"श्रीबिल्वाष्टकम्" इत्यस्य संस्करणे भेदः

<peom> त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायु... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०४:५८, २ जनवरी २०१२ इत्यस्य संस्करणं

<peom> त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारम् एकबिल्वं शिवार्पणम् ॥ १॥

त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारम् एकबिल्वं शिवार्पणम् ॥ ३॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४॥

तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा । पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम् ॥ ५॥

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् । कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ६॥

दन्त्यश्वकोटिदानानि अश्वमेधशतानि च । कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ७॥

सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥

अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥

एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् । महादेवस्य पूजार्थम् एकबिल्वं शिवार्पणम् ॥ १०॥

अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥

॥ ॐ तत्सत् ॥

</peom>

"https://sa.wikisource.org/w/index.php?title=श्रीबिल्वाष्टकम्&oldid=25002" इत्यस्माद् प्रतिप्राप्तम्