिर्ममे ।। ४३ ।।
 
वर्णोन कपिशेनोग्रो भूतास्ते पिशिताशानाः ।
धयन्तो गां समुत्पन्ना गन्धर्व्वास्तस्य तत्क्षणात् ।। ४४ ।।
 
पिबन्तो जज्ञिरे वाचं गन्धर्व्वास्तेन ते द्रिजा ।
एतानि सृष्टूवा भगवान् ब्रह्मा तच्छक्तिनोदितः ।। ४५ ।।
 
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ।
अवयो वक्षसश्चक्र मुखतोऽजाः स सृष्टवान् ।। ४६ ।।
 
सृष्टवानुदराद् गाश्च पार्श्वाभ्यां च प्रजापतिः ।
पदभ्यामश्वान् समातंज्ञान् शरभान् गवयान् मृगान् ।।४७ ।।
 
उष्ट्रानश्वातरांश्चैव न्यङ्कूनन्यांश्च जातयः ।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ।। ४८ ।।
 
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्रिजोत्तम ।
सृष्ट्वा पश्वोषधीः सम्यग् युयोज स तदाध्वरे ।। ४९ ।।
 
गौरजः पुरुषा मेषा अश्वा अश्वतराः शराः ।
एतान्ग्राम्यान् पशून प्राहुरारण्यांश्च निबोध मे ।। ५० ।।
 
श्वापदो द्रिखुरो हस्ती वानरः पक्षिपंचमः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ।। ५१ ।।
 
गायत्रं च ऋचश्चैव त्रिवृत्स्तोमं रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्म्ममे प्रथमात् मुखात् ।। ५२ ।।
 
यजूंषि त्रैष्टुभं छन्दस्तोमं सप्तदशं तथा ।
बृहत् साम तथोकूथं च दक्षिणादसृजन् मुखात् ।। ५३ ।।
 
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन् मुखात् ।। ५४ ।।
 
एकविंशमथर्व्वाणामाप्तोर्यामाणमेव च ।
अनुष्टुभं स वैराजम् उत्तरादसृजन् मुखात् ।। ५५ ।।
 
उज्वावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे !
देवासुरपितृ न् सृष्ट्वा मनुष्यांश्व प्रजापतिः ।। ५६ ।।
 
ततः पुनः ससर्ज्जादौ स कल्पस्य पितामहः ।
यक्षान् पिशाचान् गन्घर्व्वांस्तथैवाप्सरसां गणान् ।। ५७ ।।
 
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययं च व्ययं चैव यदिदं स्थाणजंगमम् ।। ५८ ।।
 
तत् ससर्ज्ज तदा ब्रह्मा भगवानादिकृद् विभुः ।
तेषां ये यानि कर्म्माणि प्राक् सृष्टयां प्रतिपेदिरे ।। ५९ ।।
 
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ।
हिंस्त्राहिस्त्र मृदुक्तूरे धर्म्माधर्म्मावृतानृते ।
 
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते ।। ६० ।।
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
 
नानात्वं विनियोगञ्व धातैव व्यसृतजत् स्वयम् ।। ६१ ।।
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम ।
 
वेदशब्देभ्य एवादौ देवादीनां चकार सः ।। ६२ ।।
ऋषीणां नामधेयानि यथा वेदश्वु तानि वै ।
 
यथा नियोगयोग्यानि सर्वेषामपि सोऽकरोत् ।। ६३ ।।
 
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ।। ६४ ।।
 
करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः ।
सिसृक्षाशक्तियुक्तोऽसौ सृज्यशक्तिप्रचोदितः ।। ६५ ।।
 
</poem>