"विष्णुपुराणम्/प्रथमांशः/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
पृष्ठ को '<poem> </poem>' से बदल रहा है।
पङ्क्तिः १:
<poem>
श्रीबिन्दुमाधवं वन्दे परमानन्दविग्रहम्।
वाचं विश्वेश्वरं गङ्गां पराशरमुखान् मुनीन्।। १ ।।
 
श्रीमच्चित्सुखयोगिमुख्यरचितव्याख्यां निरीक्ष्य स्फुटं
तन्मार्गेण सुबोधसंग्रहवतीमात्मप्रकाशाभिधाम्।
श्रीमद्विष्णुपुराणसारविवृतिं कर्ता यतिः श्रीधर
स्वामी सद्‌गुरुपादपद्ममधुपः साधु स्वधीशुद्धये ।। २ ।।
 
श्रीमद्विष्णुपुराणस्य व्याख्यां स्तल्पाधिविस्तराम्।
प्राचामालोक्य तद्व्याख्या मध्यमेयं विधीयते ।। ३ ।।
 
अस्मिन् विवक्षितं यत्तु वस्तु तन्नमनात्मकम्।
मुनिर्मन्त्रोपनिषदा कृतं बध्नाति मङ्गलम् ।। ४ ।।
 
जितं त इति। - तंत्राशं प्रथमेऽध्याये मैत्रेयेण पराशरे।
प्रवृत्त्यर्थं पुराणस्य प्रश्ना द्वाविंशतिः कृताः।।
इह खलु पुराणनामीश्वरनिश्वसितस्वरूपत्वेन वेदमूलत्वेन इदानीन्तनानां व्यासवशिष्ठपराशरादीनां स्मृतिरूपत्वेन च प्रमाणत्वं प्रयोजनवत्त्वञ्च दुरपहृतमेव।
तद्व्याख्यानानाञ्च तत्तर्थाभासनिरासतत्तर्थप्रकाशकत्वपरत्वेन प्रयोजनवत्त्वम् पुराणत्वाविशेषेऽपि उपाख्यानलघुत्वेन जगज्जीवात्मपरमात्मनामैकात्म्यप्रतिपादनाभ्यासवशादत्रैव पुराणे मुमुक्षूणां प्रवृत्तिरुचिततमेत्येतदेव व्याख्यायते। तत्र च सर्ग-प्रतिसर्गवंश मन्वन्तरवंशानुचरितानां तदपवादेन मुक्तेश्च प्रतिपादनम्। सदाचार-भूगोल-भरतोपाख्यानादिनिरूपणस्य साक्षात् परम्पराया वा मुक्तोवेवोपयोगो द्रष्टव्यः। पुण्डरीकाक्षेति। हृदयाख्यं पुण्डरीकम् अश्नुते व्याप्नोतीति तथा। यद्वा पुण्डरीके इव अक्षिणी यस्येति। अत्र श्वेतत्वमविवक्षितम्, लोहिततत्वेनैव नयनोत्कर्षात्। शिवाराधनार्थं पुण्डरीकीकृतमक्षि येनेति वा, "पुण्डरीकं परं धाम अक्षमव्ययमुच्यते" इत्यादि श्लोकोक्तव्युत्पत्त्या पुण्डरीकीक्षेति सम्बोधनमिति वा। ते इति सम्बन्धे षष्ठी। तव जितं जयोऽस्तित्यर्थः। यद्वा, ते त्वया जितं सर्वोत्कर्षेण स्थितमिति। एतेन नमस्कार आक्षिप्तः। विश्वभावन विश्वोत्पादक। हृषीकाणामिन्द्रियाणामीश तत्प्रवृत्तिहेतुत्वात् "प्रणस्य प्राणमुत चक्षुषश्चक्षुः क्षोत्रस्य क्षोत्रं मनसो ये मनो विदु" रिति श्रुतेः। महापुरुषेति जीवव्यवच्छेदाय महत्त्वञ्च "द्वा सुपर्णा सयुजा सखाया" इत्यादि श्रुतेः, न्त्यमुक्तस्वभावत्वाच्च। पुरि शशीरे शयनात्तु पुरषत्वम्। विश्वोत्पादकत्वे हेतुः पूर्वजेति, सृष्टेः पूर्वमेव स्वतः प्रादुर्भूतत्वेनानन्यथासिद्धत्वेन वान्येषां तदधीनत्वात्।
 
