"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem>
मैत्रेय उवाच ।
भगवन् ! यन्नरैः कार्य्यं साधुकर्म्मणयवस्थितैः ।
तन्मह्म गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ।। ४-१-१ ।।
 
वर्णाधर्म्मास्तथाख्याता धर्म्मा ये चाश्रमेषु वै
श्रोतुमिच्छाम्यहं वशान् तांस्त्वं प्रब्रू हि मे गुरो ।। ४-१-२ ।।
 
पराशर उवाच ।
मैत्रेय ! श्रूयतामयमनेकयज्विवीरशूरभूपालालङ्कृतो ब्रह्मादिर्मानवो वशः
तथा चोच्यते । ब्रह्माद्य यो मनोर्वं शमहन्यहनि संस्मरेत् ।
तस्य वंशसमुच्छेदो न कदाचिद्भविष्यति ।। ४-१-३ ।।
 
तदस्य वंशानुपूर्व्वीमशेषपापप्रक्षालनाय मैत्रेयैतां श्रृणु ।
तदू यथा सकलजगतामनादिरादिभूत ऋगूयजुः
सामादिमयो भगवदूविष्णुमयं ब्रह्मणो मूर्त्तिरूपं
हिरण्यागर्भो ब्रह्माणडतो भगवान ब्रह्मा प्राग्बभूव ।। ४-१-४ ।।
 
ब्रहणश्व दक्षिणाङ्ग ष्ठजन्मा दक्षः प्रजापतिः
दक्षस्याप्यदितिः, अदितेर्विवस्वान्, विवस्ततो
मनुः मनोरिक्ष्वाकु-नृत्रा-धृष्ट-शय्याति नरिष्यन्त-
प्रांशु-नानिदिष्ठ--करूष-पूषध्राख्याः पुत्रा बभूवुः ।। ४-१-५ ।।
 
इष्टिञ्च मित्रावरुणयोर्म्मनुः पुत्रकामश्वकार ।। ४-१-६ ।।
 
तत्रापहत होतुरपचारादिला नाम कन्या बभूव ।। ४-१-७ ।।
 
सैव च मित्रावरुणप्रसादात् सुद्यु म्नो नाम मनोः पुत्रो मैत्रेयासीत् ।
पुनश्चेश्वरकोपात् स्त्री सती सोमसूनोर्बुधस्याश्रमसमीपे बभ्राम ।। ४-१-८ ।।
 
सानुरागश्व तस्यां बुधः पुरूरवसमात्मजमुत् --पादयामास ।। ४-१-९ ।।
 
जाते च तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङूमयो यजुर्म्मयः
साममयोऽथर्व्वमयः सर्वमयो मनो मयो ज्ञानमयोऽकिञ्चिन्मयो
भगवान् यज्ञपुरुषस्वरूपो सुद्यु म्नस्य पुस्त्वमभिकषद्भिर्यथावदिष्टः ।। ४-१-१० ।।
तत्प्रसादादिला पुनरपि सुद्यु म्रोऽभवत् ।। ४-१-११ ।।
 
तस्याप्यु-कल-गयत् विनतसंज्ञास्त्रयः पुत्रा बभूवुः ।
सुद्यु म्रस्तु स्त्रीपूर्वकत्वादू राज्यभागं न लेभे ।। ४-१-१२ ।।
 
तत्पित्रा तु वशिष्ठवचनात् प्रतिष्ठानं नाम नगरं
सुद्यु म्राय दत्तम् । तच्चासौ पुरूरवसे प्रादात् ।
पृषध्रस्तु गुरुगोवधात् शूद्रत्वमगमत् ।। ४-१-१३ ।।
 
