"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
मैत्रेय उवाच ।
हिरणयकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ।।
न लयं तत्र तेनैव निहतः स कथं पुनः ।
सम्प्राप्तः शिशुपालत्वे सायुज्यं पुनः ।
सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ।।
एतदिच्छाम्यहं श्रोतु सर्व्वधर्म्मभृतां वर !
कौतूहलपरेणौतत् पृष्टो मे वक्तमर्हसि ।। ४-१५-१ ।।
 
दैत्येश्वरस्य तु वधायाखिललोकोतूपत्तिस्थितिपर्व्वतनु गृह्णाता नृसिंहरूपमाविष्कृतम् । तत्र हिरणयकशिपोर्व्विष्णुरयमित्येवं न मनस्यभूत ।। ४-१५-२ ।।
 
 
निरतिशयपुणयजातसम्भूतमेतत् सत्त्वमिति रजो द्रे कप्रेरितंकाग्रमति
भद्राश्व-भद्रबाह-द्रर्दृम-भूताद्या वधहेतुकां निरतिशयामेवाखिलत्रैलोक्याधिक्यधारिणीं दशाननत्वे बोगसम्पदमवाप ।। ४-१५-३ ।।
 
नातस्तस्मिम्मनादिनिधने परब्रह्मभूते भगव त्यनालम्ब्रनीकृते मनसस्तत्रलयम ।। ४-१५-४ ।।
दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्त चेतसो दाखारथिरूपधा रिणस्तद्रू पदर्शनमेवासीत्, नायमच्युत इत्यासक्तिर्विपद्यतोऽन्तः करणस्य मानुषबुद्धिरेव केवलमभूत् ।। ४-१५-५ ।।
 
पुनरच्युतविनिपातमांत्रफलमखिल-भूमणडलश्व्लाघ्य चेदिराजकुलजन्माव्याह तञ्चैश्वर्य्यं शिशुपालत्वे चावाप ।। ४-१५-६ ।।
 
तत्र त्वखिलान्येव भगवन्नामकारणान्यभवन् । ततश्व तत्कारणकृतानां तेषामशेषाणामेवाच्युत् नाम्रामनवरतमनेकजन्मसंवर्द्धितविदूषोनुबन्धिचित्तो विनिन्दन् सन्तर्ज्जनादिषु उज्वारणमकरोत् ।। ४-१५-७ ।।
 
तज्व रूपमुत् फुल्लपद्मदलामलाक्षमत्युज्ज्वलपीतवस्त्रधारी अमल-किरीटकेयूर-कटकोपशोभितमुदारपीवरचतुर्बाहु शङ्ख-चक्र-गदासिधरमतिप्रौढ़वैरानुभावादटन-भोजन-स्त्रानासन-शयनादिष्ववस्थान्तरेषु नैवा पययावस्यात्मचेतसः ।। ४-१५-८ ।।
 
ततस्तमेवाक्रोशेषूज्वारयन् तमेव ह्टदये धारयन्नात्मवधाय भगवदस्त चक्रांशुमालोज्ज्वलमक्षयतेजः-स्वरूपं परमब्रह्मस्वरुपमपगतरागदूषादिदोष भगवन्तमद्राक्षीत् तावज्व भगवज्वक्रेणाशु व्यापादितः । तेन तत्स्मरणदग्धा खिलाघसञ्चयो भगवतैवान्तमुपनीतस्तस्मिन्नेव लयमुपययौ ।। ४-१५-९ ।।
 
एतत् तवाखिलं मयाभिहितम् । भगवानिह कीर्त्तितः संस्मृतश्व दूषोनुबन्धेनाप्यखिलसुरासुरादि दुर्लभं फलं प्रयच्छति किमुत सम्यगू भक्तिमताम् ।। ४-१५-१० ।।
 
वसुदेवस्यानकदुन्दुभेः पौरवी-रौहिणी-मदिरा-भद्रा-देवकी-प्रमुखा बह्वयः
पत्न्योऽभवन् बलभद्र-शारणा-शठ-दुर्म्मदादीन् पुत्रान् रोहिणयामानकदुन्दुबि रुत्पादयामास । बलभद्रोऽपि रेवत्यां निशठोल्मुकौ पुत्रावजनयत् । मार्ष्टिमार्षिम-च्छिशि शिशु-सत्यधृतिप्रमुखाः शारणास्यात्मजाः ।। ४-१५-११ ।।
 