नन्वेकस्मादेव नमस्कारान्मङ्गलसिद्धौ कृतं बहुभिर्नमस्कारैरिति चेन्न, अस्य शास्त्रस्यातिश्रेयः साधनत्वेन बहुविघ्नसम्भावनया मङ्गलबाहुलस्यावश्यकत्वात्। अथवा पुण्डरीकाक्षेत्यादि-पञ्चविशेषणैः "भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान्। आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः"।। इति पञ्चमांशोक्तः। पञ्चात्मा हरिरीरितः इति। तत्र पुण्डरीकाक्षेति भूतात्मा, विश्वभावनेति प्रधानात्मा, हृषीकेशेति इन्द्रियात्मा, महापुरषेति परमात्मा, पूर्वजेत्यात्माभिहितः ।। १ ।।
 
श्रोतृप्रवृत्त्यङ्गं सम्बन्ध प्रयोजनञ्च प्रतिपादयितुमाह-सहक्षरमिति।
सोऽप्रसिद्धो विष्णुर्व्यापिनशीलो देशकालस्वरूपतो व्यवच्छेदाभावात्।
विशतेर्वा विष्णुः प्रवेशनशीलः, "तत् सृष्ट्वा तदेवानुप्राविशद्‌" इति श्रुतेः।
मतिभूतिमुक्तिदोऽस्तु-मतिभूत्या तत्त्वज्ञानोद्रेकेण मुक्तिदः।
यद्वा अधिकारिभेदात् मतिम् उत्तमां बुद्धिं भूतिम्
ऐश्वर्यं मुक्तिञ्च ददातीति तथा विष्णुपदस्य
प्रवेशनशीलार्थत्वे मूर्त्तत्वं प्राप्तं निराकरोति ब्रह्मेति पूर्णमित्यर्थः।
तदपि कुत इत्यत आह-सत्, सर्वानुस्यूतम्।
इदं सदिदं सदिति सर्वत्र प्रतीयमानत्वाद् अनष्टमिति यावत्।
अक्षरमिति विकारं निराकरोति। पुमानः, कूटस्थः
कुतस्तह्रि मर्त्त्यादिप्रदत्तमत आह ईश्वरः कर्त्तुमकर्त्तुमन्यथा कर्त्तुं समर्थः।
कदपि कुत इत्यत आह-गुणेति, गुणाः सत्त्वरजस्तमांसि तेषामूर्मयः क्षोभजनिताः सृष्टिस्थितिकालाः, कालः, संहारः, तेषां संलयः संश्लेषोऽध्यासो यस्मिन् स तथा, सर्वाधिष्ठानत्वेनेश्वरत्वमव्याहतमित्यर्थः। ननु प्रधानादेव सृष्ट्यादि इति चेदत आहप्रधानबुद्ध्यादीनां जगत्प्रपञ्चानां सूः सविता। प्रधानस्यानादितया कथं तज्जनकत्वमिति चेन्न, प्रलये तस्याकिञ्चित्करत्वेन शक्त्यर्पणद्वारा जननोपचारात्। यद्वा प्रधानद्वारा बुद्ध्यादिसूरित्यर्थः। यद्वा यो विष्णुर्वेदान्तिनां सदक्षरं ब्रह्म पातञ्जलानां क्लेशकर्मविपाकाशयैरपरामृष्ट ईश्वरः। सांख्यानां पुमान् पुरुषः। तदुक्तं कापिलैः "न प्रकृतिर्न विकृतिः पुरुष" इति। स मतिभूतिमुक्तिदोऽस्त्वित्यन्वयः। शेषं समानम् ।। २ ।।
अथ पराशरो मुनिः गुर्वादिभक्तिं पुरुषार्थसाधनं दर्शयन् मैत्रेयं निमित्तीकृत्य विष्णुतत्त्वप्रतिपादकं विष्णुपुराणमारभते-प्रणम्येति प्रशब्देन भक्तिश्रद्धातिशयो द्योत्यते। विश्वेषां ब्रह्मादिस्तम्बपर्य्यन्तानाम् ईशं प्रवृत्तिनिवृत्तिकारणम्। प्रकृतशास्त्रे सम्प्रदायप्रवर्त्तकान् प्रणमति-ब्रह्मादीनिति। ब्रह्म-ऋभु-दक्ष-पुरु-कुत्स-सारस्वतप्रतीन्, गुरुं कपिलं सारस्वतं वा। पुराणं सर्ग-प्रतिसर्ग-वंश-मन्वन्तर-वंशानुचरितमिति पञ्चाङ्गम्। तत्र यथायथं प्रथमेऽंशे सर्ग-प्रतिसर्गौ। द्वितीये प्रसङ्गागतं भूगोल-ज्योतिश्चक्रम्। तृतीये मन्वन्तरम्। चतुर्थे वंशः। पञ्चमे वंशानुचरितम्। षष्ठे वैराग्योपयोगि-प्रलयादिकमभिधाय आत्यन्तिकप्रलयरूपमोक्षः कथ्यते। स्तौति-वेदेन सम्मितं तुल्यमिति ।। ३ ।।
इति हासेत्यत्र शिष्यप्रश्न एव पुराणप्रवृत्तिहेतुरिति भावः। इतिहेत्व्ययम् पारम्पर्योपदेशाभिधायि, तस्यासनम् आसः अवस्थानमेतेष्विति। इतिहासाः पुरावृत्तानि "धर्म्मार्थकाममोक्षाणामुपदेशसमन्वितम्"। पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते" इति स्मृतेः वेदवेदाङ्गपारगम्-वेदस्य तदङ्गानां शिक्षा-कल्प-व्याकरण-निरुक्त-च्छन्जो-ज्योतिषाञ्च पारगम्। धर्मशास्त्रम् स्मृतिः, आदिशब्दो न्यमीमांसादिसङ्ग्रहार्थः। धर्मशास्त्रार्थेति वा पाठः। वशिष्ठतनयः शक्तिः तस्यात्मजं पुत्रम् ।। ४ ।।
 