करुषात् कारूषा महाबलाः क्षत्तिया बभूवुः ।। ४-१-१४ ।।
 
नाभागो नेदिष्ठपुत्रस्तु वैश्यतामगमत् ।। ४-१-१५ ।।
 
तस्मादू भलन्दनः पुत्रोऽभवत् । भलन्दनादूवतूसप्रिरुदारकीर्त्तिः वतूसपेः प्रांशुरभवत्, प्रजानिश्व प्रांशोरेकोऽभवत्, ततश्व खनित्रः तस्माच्च श्रुपः क्षुपाच्च अतिबलपराक्रमोऽविविंशोऽभवत् । ततो विविंशः , तस्माच्च खनीनेत्रः, ततश्वातिविभूतिः अतिविभूतेर्भरिबलपराक्रमः करन्धमः पुत्रोऽभवत् । तस्मादप्यविक्षिः अविक्षेरप्यतिबलः पुत्रोऽभवत् ।। ४-१-१६ ।।
 
मरुत्तश्वक्रवर्त्ती नरिष्यन्तनामांनं पुत्रमवाप । तस्माच्च दमः , दमस्य पुत्रो राज्यवर्द्धनो जज्ञ । राज्यवर्द्ध नात् सुधृतिरभूत् । ततश्व नरः तस्माच्च केवलः , केवलादू बन्धमान्, बन्धुमतो वेगवान्, वेगवतो बुधः, ततः तृणबिन्दुः, तस्याप्येका कन्या इलिबिला नाम । तञ्चालम्बुषा नाम
वराप्सरा तृणबिन्दु भेजे । तस्यामस्य विशालो जज्ञ ; यः पुरीं वैशालीं नाम निर्म्ममे । हेमचन्द्रश्व विशालस्य पुत्रोऽभवत् । तस्माच्च सुचन्द्रः तत्तनयो धूम्राश्वः, तस्यापि सृञ्जयोऽभूत् । सृञ्जयात् सहदेवः, ततः कृशाश्वो नाम पुत्रोऽभूत् । सोमदत्तः कृशाश्वाज्जज्ञ ; यो दशाश्वमेध नातजहार । ततूपुत्रश्व जनमेजयः, जनमेजयात् सुमतिः । एते वैशालका भूभृतः ।। ४-१-१८ ।।
 
तृणाविन्दोः प्रसादेन सर्व्वे वैशालका नृपाः ।
दीर्घायुषो महात्मानो वीर्य्यवन्तोऽतिधार्म्मिकाः ।। ४-१-१९ ।।
 
शर्य्यातेः कन्या सुकन्या नामाभवत्; यामुपयेमे च्यवनः ।
आनर्त्तश्व नाम धाम्मिकः शय्योतिपुत्रोऽभवत् ।
आनर्त्तस्यापि रेवतो नाम पुत्रो जज्ञ, योऽसावानर्त्तावषय बुभुजे,पुरीञ्ज कुश स्थलीमध्युवास ।
रेवतस्यापि रैरतः पुत्रः ककुझी नाम धर्म्मात्मा भ्रातृशतज्येष्ठोऽभवत् ।
तस्य च रेवती नाम कन्या । तामादाय कस्येयमर्हतीति भगवन्तम व्जयोनिं प्रष्टुं ब्रह्मलोकं जगामा ।
तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्व्वाभ्यामतितानं नाम दिव्यं गान्धर्व्वमगीयत ।। ४-१-२० ।।
 
तावच्च त्रिमार्गपरहिवर्त्तैरनेकयुगपरिवृत्ति तिष्ठन्नपि
रैवतकः श्वृणवन् मुहर्त्तमिव मेने ।। ४-१-२१ ।।
 
गीतावसाने भगवन्तमब्जयोनिं प्रणम्य रैवतकः कन्यायोग्यं वरमपृच्छत् ।
तञ्चाह भगवान् --कथय योऽबिमतस्ते वर इति ।
पूनश्व प्रणम्य भगवते यथाभिमतानात्मनः स वरान्
कथयामास,क एषां भगवतोऽभिमतः ? कस्मै कन्यामिमां प्रयच्छा मीति ।
ततः किञ्चिदवनतशिराः सस्मितो भगवान् अब्जयोनिराह ।। ४-१-२२ ।।
 
