"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १२" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
<poem>
क्रोष्टुश्व यदुपुत्रस्यात्मजो वृजिनीवान् । ततश्व स्वाहिः, ततो रुषद्रुः, रुषद्रोश्वित्ररथः, तत्तनयः शशविन्दुश्वतुर्द्दशमहारत्रश्वक्रवर्त्त्यभवत् ।।
तस्य च शतसहस्त्रं पत्रीनामभवत् । दशलक्ष सह्खयाश्व पुत्राः । तेषाञ्च पृथुयशाः, पृथकर्म्मा, पृथुजयः, पृथुदानः, पृथुकीर्त्तिः, पृथुश्ववाः, षटू पुत्राः प्रधानाः । पृथुश्ववसः पुत्रस्तमः, तस्मादुशनाः । यो वाजिमेधानां शतमा जहार । तस्य च शितेषुर्नाम पुत्रोऽभूत्, तस्यापि रुक्मवचः,
बभूवुः । अत्राद्यापि ज्यामघस्य श्लोको गीयते ।।
भार्य्यावश्यास्तु ये केचिदू भविष्यन्त्यथवा मृताः ।
पङ्क्तिः १०:
अपत्यकामोऽपि भयान्नान्यां भार्य्यामविन्दत ।।
स त्वैकदातिप्रभूत-तुरग-सम्मर्द्देनातिदारुणो महाहवे युध्यमानः
सकलमेवारातिचक्रमजयत् । तज्वारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोषं स्वमधिष्ठ परित्यज्य दिशः प्रविद्रुतम् ।।
तस्मिश्व विद्रुतेऽतित्रासाल्लोलायतलोचनयुगलं त्राहि तात भ्रात रित्याकुलविलापविधुरं राजकन्या रत्रमद्राक्षीत् ।।
तद्दर्शनाज्व तस्यामनुरागानुगतान्तरात्मा स भूपोऽ चिन्तयत् ।।
साध्विदं ममापत्यविरहितस्य बन्ध्याभर्त्तुः साम्प्रतं विधिनापत्यकारणां कन्यारत्रमुपपादितम्, तदेतत् समुदूहामि । अथ चैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ।।
तथैव देव्याहमनुज्ञातः समुदूक्ष्यामीति । अथैनां रथमारोप्य स्वनगरमागच्छत् ।।
विजयिनञ्च राजानमशेषणौरभृत्यपरिजनामात्य समवेता शैव्या द्रष्टुम धिष्ठानद्रारमागता ।।
सा च अवलोक्य राज्ञः सव्यपार्श्वर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधर पल्लवा राजानमवोचत्--अतिचपलचित्तात्र स्यन्दने केयमारोपिता इति ।
असावप्यनालोचितोत्तरवचनोऽतिभयात् तामाह--स्नुषा ममेयमिति ।।
नाहं प्रसूता पुत्रण नान्या पत्न्यभवत् तव ।
स्नुषासम्बन्धवाच्यैषा कतमेन सुतेन ते ।।
इत्यात्मेर्ष्याकोप-कलुषित-वचनमुषितविवेकतया दुरुक्तपरिहारार्थमिदमव नी पतिराह--।।
यस्ते जनिष्यत्यात्मदजः,तस्येयमनैगतमेव भार्य्या निरूपिता । इत्या कर्ण्योद्भूतमृदुहासा तथेत्याह प्रविवेश च राज्ञा सहाधिष्ठानमिति ।।
अनन्तरञ्चातिशुद्धलग्रहोरांशकावयवोक्त-कृतपुत्र जन्मालापगुणाद वयसः
परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ।।
कालेन च पुत्रमजीजनत् । तस्य च विदर्भ इति पिता नाम चक्र ।
स च तां स्नुषामुपयेमे ।।
तस्याञ्चासौ क्रथ-कौशिकसंज्ञौ पुत्रावजनयत् । पुनश्व तृतीयं रोमपादसज्ञ कुमारमजीजनत् । रोम पादादू बभ्रुः, बभ्रोः पुत्रो धृतिः । कौशिकस्यापि चेदिः पुत्रोऽभूत्, यस्य सन्ततौ चैद्या भूपालाः । क्रथस्य स्नुषापुत्रस्य पुत्रः कुन्तिरभवत् ।।
कुन्तेर्वृष्णिः, वृष्णोर्निर्वृतिः, निवृतेर्दशार्हः ततश्व व्योमा, तस्मादपि जीमूतः, तस्यापि वंशकृतिः, ततो भीमरथः, तस्मादू नवरथः, ततश्व दशरथः, तस्य शकुनिः, तत्तनयः करम्भिः, करम्भेर्देवरातोऽभवत् । तस्माद
देवक्षत्त्रः तस्य मधुः, मधोरनवरथः, अनवरथात् कुरुवत्सः, ततश्वा नुरथः, ततः पुरुहोत्रो जज्ञ । ततश्व अंशः, ततश्व सत्वतः, सत्वतादेते सात्वताः ।।
</poem>
|