पराशरमिति स्वस्मिन्नेव परोक्षनिर्देशो लोकोक्तया देहादावनहङ्कारद्योतनार्थः। प्रणिपत्य दण्डवत् प्रणम्य पादग्रहणादिविधिना च ।। ५ ।।
बभूत्सितमर्थं प्रष्ट्रं तत्कृतमनुग्रहमनुवदति-त्वत्त इति द्वाभ्याम्। त्वत्तो वेदाद्ययनमधीतं कृतमित्यर्थः। ओदनपाकं पचतीतिवत्। अन्ये विद्वांसो मां सर्वशास्त्रेषु अकृतश्रमं न वक्ष्यन्ति, अपि तु विद्विषोऽपि कृताभ्यासमेव वक्ष्यन्तीत्यर्थः ।। ६-७ ।।
 
पूर्वं यथा जगद्‌ बभूव, पुनश्चर यथा भविष्यतीति जगतो जन्मप्रकारप्रश्नः ।। ८ ।।
 
यन्मयमित्युपादानप्रश्नः। यतश्चेति निमित्तप्रश्नः लीनमासीद् यत्रेति लयाधारप्रश्नः ।। ९ ।।
प्रमाणमियत्ताप्रकाशकं वा। यत्प्रमाणानि महाभूतानि यत्प्रकाश्यानि चेत्यर्थ। देवादीनाञ्च सम्भवमित्यमुसर्गप्रश्नः ।। १० ।।
कल्पान् ब्रह्मायुः परिमितान्, महाकल्पान् ब्रह्माहः संज्ञान्।
विभागगानिति पाठेऽपि स एवार्थः।
चतुर्युगैरावर्त्तमानैर्विकल्पितान् विभक्तानि ।। ११-१२ ।।
वाशिष्ठः शक्तिः तस्य नन्दन सुत हे पराशर ।। १३-१४ ।।
 
प्रसादप्रवणं प्रसादाभिमुखम् येन प्रसादप्रवणेन
चित्तेन जातात् त्वत्प्रसादादहमेतत् सर्वंजानीयाम् ।। १५ ।।
 
वसिष्ठस्तव कदा किमुवाचेत्यपेक्षायां तदुक्तेरूपोद्‌घातकथामाह-विश्वामित्रप्रत्युक्तेनत्यादिना ।। १६-२१ ।।
यशस्तपसोर्नाशकत्वादेव स्वर्गापवर्गयोर्व्यासेध्सय
प्रतिबन्धस्य कारणं क्तोधः। हे तात! तद्वशो मा भव ।। २२-२३ ।।
गुर्वाज्ञाकारिणां शत्रुपक्षीया अपि अनुकूला भवन्तीति दर्शयन्नाह-सम्प्राप्तश्चेत्यादिना ।। २४-२६ ।।
 
