"विष्णुपुराणम्/चतुर्थांशः/अध्यायः २०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
परिक्षितो जनमेजय-श्रुतसेनोग्रसेन-भीमसेनाश्वत्वारः पुत्राः ।। ४-२०-१ ।।
 
जह्नोस्तु सुरथो नामात्मजो बभूव ।। ४-२०-२ ।।
 
तस्य विदूरथः, विदूरथस्य सार्व्वभौमः सार्व्वभौमाज्जयसेनः तस्मा
दारावी, ततश्वायुतायुः, अयुतायोक्रोधनः, तस्माद देवातिथिः, ततश्व ऋक्षोऽन्यः ।। ४-२०-३ ।।
 
ऋक्षादू भीमसेनः, ततश्व दिलीपः, दिलीपात् प्रतीपः तस्यापि देवापि-शान्तनु-बाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः देवापिर्बाल्य एवारण्यं विवेश ।। ४-२०-४ ।।
 
शान्तनुरवनीपतिरभवत् । अयञ्च तस्य श्लोकः पृथिव्यां गीयते ।।
यं य कराभ्यां स्पृशति जीर्णां यौवनमेति सः ।
शान्तिञ्चाप्रोति येनाग्यां कर्म्मणा तेन शान्तनुः ।। ४-२०-५ ।।
 
तस्य शान्तनो राष्ट द्रादशवर्षाणि देवो न ववर्ष ।। ४-२०-६ ।।
 
ततश्वाशेषराष्ट्रविनाशमवेक्ष्यासो राजा ब्राह्मण नपृच्छत्,--अग्रजस्य तेऽर्हेय मवनिस्त्वया भुज्यते, परिवेत्ता त्वम्, इत्युक्तः । स पुनस्तानपृच्छत्,
किं मया विधेयमिति । ते तमूचुः यावदू देवापिर्न पतनादिभि र्द्दोषैरभिभूयते, तावत्तस्यार्हं राज्यं, तदलमेतेन, तस्मै दीयताम्, इत्युक्ते तस्य मन्त्रिप्रवरेणाश्मसारिणा तत्रारण्ये तपस्विने वेदवादविरोधवक्तारः प्रयोजिताः ।। ४-२०-७ ।।
 
तैरप्यत्युजुमतेर्महीषतिपुत्रस्य बुद्धिर्वेदविरोध मार्गानुसारिण्यक्रियत ।। ४-२०-८ ।।
 
राजा च शान्तनुर्द्रिजवचनोतूपन्नपरिवेदनशोकस्तान् ब्राह्मणानग्रणीकृत्य अग्रजराज्यप्रदानायारण्य जगाम । तदाश्रममुपगताश्व तमवनीपतिपुत्रं देवा पिमुपतस्थुः । ते ब्राह्मणा वेदवादानुबद्धानि वचांसि राज्यमग्रजन कर्त्तव्य मित्यर्थवन्ति तमूचुः । असावपि वेदवादविरोधियुक्तिदूषितमनेकप्रकार तानाह । ततदस्ते ब्राह्मणाः शान्तनुमूचुः, आगच्छ भो रातजन । अलमत्राति निर्बन्धेन, प्रशान्त एवासावावृष्टिदोषः पतितोऽयमनादिकाल-महीतवेदवचन दूषणोज्वारणात् । पतिते चाग्रजे नैव परिवेद्य भवति, इत्युक्तः शान्तनुः स्वपुरमागत्य राज्य-मकरोत् । वेदवादविरोधिवचनोज्वारणदूषिते च ज्येष्ठेऽस्मिन् भ्रातरि देवापावखिलशस्यनिष्पत्तये ववर्ष भगवान् पर्ज्जन्यः ।। ४-२०-९ ।।
 
बाह्लीकस्य सोमदत्तः पुत्रोऽभूत् । सोमदत्तस्यापिभूरि-भूरिश्ववः-शल्यसंज्ञास्त्रयः पुत्राः ।
शान्तनो रप्यमरनद्या गङ्गयामुदारकीर्त्तिरशेषशास्त्रर्थविदू भीष्मः पुत्रोऽभूत् । सत्यवत्याञ्च चित्राङ्गद-विचित्रवीर्य्यौ पुत्रावजनयत् शान्तनुः । चित्राङ्गदस्तु बाल एव चित्राङ्कदेन गन्धर्व्वणाहवे विनिहतः । विचित्रवीर्य्योऽपि काशिसजतनये अम्बिकाम्बालिके उपयेमे । तदुपभोगादिखेदाज्व यक्ष्मणा गृहीतः पञ्चत्वमगमत् । सत्यवतीनियोगाज्व र्मत्पुत्रः कृष्णदूपौयनो मात र्वचनमनतिक्रमणीयमिति विचित्रवीर्य्यक्षेत्रे धृतराष्ट्र-पाणडू तत्प्रहितभुजिष्या याञ्च विदुरमुत्पादयामास ।। ४-२०-१० ।।
 
धृतराष्टोऽपि दुर्य्योधन-दुः शासनादिप्रघानं पुत्रशतं (णन्धार्य्याम्) उत्पा दयामास । पाण्डोरप्यरण्ये मृगशापोपहतप्रजाजननसामर्थ्यस्य धर्म्म-वायुशक्रैर्युधिष्ठिर-भीमसेनार्ज्जुनाः तेषां द्रौपद्यां पञ्च पुत्रा बभूवुः । युधिष्ठिरात् प्रतिविन्ध्यः, भीमसेनात् सुतसोमः, श्रुतकीर्तिररर्ज्जुनात्, शतानीको नकुलात्, श्रु तकर्म्मा सह्टदेवात् । अपरे च पाण्डवानामात्मजाः, तदूयथा
यौधेयी युधिष्ठिरादू देवक पुत्रमवाप । हिड़िम्बा घटोतूकचं भीमसेनात् पुत्रमवाप । काशी च भीमसेनादेव सर्व्वत्रगं पुत्रमवाप । सहदेवाज्व विजया सुहोत्रं नाम पुत्रं प्राप्तवती । करेणुमत्याञ्च नकुलोऽपि निरि मित्रमजीजनत् । अर्ज्जुनस्याप्युलूप्यां नागकन्यायामिरावान् नाम पुत्रोऽभूत् । मणिपुरपतिपुत्र्याञ्च पुत्रिकाधर्म्मेण बभ्रुवाहनं नाम पुत्रमजीजन ।। ४-२०-११ ।।
 
सुभद्रायाञ्जर्भकत्वेऽपि योऽसावतिबलपराक्रम समस्तारातिरथविजेता सोऽभिमन्युरजायत । अभिमन्योरुत्तरायां परिक्षीणोषु कुरुष्वश्बत्थौमप्रयुक्तब्रह्मास्त्रेण गर्भ एव भस्मीकृतो भगवतः सकलसुरा-सुखन्दित-चरणयुगल स्यात्मेच्छाकारणमानुषरूप - धारिणोऽनुभावात् पुनर्ज्जीवितमवाप्य परिक्षित् जज्ञ ।। ४-२०-१२ ।।
 
योऽयं साम्प्रतमेतदू भूमण़लमखणिडतायति धर्म्मेण पालयतीति ।। ४-२०-१३ ।।
 
</poem>