"ऋग्वेदः सूक्तं १०.६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
अध्यायं सायणामात्यो द्वितीयं व्याचिकीर्षति ।।
 
तत्र ‘ ये यज्ञेन' इत्येकादशर्चमनुवाकापेक्षया द्वितीयं सूक्तं मानवस्य नाभानेदिष्ठस्यार्षम् । आदितश्चतस्रो जगत्यः । पञ्चम्यनुष्टुप् । षष्ठी बृहती। सप्तमी सतोबृहती । अष्टमीनवम्यावनुष्टुभौ । दशमी गायत्री । एकादशी त्रिष्टुप् । आदितः षण्णां विश्वे देवा अङ्गिरसो वा देवता । सप्तमी वैश्वदेवी । अष्टम्याद्यासु चतसृषु सावर्णेर्महाराजस्य दानं स्तूयते । अतस्तास्तदेवताकाःअतस्तास्तद्देवताकाः । तथा चानुक्रम्यते---- ‘ ये यज्ञेनैकादशाद्याः षळङ्गिरसां स्तुतिर्वान्त्या त्रिष्टुप्पञ्चम्यनुष्टुप्प्रगाथोऽनुष्टुभौ गायत्री चतस्रोऽन्त्याः सावर्णेर्दानस्तुतिः' इति । षष्ठेऽहनि वैश्वदेवशस्त्र एतत्सूक्तम् । सूत्रितं च -- ' इदमित्था रौद्रमिति प्रागुपोत्तमाया ये यज्ञेनेत्यावपते ' ( आश्व. श्रौ. ८. १ ) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६२" इत्यस्माद् प्रतिप्राप्तम्