यद् यस्मात् अस्य गुरोर्वाक्यात् क्षमा आश्रिता तस्मात् ।। २७ ।।
 
प्रवृत्ते च निवृत्ते च कर्म्मणि अस्तमला अज्ञानविपर्य्ययशून्या मतिर्भविष्यति। ते च कर्म्मणि स्मृतिसिद्धे। "इह वामुत्र काम्यश्च प्रवृत्तमभिधीयते। वैराग्यज्ञान पूर्वन्तु निवृत्तमुपदिश्यते इति ।। ३१ ।।
 
यथायथं यथार्थम् ।। ३४ ।।
श्रोतुः सुखप्रतिपत्तये संक्षेपतस्तावत् सर्वप्रश्नोत्तरतया पुराणार्थमाह-विष्णोरिति श्लोकेन। सकाशात्-काशः प्रकाशः ईक्षणमिति यावत्, तत्सहिताद् विष्णोर्जगदुद्भूतम्। "स ऐक्षत लोकानि उत्सृजा" इति "सोऽकामयत बहु स्यां प्रजायेय" इत्यादिश्रुतिसिद्धमिच्छादिशब्दपरपर्य्यायं यदीक्षममालोचनात्मकं तेन प्रकारेण जगदुद्भूतम्। अनेन यथा वभूवेत्यस्य जन्मप्रकारप्रश्नस्योत्तरं तत्रैव स्थितम्। प्रलयकाल इति लयाधारप्रश्नस्योत्तरम्। चशब्दाज्जगतः स्थितिरपि तत्रैवेत्युक्तम्। अस्य जगतः स्थितिसंयमयोरसावेव कर्त्ता। जन्मनोऽप्युपलक्षणम्। अनेन यतश्चैतच्चराचरात्मकं जगदित्यस्य निमित्तप्रश्नस्योत्तरम्। जगच्च स इत्युपादानप्रश्नस्योत्तरम्। उपादानकारणरूपत्वात्। कार्यस्य अनेनैव विष्णोर्जगदुपादानरूपकर्त्तुत्वादिकथनेन विष्णोरेवोद्भविष्यति तत्रैव स्थास्यतीत्यादि-सर्व्वप्रश्नस्योत्तरमर्थाद् द्रष्टव्यम्। तत्र च यथा जगद् बभूव, यथा च पुनर्भविष्यति, यन्मयं च जगत् यतश्च यत्र र्पूंलीनम्, पुनश्च यत्र लयमेष्यति। यत्प्रमाणिनि भूतानि देवादीनाञ्च सम्भवमित्यष्टमप्रश्नत्योत्तरं प्रथमांशे। समुद्रपर्वतानाञ्च संस्थानं, भुवः संस्थानम्, सूर्यादीनाञ्च संस्थानम्, तेषां परिमाणञ्चेति चुतुःप्रश्नोत्तरं द्वितीयांशे। "देवादीनां तथा वशान् मनून् मन्वन्तराणि च। वेदशाखाप्रणयनं यथावद् व्यासकर्त्तृकम्। धर्माश्च ब्रह्माणादीनां तथा चाश्रमवासिनाम्"
इतिषट् प्रश्नोत्तरं तृतीयांशे।।
 
देवर्षिपार्थिवानाञ्च चरितमिति प्रश्नस्योत्तरं तद्वंशविस्तारोक्तिपूर्वकं चतुर्थाशे। तत्र च यदुवंशे भूभारहरणार्थमवतीर्णस्य हरेश्चरितं विस्तारेण पञ्चमांशे। कल्पान् कल्पविकल्पांश्च कल्पान्तस्य स्वरूपञ्चेति प्रश्नत्रस्य प्रथमांशेन संक्षेपेण दत्तोत्तरस्य युगधर्म्मांश्च कृत्स्नश इत्यस्य चोत्तरं षष्ठांशे इति विवेकः ।। ३५ ।।
 
इति श्रीधरस्वामिकृतायामात्मप्रकाशाभिधायां विष्णुपुराणटीकायां प्रथमांशे प्रथमोऽध्यायः।।
 
</poem>