भद्राश्व-भद्रबाहु-दुर्द्दम-भूताद्या रोहिणयाः कुलजाः ।। ४-१५-१२ ।।
 
नन्दोपनन्दकृतकाद्या मदिरायास्तनयाः । भद्रायाश्वोपनिधि-गदाद्याः ।
वैशाल्यां च कौशिकमेकमजनयदानकदुन्दुभिः । देवक्यामपि कीत्तिंमत्--
सुषणोदापि-भद्रसेन-ऋजुदास-भद्रदेहाख्याः षट् पुत्रा जाज्ञरे । तांश्व सर्व्वानेव संसो घातितवान् ।। ४-१५-१३ ।।
 
अनन्तरञ्च सप्तमं गर्भमर्द्धरात्रे भगवत्प्रहिता योगनिद्रा रोहिण्या जठरमपकृष्य नीतवती ।। ४-१५-१४ ।।
 
कर्षणाच्चासावपि सङ्कर्षणाख्यमवाप ।। ४-१५-१५ ।।
 
ततः सकलजगन्महातरुमूलभूतो भूतातीतभविष्यदादिसकल-सुरासुर-मुनिमनुज-मनसा-मप्यगोचरोऽब्जभवप्रमुखैरनलप्रमुखैश्व प्रणम्यावनिभारावता रणाय प्रसादितो भगवाननादिमध्यो देवकीगर्बे समवततार वासुदेवः ।। ४-१५-१६ ।।
 
ततूप्रसादविवद्धितमानाभिमाना च योगनिद्रा नन्दगोपपत्नया यशोदाया गर्भमधिष्ठितवती ।। ४-१५-१७ ।।
 
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं सुस्थमानसभखिलमवैतज्जगदपास्त धर्म्मभवत् तस्मिंश्व पुण्डरीकनयने जायमाने ।। ४-१५-१८ ।।
 
जातेन च तेनाखिलमेवैतत् सन्मार्गवर्त्ति जगदक्रियत ।
भगवतोऽप्यत्र मर्त्त्यलोकेऽवतीर्णस्य षोड़शसहस्राण्येकोत्तरशताधिकानि स्त्रीणा मभवन् । तासाञ्च रुक्मिणी-सत्यभामा-जाम्बवती-जालहासिनी-प्रमुखा अष्टौ पत्नयः प्रधानाः । तासु चाष्टायुतानि लक्षञ्च पुत्राणां भगवानखिलमुर्त्तिरनादिमानजनयत् ।। ४-१५-१९ ।।
 
तेषाञ्च प्रद्यु म्र-चारुदेष्ण-साम्बादयस्त्रयोदश प्रधानाः । प्रद्यु म्रो हि रुकिमणस्तनयां ककुदूतीं नामोपयेमे । तस्यामस्यानिरुद्धो जज्ञ । अनिरुद्धोऽपि रुक्मिण एव पौत्रीं सुभद्रां नामोपयेमे । तस्यामस्य वज्रोऽभवत् । वज्रस्य प्रतिबाहुः, तस्यापि सुचारुः ।
एवमनेकशतसाहस्त्रपुरुषसङ्घस्य यदुकुलस्य पुरुषसंख्या वर्षशतैरपि ज्ञातु न
शक्यते । यतो हि श्व्लोकावत्र चरितार्थो ।। ४-१५-२० ।।
 
तिस्त्रः कोटयः सहस्त्राणामष्टाशीतिशतानि च ।
कुमाराणां गुहाचार्य्यश्वापयोग्यासु ये रताः ।। ४-१५-२१ ।।
 
सङ्खयानं यादवानां कः करिष्यति महात्मनाम ।
यत्रायुतानामयूतं लक्षेणास्ते शताधिकम् ।। ४-१५-२२ ।।
 
देवासुरहता ये तु दैतेयाः सुमहाबलाः ।
ते चोत्पन्ना मनुष्येषु जनोपद्रवकारिणः ।। ४-१५-२३ ।।
 
तेषामुतूसादनार्थाय भुवि देवो यदोः कुले ।
अवतीर्णः कुलशतं यत्रैकाभ्यधिकं द्रिज ।। ४-१५-२४ ।।
 
विष्णुस्तैषां प्रमाणो च प्रभुत्वे च व्यवस्तितः ।
निदेशस्थामयिनस्तस्य बभूवुः सर्व्वयादवाः ।। ४-१५-२५ ।।
 
प्रसूति वृष्णिवीराणां यः श्वृणोति नरःसदा ।
स सर्व्वपातकैर्मुक्तो विष्णुलोकं प्रपद्यते ।। ४-१५-२६ ।।
 
 
</poem>