ये एते भवतोऽभिमताः नैतेषां साम्प्रतमपत्यापत्यसन्ततिरप्यवनीतले ऽस्ति ।
बहूनि हि तवात्रैतदू गान्धर्व्वं श्वृण्वतश्वतुर्युगान्यतीतानि ।
साम्प्रत भूतलेऽष्टाविंशतितमस्य मनीश्वतुर्युंगमतीतप्रायम्, आसन्नो हि ततूकलिः ।
अन्यस्मै कन्यारत्नमिदं भवतैकाकिनां देयम ।। ४-१-२३ ।।
 
भवतोऽपि मित्र--मन्त्रि-कलत्र-बन्धु
कीषादयः कलिनैतेनात्यन्त मतीताः ।। ४-१-२४ ।।
 
पुनरप्युतूपन्नसाध्वसः सराजा भगवन्तं प्रणम्य पप्रच्छ
भगवन्! एवमवस्थिते ममेयं कस्मै देयेति ।
ततः स भगवान् किञ्चिदवनकन्धरं कृताञ्जलिभूतं सप्तलोकगुरुरब्जयोनिराह ।। ४-१-२५ ।।
 
न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्व्गतस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेशवस्य ।। ४-१- २६ ।।
 
कलामुहूर्त्तादिमयश्व कालो न यदू विभूतेः परिणामहेतुः ।
अजन्मनाशस्य समस्तमूर्त्ते--रनामरूपस्य सनातनस्य ।। ४-१-२७ ।।
 
यस्य प्रसादादहमच्युतस्य भूतः प्रजासृष्टिकरोऽन्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ।। ४-१-२८ ।।
 
मद्रू पमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुः समस्तम् ।। ४-१-२९ ।।
 
शक्रादिरूपी परिपाति विश्व--मर्केन्दुरूपश्व तमो हिनस्ति ।
पाकाय योऽग्नित्वमुपेत्य लोकान् बिभर्त्ति पृथ्वीवपुरव्ययात्मा ।। ४-१-३० ।।
 
चेष्टां विश्वस्थितिसंस्थितस्तु सर्व्वावकाशञ्च नभः स्वरूपी ।। ४-१-३१ ।।
 
यः सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वात्मनः संह्रियतेऽन्तकारी पृथङू न यस्यास्य च योऽव्ययात्मा ।। ४-१-३२ ।।
 
यस्मिन् जगद् यो जगदेतदाद्यो यश्वाश्रितोऽस्मिन् जगति स्वयम्भूः ।
स सर्व्वाभूतप्रभवो धरिव्यां स्वांशेन विष्णुर्नृपतेऽवतीर्णः ।। ४-१-३३ ।।
 
कुशस्थली या तव भूप ! रम्या पुरी पुराभूदमरावतीव ।
सा द्रारका सम्प्रति तत्र चास्ते स केशावांशो बलदेवनामा ।। ४-१-३४ ।।
 
तस्मै त्वमेनां तनयां नरेन्द्र! प्रयच्छ मायामनुजाय जायाम् ।
श्लाघ्यो वरोऽसौ तनया तवेयं स्त्रीरत्रभूता मदृशो हि योगः ।। ४-१-३५ ।।
 
इतीरितोऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम ।
ददर्श ह्रस्वान् पुरुषानशेषा---नत्यौजसः स्वल्पविवेकवीर्य्यान् ।। ४-१-३६ ।।
 
कुशस्थल ताञ्च पुरीमुपेत्य दृष्टन्यरूपां प्रदादौ स्वकन्याम ।
सीरध्वजाय स्फटिकाचलाभ--वक्षः स्थलायातुलधीनरेन्द्रः ।। ४-१-३७ ।।
 
उज्वप्रमाणामति तामवेक्ष्य स्वलाङ्गलग्रेण स तालकेतुः ।
विनामयामास ततश्व सापि बभूव सद्यो वनिता यथान्या ।। ४-१-३८ ।।
 
तां रेवतीं रैबतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वा च कन्यां स नृपो जगाम हिमाचलं वै तपसे धृतात्मा ।। ४-१-३९ ।।
 
</poem>
१,४५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/24816" इत्यस्माद् प्रतिप्राप्तम्